Book Title: Samyaktva Pariksha Updesh Shatakau Author(s): Vibudhvimalsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ सम्य क्वप० पुनः । समाचारीस्थितः साधुर्जीवश्च प्राणधारकः॥५॥ मुक्तो मुक्तौ गतो रागद्वेषौ त्यक्त्वैव केवली। एतेषु खलु पञ्चस्वधर्मसंज्ञा विधीयते ॥ ६॥ मिथ्याशास्त्रादिमिथ्यात्वहिंसादौ धर्मतः पुनः । मिथ्यात्वं दशधा प्रोक्तं, स्थानाङ्गे हि सविस्तरम् ॥ ७ ॥ इति मिथ्यात्वभेदाख्योऽधिकारः प्रथमो गतः। विबुधाचार्यवर्योक्तः, सिद्धान्ताक्षरसंमतः॥ ८॥ इति मिथ्यात्वरूपः प्रथमोऽधिकारः ॥ ॥द्वितीयोऽधिकारः॥अथ सम्यक्त्वभेदाख्योऽधिकारो हि द्वितीयकाप्रारभ्यते समासेन, दर्शनशुद्धिकारकः॥९॥ तदितरत्तु सम्यक्त्वमुपशमादिकं पुनः । क्षयोपशमवैचित्र्याबहुविध जिनागमे ॥ १०॥ एतादृशं तु सम्यक्त्वं, धार्य निर्मलबुद्धिभिः । शमसंवेगनिर्वेदानुकम्पास्थासुलाक्षितम् ॥ ११ ॥ नयप्रमाणसापेक्षं, स्याहादादिसुनिश्चितम् । शङ्काकाङ्क्षाचिकित्सान्यशंसासंस्तववर्जितम् ॥ १२ ॥ आत्मा नित्यो हि कर्ता च, भोक्ता स्वकृतकर्मणाम् । मुक्तिस्तत्साधनं चैव, स्थानानि षट् मतान्यपि ॥ १३ ॥ इति सम्यक्त्वरूपोऽयमधिकारः समाप्तिताम् । अगमत्तु द्वितीयोऽथ, मिथ्यामतिविभेदकः ॥१४॥इति सम्यक्त्वभेदाख्यो द्वितीयोऽधिकारः॥ sain Eduenton For Private & Personal use only Marw.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40