SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ संस्कृत काव्यानंद भाग १ लो. छिन्नं छिन्नं पुनरपि पुनः स्वादुचवेक्षुकाण्डम् दग्धं दग्धं पुनरपि पुनः कांचनं कान्तवर्णम् न प्राणान्ते प्रकृतिविकृतिर्जायते सञ्जनानाम् . वैद्या बदन्ति कफपित्तमरुद्विकारान ज्यातिविदो ग्रहगतिं परिवर्तयन्ति भूताभिषंग इति भूतविदो वदन्ति मारब्धकर्म बलवन्मुनयो वदन्ति । भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य कृत्स्नाच भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वमुकृतं विपुलं नरस्य नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव नच यकृतापि सेवा भाग्यानि पूर्वतपसा खलु संचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः दाता न दापयति दापयिता न दत्ते यो दानदापनपरो मधुरं न वक्ति । दानं च दापनमयो मधुरा च वाणी त्रीण्यप्यमूनि खलु सत्पुरुषे वसन्ति
SR No.002466
Book TitleSanskrit Kavyanand Part 01
Original Sutra AuthorN/A
AuthorNanchandra Muni
PublisherAjramar Jain Vidyashala
Publication Year
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy