Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 43
________________ संस्कृत काव्यानंद भाग १ लो.. ४१ अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ३१३ गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पण्डितेन अतिरभसकृतानां कर्मणामाविपत्तेभवति हृदयदाही शल्यतुल्यो विपाकः ३१४ कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः कर्षन्ति भूरिविषयाश्च न लोभपाशैलोकत्रयं जयति कृत्स्नमिदं स धीरः स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् खवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं मुहुनिन्यं रूपं कविजनविशेषैर्गुरु कृतम् व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शव इव प्रहरन्ति देहम् आयुः परिस्रवति भिन्नघटादिवाम्मो लोकस्तथाप्यहितमाचरतीति चित्रम् । अपार संसार समुद्र मध्ये, निमज्जतो मे शरणं किमस्ति

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50