________________
वृत्तिः
संग्रहणी॥११९॥
आहार सरीरिंदिों, पजत्ती आणेपाण भासमणे ।
चउ पंच पंच छप्पिअ, इगविगलासन्निसन्नीणं ॥ २६८ ॥ व्याख्या-पर्याप्तिः-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः,सा च पुदगलोपचयादुपचीयते, ताश्च पर्याप्तय आहारशरीरेन्द्रियानापानभाषामनोविशेषणाः षट्र । तत्राहारपर्याप्तिः-यया शक्त्या करणभूतया जन्तुराहा६ रमादाय खलरसरूपतया परिणमयति १, शरीरपर्याप्तिः-यया रसीभूतमाहारमौदारिकवैक्रियाहारकशरीरत्रययोग्य-४
पुद्गलरूपं रसासृग्मांसमेदोऽस्थिमज्जाशुक्ररूपसप्तधातुतया यथासम्भवं परिणमयति २, इन्द्रियपर्याप्तिः-यया धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुओं पञ्चानां वा इन्द्रियाणां योग्यान् पुदलानादाय खस्खेन्द्रियरूपतया परिणमय्य च खं खं विपयं परिज्ञातुं प्रभुर्भवति ३, प्राणापानपर्याप्तिः-यया उच्छासनिःश्वासयोग्यं दलिकमादाय तथा परिणमय्यालम्ब्य च निःस्रष्टुं समर्थो भवति ४, भाषापर्याप्तिः-यया भाषायोग्यं दलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति ५, मनःपर्याप्तिस्तु-यया मनोवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मननसमर्थों भवति ६, एताश्च पर्याप्तयः सर्वा अप्युत्पत्तिप्रथमसमये एव यथाखं युगपजन्तुना निष्पादयितुमार-4 भ्यन्ते, क्रमाच निष्ठामुपयान्ति, यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिरित्यादि। आहारपर्याप्तिश्च प्रथमसमये
॥११९॥
lain Education International
For Privale & Personal use only
www.jainelibrary.org