Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 39
________________ संस्कृत काव्यानंद भाग १ लो. चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्संगतिःकथय किं न करोति पुंसाम् यो नात्मजे नच गुरौ नच बन्धुवर्गे दीने दयां न कुरुते नच भृत्यवर्गे किं तस्य जीवितफलं हि मनुष्यलोके काकोपि जीवति चिराय बलिं च भुंक्ते सर्पाः पिबन्ति पवनं नच दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति कन्दैः फलैर्मुनिवराः क्षपयन्ति कालम् संतोष एव पुरुपस्य परं निधानम् भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम् वस्त्रं सुजीर्णशतखण्डमयी च कंथा हाहा तथापि विषयान् न जहाति चेतः उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वहिः विकसति यदि पद्म पर्वताग्रे शिलायाम् न भवति पुनरुक्तं भाषितं सज्जनानाम् घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम्

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50