________________
ROCCCCCCCCC0
अज्झवसाण १ निमित्ते २, आहारे ३ वेअणा ४ पराघाए ५, ।
फासे ६ आणापाणू ७, सत्तविहं झिज्झए आउं ॥ २६७ ॥ व्याख्या-आयुः क्षीयते-क्षयं याति शीघ्र ध्वंसत इत्यर्थः, कथं ? सप्त विधा:-प्रकारा यत्र क्षपणे तत्सप्तविधं क्रियाविशेषणमेतत् , प्रकारानेवाह-अध्यवसाने-रागस्नेहभयरूपेऽत्यन्तमन्तर्विकल्पे सति, तत्र रागादायुःक्षयो यथाकस्याश्चित् प्रपापालिकायास्तरुणमनुरागतः पश्यन्त्याः, स्नेहादायुःक्षयो यथा-कस्याश्चित् सार्थवाद्याः देशान्तराद्वहिः समागते सार्थवाहे मित्रैः स्नेहपरीक्षार्थ विपन्ने कथिते सार्थवाह्याः, सार्थवाहीविपत्तिकथने च सार्थवाहस्यापि, भयादायुःक्षयो यथा-वासुदेवदर्शनात् गजसुकुमारश्वशुरस्य सोमिलस्य, 'निमित्ते' दण्डकशाशस्त्ररज्ज्वादिके २, 'आहारे' सर्वथा संपन्ने अतिस्निग्धे अतिमात्रे वा ३, 'वेदनायां' शूलादिकायां ४, 'पराघाते' गाप्रपातादिसमुत्थे ५, 'स्पर्श' त्वग्निविषमसपादिसत्के ६, 'प्राणापाने उच्छासनिःश्वासरूपेऽत्यन्तं प्रसर्पति निरुद्ध वा सतीति ७, एतैश्चोपक्रमैरपवर्तनयोग्यमेवायुरुपक्रम्यते नेतरतू , तथैते उपक्रमाश्चरमशरीरिणामपि केषाञ्चित् स्कन्दकाचार्यशिष्याणामिव सम्भवन्ति, पीडां च जनयन्ति, न पुनरायुरपवर्त्तयन्ति, केवलमुपक्रमहेतुसंपर्कमात्रात्तेऽपि सोपक्रमायुष इव प्रतिभासन्ते ॥ २६७ ॥ अथ यावत्संख्याः पर्याप्तयो भवन्ति, यावत्यश्चैकेन्द्रियादीनां तदाह
in Education International
For Privale & Personal use only
www.jainelibrary.org