________________
Jain Education
गुणं बोद्धव्यं, एकस्मिन् प्रमाणाङ्गुले उत्सेधाङ्गुलानां चत्वारि शतानि भवन्तीत्यर्थः । इयमत्र भावना - उत्सेधाङ्गुलात्प्रमाणाङ्गुलं दैर्ध्यतश्चतुःशतगुणं विष्कम्भतस्त्वर्द्धतृतीयगुणं, तथाहि सर्वेऽपि तीर्थकुचक्रवर्त्तिवासुदेववलदेवा आत्माझुलेन विंशत्युत्तरं शतं यत् पुनरनुयोगद्वारसूत्रं, 'होंति पुण अहिअपुरिसा, अट्ठसयं अंगुलाण उविद्धा' तच्छेषप्रधानपुरुषापेक्षं, भरतचक्रवर्त्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च विंशं शतमङ्गुलानां तदात्माङ्गुलस्य प्रमाणाङ्गुलस्य च तुल्यत्वात् उत्सेधाङ्गुलेन तु पञ्चधनुःशतानि, प्रतिधनुश्च पण्णवत्यङ्गुलभावादष्टाचत्वारिंशदङ्गुलसहस्राः ४८०००, तेषां विंशत्यधिकशतेन भागे हृते आगतमेकस्मिन् प्रमाणाङ्गुले उत्सेधाङ्गुलानां चत्वारि शतानि ४००, ततः सिद्धं दैर्येण | प्रमाणाङ्गुलं उत्सेधाङ्गुलाचतुः शतगुणमेवेति । यदा तूत्सेधाङ्गुलविष्कम्भादर्द्धतृतीयगुणेन निजविष्कम्भेण प्रमाणाङ्गुलगतं शतचतुष्टयदैर्ध्य गुण्यते, तदैकालविष्कम्भं सहस्राङ्गुदैर्ध्य प्रमाणाङ्गुलं जायते । इदमुक्तं भवति - अर्द्धतृतीयाङ्गु| लविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, प्रथमा एकाङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भतस्त्वर्द्धाङ्गुलं, ततोऽस्या अपि देयच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः सम्पाद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासा| मुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुल सहस्रदीर्घमुच्यते, वस्तुतस्तु चतुःशतगुणदीर्घमेव, अत एव पृथ्वीपर्वत| विमानादीन्यनेनैवार्द्धतृतीयाङ्गुलविष्कम्भेण चतुःशतदैर्येण प्रमाणाङ्गुलेन मीयन्ते, नत्वेकाङ्गुलविष्कम्भेण सहस्रगुण
For Private & Personal Use Only
ww.jainelibrary.org