Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
| एकैकस्यानन्तजीवात्मकस्य सूक्ष्मस्य बादरस्य वा निगोदस्या संख्येयभागीकृतस्यैकोऽसंख्येयभागः सततमुद्वर्त्तते, एकश्चासंख्येयो भागस्तस्मिन् स्थाने सततमुत्पद्यते, सोऽपि चासंख्येयभागोऽनन्तजीवात्मकः, एवं चैकस्मिन्नपि निगोदे प्रतिसमय मुत्पद्यमाना अनन्ताः प्राप्यन्ते, किं पुनः सर्वनिगोदेष्विति ? । अथ निगोद इति किमुच्यते ?, उच्यते, अनन्तानां जीवानां साधारणमेकं स्तिबुकाकारमौदारिकं शरीरं, तैजसकार्मणे तु शरीरे प्रतिजीवं विभिन्ने, ते चानन्ता अपि जीवाः 'समगं ऊससन्ति समगं नीससन्ति, समगं आहारंति समगं नीहारंति' ॥ २३१ ॥ असंख्यातानां च निगोदानां समुदायो गोलकाकारो गोलकः, ते च गोलका असंख्येयास्तदेवाह -
गोलाय असंखिजा, अस्संखनिगोअओ हवइ गोलो । एक्कम्मि निगोए, अनंतजीवा मुणेयवा ॥ २३२ ॥
उक्तार्था तत्त्वं तु यथागमसंप्रदायं किञ्चिदुच्यते - इह द्विविधा जीवाः, सांव्यवहारिकाः असांव्यवहारिकाश्च, तत्र ये अनादि सूक्ष्मनिगोदेभ्यः उद्धृत्य शेषजीवेषूत्पद्यन्ते (ते) पृथिव्यादिविविधव्यवहारयोगात्सांव्यहारिकाः, | पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते, ते तथाविधव्यवहारातीतत्वादसांव्यवहारिकाः, तत्र सांव्यवहा| रिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेपूत्पद्यन्ते, तेभ्योऽप्युहृत्य केचिद्धयोऽपि तेष्वेव निगोदेषु गच्छन्ति, परं
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292