________________
संस्कृत काव्यानंद भाग १ लो. अदृष्टपरसामर्थ्यः सदर्पः को भवेन्नहि नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुमिच्छति मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा यथाखरश्चंदन भारवाही, भारस्यवेत्तानतु चंदनस्य एवंहिशास्त्राणि बहून्यधीत्य, चार्थेषु मूढाः खरवद्वहंति ९७० न दुर्जनः सज्जनता मुपैति, बहु प्रकारै रपि सेव्य मानः अत्यंत सिक्तः पयसाघृतेन, ननिंब वृक्षो मधुता मुपैति १७१ कृशोपिसिंहो नसमोगजेंद्रैः, सत्वं प्रधानंनतु मांस राशि: अनेकवृंदानि वनेगजानां, सिंहस्यनादेन मदंत्यजति १७२ यत्नेन पापानि समाचरंति, धर्म प्रसंगादपि नाचरंति आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषंपिति १७३ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ज्ञानलवदुर्विदग्धं, ब्रह्मापितं नरं न रञ्जयति येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न धर्मः मृत्युला भुवि भारभूता, मनुष्यरूपेण मृगाचरन्ति १७५ दानं भोगो नाशस्तिस्रो गतयेो भवन्ति वित्तस्य यो न ददाति न भुङ्क्ते तस्य तृतीया गति र्भवति १७६ अकरुणत्वमकारण विग्रहः, परवने परयोषिति च स्पृहा स्वजनबन्धुजनेष्वसहिष्णुता, प्रकृतिसिद्धमिदं हि दुरात्मनाम्.
१७४
१९
१६८
१६९