Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 239
________________ Jain Education गुणं बोद्धव्यं, एकस्मिन् प्रमाणाङ्गुले उत्सेधाङ्गुलानां चत्वारि शतानि भवन्तीत्यर्थः । इयमत्र भावना - उत्सेधाङ्गुलात्प्रमाणाङ्गुलं दैर्ध्यतश्चतुःशतगुणं विष्कम्भतस्त्वर्द्धतृतीयगुणं, तथाहि सर्वेऽपि तीर्थकुचक्रवर्त्तिवासुदेववलदेवा आत्माझुलेन विंशत्युत्तरं शतं यत् पुनरनुयोगद्वारसूत्रं, 'होंति पुण अहिअपुरिसा, अट्ठसयं अंगुलाण उविद्धा' तच्छेषप्रधानपुरुषापेक्षं, भरतचक्रवर्त्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च विंशं शतमङ्गुलानां तदात्माङ्गुलस्य प्रमाणाङ्गुलस्य च तुल्यत्वात् उत्सेधाङ्गुलेन तु पञ्चधनुःशतानि, प्रतिधनुश्च पण्णवत्यङ्गुलभावादष्टाचत्वारिंशदङ्गुलसहस्राः ४८०००, तेषां विंशत्यधिकशतेन भागे हृते आगतमेकस्मिन् प्रमाणाङ्गुले उत्सेधाङ्गुलानां चत्वारि शतानि ४००, ततः सिद्धं दैर्येण | प्रमाणाङ्गुलं उत्सेधाङ्गुलाचतुः शतगुणमेवेति । यदा तूत्सेधाङ्गुलविष्कम्भादर्द्धतृतीयगुणेन निजविष्कम्भेण प्रमाणाङ्गुलगतं शतचतुष्टयदैर्ध्य गुण्यते, तदैकालविष्कम्भं सहस्राङ्गुदैर्ध्य प्रमाणाङ्गुलं जायते । इदमुक्तं भवति - अर्द्धतृतीयाङ्गु| लविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, प्रथमा एकाङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भतस्त्वर्द्धाङ्गुलं, ततोऽस्या अपि देयच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः सम्पाद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासा| मुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुल सहस्रदीर्घमुच्यते, वस्तुतस्तु चतुःशतगुणदीर्घमेव, अत एव पृथ्वीपर्वत| विमानादीन्यनेनैवार्द्धतृतीयाङ्गुलविष्कम्भेण चतुःशतदैर्येण प्रमाणाङ्गुलेन मीयन्ते, नत्वेकाङ्गुलविष्कम्भेण सहस्रगुण For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292