SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ एव निष्पद्यते, तथा च प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रम्-"आहारपजत्तीए अपजत्तएणं भन्ते ? किं आहारए अणाहारए ?, गोअमा!, नो आहारए अणाहारए" इति, आहारपर्याप्त्याऽपर्याप्तश्च विग्रहगतावेवोत्पद्यते नोपपातक्षेत्रमागतः, तत्र प्रथमसमये एवाहारकत्वात् , यदुक्तं प्राक्-'विग्गहगइमावन्ना, केवलिणो समोहया अजोगी । सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥१॥' यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्याप्त्याऽपर्याप्तः स्यात्तहै दैवमुत्तरसूत्रं स्यात् 'सिअ आहारए सिअ अणाहारए' यथा शरीरादिपर्याप्तिषु 'सिअ आहारए सिअ अणाहारए' 1 इति, शेपास्तु पञ्चाप्यौदारिकशरीरिणां प्रत्येकमसङ्ख्यातसमयप्रमाणेनान्तर्मुहुर्तेन निष्पद्यन्ते, वैक्रियाहारकशरीरिणां । तु शरीरपर्याप्तिरन्तमुहूर्तेन शेषाः सर्वा अप्येकैकेनैव समयेन, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्त्तमेवेति । तथैकेन्द्रियाणामाद्याश्चतस्रः पर्याप्तयः, विकलानां द्वित्रिचतुरिन्द्रियाणां भाषासहिताः पञ्च, असंज्ञिनामपि संमूछिमपञ्चेन्द्रियतिर्यङ्नराणां ता एव पञ्च, तथा च मूलटीकायां हरिभद्रसूरिः-"संमुच्छिमाणवि पंच हवंति, असनित्तणओ, जं पुण संमुच्छिममच्छा महल्लप्पमाणा समुद्दे आहारनिमित्तं मुहुग्घाडणसंमिलाणं करिंति, आहारसन्नेव तेसिं, अहवा थोअमणोदवलद्धिमत्तणओ असन्निणो पवुचंति"त्ति । संज्ञिनां गर्भजपञ्चेन्द्रियतिर्यङ्नरदेवनार-2 काणां मनःसहिताः पडपि । एताभिश्च स्वखयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं SORSCIRCANESCOALSCRECRESCRENCIENC0 Jan Education in For Private & Personal Use Only
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy