________________
संस्कृत काव्यानंद भाग १ लो.
२३
परोपि बन्धुत्वमुपैति दानै, दनं हि सर्वव्यसनानि हन्ति२०६ यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवान् गुणज्ञः स एव वक्ता स च दर्शनीयः, सर्वे गुणाः कांचनमाश्रयन्ते २०७ त्यजन्ति मित्राणि धनैर्विहीनं, पुत्राश्च दाराश्च मुद्रणाच तमर्थवन्तं पुनराश्रयन्ति, अर्थो हि लोके पुरुषस्य बन्धुः २०८ बुभुक्षितैर्व्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पायते नच्छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जयनिष्फलागुणाः अंबा तुष्यति न मया, न स्नुषया सापि नांवया नमया अहमपि नतया न तया, वद राजन् कस्य दोषोऽयम् २१० अहो नु कष्टं सततं प्रवासः, ततोतिकष्टः परगेहवासः कष्टाधिका नीच जनस्य सेवा, ततोऽतिकष्टा धनहीनताच २११ शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः नीचो वदति न कुरुते, वदति न साधुः करोत्येव २१२ मृगमीनसज्जनानां, तृणजल संतोष विहितवृत्तीनाम् लुब्धकधीवरपिशुना, निष्कारण वैरिणो जगति विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानायच रक्षणाय . २१४ भिक्षो कन्था श्लथा ते, नहि शंफरिवधे, जाल मश्नासि मत्स्यान् ते वैद्योपदंशाः पिसि मधु समं, वेश्यया यासि वेश्याम् ?
२१३