Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 250
________________ संग्रहणी- द्विवक्रायां तृतीये, त्रिवक्रायां चतुर्थे, चतुर्वक्रायां पञ्चमे समये परभवाहारः । तत्रैकवक्रायामुक्तनीत्या समयद्वये- वृत्तिः प्याहारः, द्विवक्रादिषु तु वक्रगतिषु क्रमादेको द्वौ त्रयश्च समया अनाहारा, न विद्यते आहार एविति, यद्वा एक ॥११७॥ द्वौ त्रीन् समयान् जीवा अनाहाराः, एतद्गाथार्थश्च प्रागेव भावितः। तदेवं चिन्तितौ निश्चयत ऋजुगत्यां व्यवहार-2 तस्तु वक्रगत्यां परभवायुराहारी, यदि पुनर्वक्रगतावपि निश्चयतस्तौ चिन्येते तदाऽस्यामप्याद्यसमये एव परभवायुरु४दयस्तथाहि-यद्यपि प्राग्भवान्त्यसमये वक्रगतिप्रतिपत्तेरभिमुखो जन्तुस्तथापि प्राग्भवसम्बन्धिनोः संघातपरिशा टयोस्तत्र भावात् प्राग्भवसम्बन्ध्येवासी समयः, तदनन्तरसमये तु प्राग्भवसम्बन्धिनः शरीरस्य सर्वथा शाटः, तथा चागमः-"परभवपढमे साडो'त्ति, ततश्चास्मिन्नेवानन्तरसमये परभवायुरुदेतीति सिद्धः ऋजुगतिवद्वक्रगतावप्याद्यसमये एव परभवायुरुदयः, आहारस्त्वेकवक्रायां गतौ द्वितीये समये, तस्मिन्नेवोत्पत्तिदेशावाप्तः,प्रथमसमयस्त्वनाहारः, तत्र सर्वात्मना पूर्वशरीरस्य त्यागादुत्पत्तिदेशस्य चाप्राप्तेः, एवं द्विवक्रायां तृतीये, त्रिवक्रायां चतुर्थे, चतुर्वक्रायां च पञ्चमे समये आहारः, ततः स्थितमिदम्-उत्कर्पण व्यवहारतस्त्रयो निश्चयतस्तु चत्वारः समया अनाहारा इति । प्रभूतं चात्र वाच्यं, तच मन्दमतिव्यामोहभयानाभिधीयते ॥२६१ ॥ अथ गाथाद्वयेनापवर्तनमाह ॥११७॥ बहुकालवेअणिजं, कम्मं अप्पेण जमिह कालेण । lain Education Interational For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292