________________
CCCCC
संग्रहणीदिदैयेणेति । तथा उत्सेधाङ्गुलं द्विगुणं वीरस्य भगवतः-अपश्चिमतीर्थकृत एकमात्माङ्गुलं भणितं, वर्द्धमानखामी हि
भगवानादेशान्तरादात्माङ्गुलेन चतुरशीतिरमुलानि, उत्सेधाङ्गुलतस्तु सप्तहस्तमानत्वादष्टपष्टयधिकं शतं । तथा चानु॥११२॥|योगद्वारचूर्णिः-"वीरो आएसंतरओ, आयंगुलेण चुलसीइ अंगुलमुधिद्धो, उस्सेहंगुलओ सयमसह हवई" इति।
ततो द्वे उत्सेधाङ्गुले वीरस्यैकमात्मामुलं भवति, येषां तु भगवानात्माङ्गुलेन विंशत्यधिकमङ्गुलशतं खहस्तेन पञ्चहस्तदत्वात् , तेषां मते भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं,द्वितीयस्य च द्वौ पञ्चभागौर। अष्टपष्टशतस्य विंशत्यधि-*
कशतेन भागहारे छेद्यच्छेदकराश्योश्चतुर्विंशत्याऽपवर्तने च इयतो लाभात् , त्रैराशिकाद्वा, तथाहि यदि विंशत्युत्तरशतेन अष्टषष्ट्यधिकमुत्सेधाङ्गुलशतं लब्धं, तत एकेनात्माङ्गुलेन किं लभ्यते ? राशित्रयस्थापना ।१२।१६८।१। अचान्त्येनैककेन गुणितो मध्यराशिस्तावानेव, तत आयेन राशिना विंशत्युत्तरशतेन भागे लब्धमेकमङ्गुल, स्थिता अष्टाचत्वारिंशत् , ततश्छेद्यच्छेदकराश्योश्चतुविशत्याऽपवर्त्तने लब्धौ द्वौ पञ्चभागौ । यन्मते तु भगवानष्टोत्तरशताङ्गुलः, खहस्तेन सार्द्धहस्तचतुष्टयत्वात् , तन्मते भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं पञ्च च नवभागाः१५ । भागहारस्त्रैराशिकं वा प्राग्वत् द्वादशभिस्त्वपवर्तना। तदेवमाद्यमतमपेक्ष्य उत्सेधाङ्गुलाद् भगवदात्माङ्गुलं द्विगुणमित्युक्तं, प्रभूतमत्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयात् ॥ २४८॥ अथ जीवानां योनिसंख्यां गाथाद्वयेनाह
MAXXXSEX
॥११२॥
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org
C