Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ सम्य क्त्व प० पुनः । प्रायश्चित्तं प्रतिक्रान्तिः, साधूनां दूषणं न तत् ॥ ९१॥ अत्रानुमोदनादीर्णा, निन्दनालोचना न वा । पूजायां कीदृशो धर्मः, श्राद्धानां समुदीरितः ? ॥ ९२ ॥ अनभिज्ञने केनेति, प्रोक्तं तस्योत्तरं शृणु । सुप्रत्या ख्यातमाख्यातं, साधूनां सर्वतो व्रतम् ॥ ९३॥ यावतां प्राणिनां लोके, सत्त्वादीनां वधे कृतम् । प्रत्याख्या Sनं तु निर्ग्रन्थैस्त्रिधा त्रिधैव दृश्यते ॥ ९४ ॥ प्रत्याख्यानं हि कृत्वैव, वस्तुनो यस्य सर्वथा । तस्यैवाचरणं कर्तुं, सङ्कोचः प्रतिपाद्यते ॥ ९५ ॥ वनस्पत्यादिजातिं चेत् , सुप्रत्याख्याय सर्वथा । एकाम्रफलभुक्तौ तत् , सङ्कोचस्तस्य कथ्यताम् ॥ ९६ ॥ व्रतभङ्गोऽस्ति चेत्तस्य, साधूनां स कथं न हि ! । विहारादौ च सत्वादेः, साक्षाद्वधो विलोक्यते ॥ ९७ ॥ एवं सति न सङ्कोचोऽनुदीर्णतापि नो भवेत् । न चेर्यापथिकीमात्रात् , पापं नश्यति घातजम् ॥ ९८ ॥ आम्रादिदशजातीनां, वनस्पतिस्वरूपतः । श्रादेन केनचिल्लब्धं, प्रत्याख्यानं विवेकतः ॥९९॥ भुङ्ग्यात्पश्चैव तन्मध्यात् , पञ्चानामभयं यदा। तदा वनस्पतीनां च, सङ्कोचः सुखमुच्यते ॥१०॥ श्राद्धानां जिनपूजायां, हिंसासङ्कोच ईरितः । उत्तमजातिपुष्पेभ्योऽन्येषां किल निवारणम् ॥ १ ॥ in Education a l For Private & Personal use only 4 .jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40