________________
RAMREKAR
त्रिभागस्य त्रिभागे इत्यर्थः, सप्तविंशतितमभागे वा नवमभागस्यापि त्रिभागरूपे, तथा च प्रज्ञापना-"सिअत्तिभागे| सिअत्तिभागत्तिभागे सिअत्तिभागत्तिभागत्तिभागे” इति । तत्रापि बन्धाच्युता नियमादन्तिमेऽन्तर्मुहुर्ते वन्नन्ति, केचित्सप्तविंशतितमभागादूर्ध्वमपि त्रिभागकल्पनां तावद्वर्णयन्ति यावदन्त्योऽन्तर्मुहूर्त इति ॥ २५८ ॥ उक्तो बन्धकालोऽवाधकालान्तसमयावाह
जइमे भागे बंधो, आउस्स भवे अबाहकालो सो।
अंते उजुगइ इगसमय, वक चउपंचसमयंता ॥ २५९ ॥ व्याख्या-यस्य जन्तोर्यावति षण्मासादौ त्रिभागादौ वा आयुषो भागे शेषे परभवायुषो बन्धः स तस्य तावान् बन्धोदययोरपान्तरालकालोऽनुदयावस्थारूपोऽवाधाकालो भवेत् । तथाऽन्तसमयः-आयुषो निष्ठासमयो यदनन्तरं परभवायुरुदयमायाति; तस्मिंश्च सति परभवं गच्छतां जन्तूनां गतिर्द्विधा-ऋज्वी वक्रा च, तत्र ऋज्वी एकसमया,
समश्रेणिव्यवस्थितत्वेनोत्पत्तिदेशस्याद्यसमये एव प्राप्तः, वक्रा तु बाहुल्येनोत्कर्पतश्चतुःसमयान्ता, क्वचित् कदाचित्प४ञ्चसमयान्ताऽपि, एतच्चानन्तरमेव भावयिष्यते ॥ २५९ ॥ अथास्मिन्नेव गतिद्वये निश्चयव्यवहारनयाभ्यां परभवा
युरुदयं परभवाहारं च चिन्तयन्नाह
Jain Education into
For Privale & Personal use only
M
w.jainelibrary.org