Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणी
वृत्तिः
ROCHOTELECO
॥११६॥
उज्जुगइ पढमसमए, परभविअं आउअं तहाऽऽहारो।
वक्काएँ बीअसमए, परभविआउं उदयमेइ ॥ २६० ॥ व्याख्या-ऋजुगतौ प्रथमसमये एव पारभविकमायुरुदयमागच्छति, प्रथमसमय एव च परभवाहारः, तथाहिनिश्चयनयेन परभवप्रथमसमय एव पूर्वशरीरशाटो, यस्मिन्नेव समये सर्वात्मना पूर्वशरीरत्यागस्तस्मिन्नेव गतिः, एवं च तस्मिन्नेवाद्यसमये परभवायुरुदयः, ऋजुगत्या चाद्यसमये एव जन्तुरुत्पत्तिदेशमासादयति, तद्गतांश्च खशरीरयोग्यान पुद्गलानादत्ते, ततः सिद्धः प्रथमसमये एव परभवाहारोऽपि, यद्यपि च वक्रगतावपि निश्चयनयादुक्तनीत्या प्रथम-3 समये एव परभवायुरुदयः, तमन्तरेण सर्वात्मना पूर्वशरीरत्यागासम्भवतो गतेरभावात् , तथापि केचित्परिस्थूलव्यवहारनयाश्रिता वक्रगतौ द्वितीयसमये परभवायुरुदेतीतिप्रतिपन्नास्ततस्तन्मतेनाह-वक्काए' इत्यादि, वक्रायां गतौ द्वितीयसमये पारभविकमायुरुदयमेति, अयमभिप्रायः-किल प्राग्भवान्त्यसमये एव वक्रा गतिः प्रतिपत्तुमारब्धा, तत्परिणामाभिमुखत्वात् , ततः सोऽपि समयो वक्रगतिसम्बधी द्रष्टव्यः, द्वितीये च समये परभवायुरुदय इति । सिद्धं वक्रगतौ प्रागभवान्त्यसमयापेक्षया द्वितीयसमये परभवायुरुदेतीति । अस्यां च वक्रगतौ स्थितो जन्तुरेकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा वरुत्पत्तिदेशमासादयति, तत्रैकवक्रायां गतौ समयद्वयेऽपि नियमादाहारकः, तथाहि-आ
A
॥११
६॥
Re-
Jain Education
a
l
For Privale & Personal use only
Colliw.jainelibrary.org

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292