Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 10
________________ . ६४ संस्कृत काव्यानंद भाग १ लो. काव्यशास्त्रविनोदेन कालो गच्छति धीमतां व्यसनेन च मूर्खाणां निद्रया कलहेन वा हंसः श्वेतो बका श्वेतः को भेदो बकहंसयोः नीरक्षीरपरीक्षायां हंसा हंसा बको बकः । येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः मयूराश्चित्रिता येन स ते वृति विधास्यति यूयं वयं वयं यूयमित्यासीन्मतिरावयाः । किं जातमधुना येन यूयं यूयं वयं वयम् यद्यत्परवशं कर्म तत्तयत्नेन वर्जयेत् । यद्यदात्मवशं तु स्थात् तत्तत्सेवेत यनतः । कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् अपराधिषु सत्वेषु नृपाणां सैव दूषणम् सेवितव्यो महान् वृक्षः फलच्छायासमन्वितः दैवाद्यदि फलं नास्ति छाया केन निवार्यते मित्रद्रोही कृतघ्नश्च तथा विश्वासघातकः त्रयस्ते नरकं यान्ति यावश्चन्द्रदिवाकरौ जनिता चोपनेता च यश्च विद्यां प्रयच्छति

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50