________________
संग्रहणी- द्विवक्रायां तृतीये, त्रिवक्रायां चतुर्थे, चतुर्वक्रायां पञ्चमे समये परभवाहारः । तत्रैकवक्रायामुक्तनीत्या समयद्वये- वृत्तिः
प्याहारः, द्विवक्रादिषु तु वक्रगतिषु क्रमादेको द्वौ त्रयश्च समया अनाहारा, न विद्यते आहार एविति, यद्वा एक ॥११७॥
द्वौ त्रीन् समयान् जीवा अनाहाराः, एतद्गाथार्थश्च प्रागेव भावितः। तदेवं चिन्तितौ निश्चयत ऋजुगत्यां व्यवहार-2
तस्तु वक्रगत्यां परभवायुराहारी, यदि पुनर्वक्रगतावपि निश्चयतस्तौ चिन्येते तदाऽस्यामप्याद्यसमये एव परभवायुरु४दयस्तथाहि-यद्यपि प्राग्भवान्त्यसमये वक्रगतिप्रतिपत्तेरभिमुखो जन्तुस्तथापि प्राग्भवसम्बन्धिनोः संघातपरिशा
टयोस्तत्र भावात् प्राग्भवसम्बन्ध्येवासी समयः, तदनन्तरसमये तु प्राग्भवसम्बन्धिनः शरीरस्य सर्वथा शाटः, तथा चागमः-"परभवपढमे साडो'त्ति, ततश्चास्मिन्नेवानन्तरसमये परभवायुरुदेतीति सिद्धः ऋजुगतिवद्वक्रगतावप्याद्यसमये एव परभवायुरुदयः, आहारस्त्वेकवक्रायां गतौ द्वितीये समये, तस्मिन्नेवोत्पत्तिदेशावाप्तः,प्रथमसमयस्त्वनाहारः, तत्र सर्वात्मना पूर्वशरीरस्य त्यागादुत्पत्तिदेशस्य चाप्राप्तेः, एवं द्विवक्रायां तृतीये, त्रिवक्रायां चतुर्थे, चतुर्वक्रायां च पञ्चमे समये आहारः, ततः स्थितमिदम्-उत्कर्पण व्यवहारतस्त्रयो निश्चयतस्तु चत्वारः समया अनाहारा इति । प्रभूतं चात्र वाच्यं, तच मन्दमतिव्यामोहभयानाभिधीयते ॥२६१ ॥ अथ गाथाद्वयेनापवर्तनमाह
॥११७॥
बहुकालवेअणिजं, कम्मं अप्पेण जमिह कालेण ।
lain Education Interational
For Private Personal Use Only
www.jainelibrary.org