Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 38
________________ २८९ २९० ३६ संस्कृत काव्यानंद भाग १ लो. सुख शान्तः शेते मुनिरतनुभूतिप इव क्वचिद्वीणावादः कचिदपि च हाहेति रुदितं कचिनारी रम्या कचिदपि जराजर्जरवपुः . कचिद्विद्वद्गोष्ठी कचिदपि सुरामत्तकलहो न जाने संसारः किममृतमयः किं विषमयः शौर्हतास्तु रिपवो न हता भवनित प्रज्ञाहतास्तु नितरां सुहता भवन्ति । शस्त्रं निहन्ति पुरुषष्य शरीरमेकं . प्रज्ञा कुलं च विभवं च यशश्च हन्ति हंसो न भाति बलिभोजनवृन्दमध्ये गोमायु मण्डलगतो न विभाति सिंहः जात्यो न भाति तुरगः खरयूथमध्ये विद्वान भाति पुरुषेषु निरक्षरेषु उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी वेन देयमिति कापुरुषा वदन्ति दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोत्र दोषः जाडयं धियो हरति सिंचति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति २९१ २९३

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50