Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 267
________________ SAMROSCORNSESCAR मरंति, असमोहयावि मरंति'त्ति १०। 'दिहित्ति दर्शनं दृष्टिः, सा त्रिधा-सम्यग्दृष्टिमिथ्याष्टिः सम्यगमिथ्यादृष्टिश्च ११ । 'दंसण'त्ति दर्शनं-वस्तुसामान्यांशग्राहि, तचतुर्धा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च ४|१२ । ज्ञानं वस्तुविशेषांशग्राहि मतिश्रुतावधिमनःपर्यायकेवलभेदात्पञ्चधा १३। योजनं युज्यते धावनवल्गनादि|क्रियासु व्यापार्यतेऽसाविति वा युज्यते सम्बध्यते वल्गनादिक्रियया जीवोऽनेनेति वा योगो वीर्य शक्तिरुत्साहः परिस्यन्द इतियावत् , स च मनोवाकायव्यापारभेदात्पञ्चदशधा, तत्र सत्यासत्यमिश्रानुभयभेदान्मनोयोगश्चतुर्दा, एवं वाग्योगोऽपि, काययोगस्तु सप्तधा-औदारिक औदारिकमिश्रः वैक्रियो वैक्रिय मिश्रः आहारकः आहारकमिश्रः कार्मणश्चेति १४ । उपयोजनं उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यतेऽसाविति अनेनेति वा उपयोगो जीवखतत्त्वभूतो बोधः, स च साकारोऽनाकारश्च, तत्र साकारः पञ्च ज्ञानानि त्रीणि च मत्यज्ञानश्रुताज्ञानविभङ्गरूपाण्यज्ञानानीत्यष्टधा । अनाकारस्तु चक्षुर्दर्शनादिश्चतुर्दा १५ । उपपातं च्यवनं चेतिद्वारद्वयं विरहकालमेकसमयसयां चाधिकृत्य प्राग व्याख्यातं १६ ।" स्थितिः १८ पर्याप्तयः १९ इत्यपि द्वारद्वयं प्रागेवोक्तं 'किमाहारे'त्ति | आहारयतीत्याहारकः, ततः किमाहारकोऽनाहारको वा जीवः ? यद्वा किंखरूपः सचित्तादिः ? केन वा शरीरेणाहारोऽस्येति किमाहार इत्यप्युक्तमेव, के जीवाः कतिभ्यो दिग्भ्य आगतानि द्रव्याण्याहारयन्तीत्यादिप्रपञ्चस्तु जीवाभिगमाद्वोद्धव्यः २० । संज्ञाऽस्यास्तीति संज्ञी पञ्चेन्द्रियो मनःपर्याप्त्या पर्याप्तः, इतरे तु पृथिव्यादयः RESOROSC Jain Education in For Privale & Personal use only allaw.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292