SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ संस्कृत काव्यानंद भाग १ लो. २१ एको वासः पत्तने वा वने वा, एका भार्या सुन्दरी वादरीवा. यःपरस्य विषमं विचिन्तयेत्,प्राप्नुयात्स कुमतिः स्वयंहि तत् पूतना हरिवधार्थमाययो, पाप सैव वधमात्मनस्ततः १८८ मांसं मृगाणां दशनौ गजानां, मृगद्विषां चर्म फलं द्रुमाणाम् स्त्रीणां सुरूपंच नृणां हिरण्यं, एते गुणा वैरकरा भवन्ति १८९ विरला जानन्ति गुणान, विरलाः कुर्वन्ति निर्धने स्नेहम् विरलाः परकायरताः, परदुःखेनापि दुःखिता विरलाः १९० दधि मधुरं मधु मधुरं, द्राक्षा मधुरा सुधापि मधुरैव तस्य तदेव हि मधुरं, यस्य मनो यत्र संलग्नम् १९१ मृगा मृगैः संगमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरंगैः मूर्खाश्च मूईः सुधियः सुधीभिः,समानशीलव्यसनेषु सख्यम्. आपदि मित्रपरीक्षा, शूरपरीक्षा रणांगणे भवति विनये वंशपरीक्षा, स्त्रियः परीक्षा तु निर्धने पुंसि १९३ प्राप्य चलानधिकारान्, शत्रुषु मित्रेषु बन्धुवर्गेषु नापकृतं नोपकृतं, न सत्कृतं किं कृतं तेन १९४ अबला यत्र प्रबला, बालो राजा निरक्षरो मन्त्री नहि नहि तत्र धनाशा, जीवितुमाशापि दुर्लभा भवती १९५ दरिद्रता धीरतया विराजते, कुरूपता शीलगुणैर्विराजते कुभोजनं चोष्णतया विराजते, कुवस्त्रता शुभ्रतया विराजते.
SR No.002466
Book TitleSanskrit Kavyanand Part 01
Original Sutra AuthorN/A
AuthorNanchandra Muni
PublisherAjramar Jain Vidyashala
Publication Year
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy