Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 41
________________ संस्कृत काव्यानंद भाग १ लो. प्रारभ्यते न खलु विघ्नभयेन नीचैः मारभ्य विघ्नविहता विरमन्ति मध्याः विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः मारब्धमुत्तमजना न परित्यजन्ति नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन इति महति विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता मौनान्मुकः प्रवचनपटुर्वातुलो जल्पको वा धृष्टः पार्श्वे वसति च तदा दूरतश्चाप्रगल्भः क्षान्त्याभीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः चेतोहरा युवतयः सुहृदोनुकूलाः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः गर्जन्ति दन्तिनिवहास्तरलास्तुरंगाः संमीलने. नयनयोर्न हि किंचिदस्ति केचिद्वदन्ति धनहीनजनो जघन्यः केचिद्वदन्ति गुणहीनजनो जघन्यः न्यासो वदत्यखिलवेदपुराणविज्ञो ३९ ३०४ ३०५ ३०६ ३०७

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50