SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ संग्रहणी वृत्तिः ROCHOTELECO ॥११६॥ उज्जुगइ पढमसमए, परभविअं आउअं तहाऽऽहारो। वक्काएँ बीअसमए, परभविआउं उदयमेइ ॥ २६० ॥ व्याख्या-ऋजुगतौ प्रथमसमये एव पारभविकमायुरुदयमागच्छति, प्रथमसमय एव च परभवाहारः, तथाहिनिश्चयनयेन परभवप्रथमसमय एव पूर्वशरीरशाटो, यस्मिन्नेव समये सर्वात्मना पूर्वशरीरत्यागस्तस्मिन्नेव गतिः, एवं च तस्मिन्नेवाद्यसमये परभवायुरुदयः, ऋजुगत्या चाद्यसमये एव जन्तुरुत्पत्तिदेशमासादयति, तद्गतांश्च खशरीरयोग्यान पुद्गलानादत्ते, ततः सिद्धः प्रथमसमये एव परभवाहारोऽपि, यद्यपि च वक्रगतावपि निश्चयनयादुक्तनीत्या प्रथम-3 समये एव परभवायुरुदयः, तमन्तरेण सर्वात्मना पूर्वशरीरत्यागासम्भवतो गतेरभावात् , तथापि केचित्परिस्थूलव्यवहारनयाश्रिता वक्रगतौ द्वितीयसमये परभवायुरुदेतीतिप्रतिपन्नास्ततस्तन्मतेनाह-वक्काए' इत्यादि, वक्रायां गतौ द्वितीयसमये पारभविकमायुरुदयमेति, अयमभिप्रायः-किल प्राग्भवान्त्यसमये एव वक्रा गतिः प्रतिपत्तुमारब्धा, तत्परिणामाभिमुखत्वात् , ततः सोऽपि समयो वक्रगतिसम्बधी द्रष्टव्यः, द्वितीये च समये परभवायुरुदय इति । सिद्धं वक्रगतौ प्रागभवान्त्यसमयापेक्षया द्वितीयसमये परभवायुरुदेतीति । अस्यां च वक्रगतौ स्थितो जन्तुरेकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा वरुत्पत्तिदेशमासादयति, तत्रैकवक्रायां गतौ समयद्वयेऽपि नियमादाहारकः, तथाहि-आ A ॥११ ६॥ Re- Jain Education a l For Privale & Personal use only Colliw.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy