Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
दसंख्यातानि शरीराणि, ये तु साधारणशरीरा अनन्तास्तेषामप्यनन्तानामनन्तानामेकैकशरीरभावादसंख्यातान्येव शरीराणि ततो यद्यप्यनन्तास्तिर्यञ्चस्तथापि सर्वाण्यप्य संख्येयान्येवौदारिकशरीराणि, तेभ्योऽनन्तगुणानि तैजसका - र्मणानि, सर्व संसारिजीवेषु प्रत्येकं तेषामवश्यंभावात् १| अवगाहना शरीरप्रमाणरूपा, सा च सुरादीनां प्रागुक्ता २ संहननं वज्रर्षभनाराचादि पोढा, तदप्युक्तं ३। संज्ञानं संज्ञा, सा चाहारभयपरिग्रहमैथुन भेदाच्चतुर्विधा । संतिष्ठन्तेऽनेनेति संस्थानमाकारः, तच्च द्विधा - जीवानामजीवानां च तत्र जीवानां पोढा, समचतुरस्रादि, तच्च प्रागुक्तं, अजीवानां तु रूपिणां पञ्चधा, तद्यथा - परिमण्डलं १ वृत्तं २ व्यस्त्रं ३ चतुरस्र ४ मायतं ५ च तत्र परिमण्डलं संस्थानं | बहिर्वृत्ततावस्थितप्रदेशजनितमन्तः शुषिरं, यथा वलयस्य, तदेवान्तः पूर्ण वृत्तं यथा - कुलालचक्रस्य, त्र्यत्रं त्रिकोणं यथाशृङ्गाटकस्य, चतुरस्रं चतुष्कोणं यथा-स्तम्भाधारकुम्भिकायाः, आयतं दीर्घ यथा दण्डकस्य, सर्वाणि चैतानि घनप्रतरभेदात् द्विधा, पुनः परिमण्डलवर्णान्योज प्रदेशजनितानि युग्मप्रदेशज नितानि च, परिमण्डलं तु युग्मप्रदेशजनितमेव । तत्रौजप्रदेशं प्रतरवृत्तं पञ्चाणुनिष्पन्नं पञ्चाकाशप्रदेशावगाढं च तत्रैकोऽणुर्मध्ये चत्वारश्चतुर्द्दिशं निरन्तराः स्थाप्यन्ते युग्मप्रदेशं प्रतरवृत्तं द्वादशप्रदेश द्वादशप्रदेशावगाढं च तत्र निरन्तरं चतुर्व्वाकाशप्रदेशेषु चत्वारोऽणवस्तत्परिक्षेपेण चाष्टौ स्थाप्यते, ओजप्रदेशं घनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च तत्र प्रागुक्ते पञ्चप्रदेशे प्रतरवृत्तेमध्यस्थित स्थाणोरुपर्यधस्ताच्चैकैकोऽणुःस्थाप्यते, युग्मप्रदेशं घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तच्चैवं -
For Private & Personal Use Only
ぷん
wwww.jainelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292