Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एव निष्पद्यते, तथा च प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रम्-"आहारपजत्तीए अपजत्तएणं भन्ते ? किं आहारए अणाहारए ?, गोअमा!, नो आहारए अणाहारए" इति, आहारपर्याप्त्याऽपर्याप्तश्च विग्रहगतावेवोत्पद्यते नोपपातक्षेत्रमागतः, तत्र प्रथमसमये एवाहारकत्वात् , यदुक्तं प्राक्-'विग्गहगइमावन्ना, केवलिणो समोहया अजोगी
। सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥१॥' यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्याप्त्याऽपर्याप्तः स्यात्तहै दैवमुत्तरसूत्रं स्यात् 'सिअ आहारए सिअ अणाहारए' यथा शरीरादिपर्याप्तिषु 'सिअ आहारए सिअ अणाहारए' 1 इति, शेपास्तु पञ्चाप्यौदारिकशरीरिणां प्रत्येकमसङ्ख्यातसमयप्रमाणेनान्तर्मुहुर्तेन निष्पद्यन्ते, वैक्रियाहारकशरीरिणां ।
तु शरीरपर्याप्तिरन्तमुहूर्तेन शेषाः सर्वा अप्येकैकेनैव समयेन, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्त्तमेवेति । तथैकेन्द्रियाणामाद्याश्चतस्रः पर्याप्तयः, विकलानां द्वित्रिचतुरिन्द्रियाणां भाषासहिताः पञ्च, असंज्ञिनामपि संमूछिमपञ्चेन्द्रियतिर्यङ्नराणां ता एव पञ्च, तथा च मूलटीकायां हरिभद्रसूरिः-"संमुच्छिमाणवि पंच हवंति, असनित्तणओ, जं पुण संमुच्छिममच्छा महल्लप्पमाणा समुद्दे आहारनिमित्तं मुहुग्घाडणसंमिलाणं करिंति, आहारसन्नेव तेसिं, अहवा थोअमणोदवलद्धिमत्तणओ असन्निणो पवुचंति"त्ति । संज्ञिनां गर्भजपञ्चेन्द्रियतिर्यङ्नरदेवनार-2 काणां मनःसहिताः पडपि । एताभिश्च स्वखयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं
SORSCIRCANESCOALSCRECRESCRENCIENC0
Jan Education in
For Private & Personal Use Only

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292