Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्य
क्त्व
प०
१६
तावजिनेन्द्रपूजां च, कुर्याद्गृही सुभक्तितः ॥ ५५ ॥ पूजायामर्हतां नैव, हिंसाऽग्नितापवन्मता । परीक्षेति
तृतीया हि, समाप्ता बहुयुक्तिभिः ॥ ५६ ॥ इति चतुर्थाधिकारे तृतीया परीक्षा समाप्ता ॥ व परीक्षा क्रियते तुर्या, घनकुट्टनवद्वरा। श्रुतेऽहत्पतिमाऽऽराध्या, प्रोक्ता सङ्घस्य भक्तितः॥५७॥ स्तवस्तुति पदे| नैवाहतः सद्गुणवर्णना। कर्तव्या भव्यजीवौघैरुत्तराध्ययनादितः॥५८॥श्रमणोपासकानां ये, मनोरथास्त्रयःशुभाः। तन्महानिर्जरं प्रोक्तं, महापर्यवसानकम् ॥ ५९ ॥ कदा परिग्रहत्यागं, स्वल्पबहुधनव्ययात् । करिष्याम्यह-18 मेवाद्यो, मनोरथः शुभावहः ॥ ६० ॥ चारित्रं च ग्रहीष्यामि, मनोरथो द्वितीयकः । संलेखनां करिष्यामि, तृतीयो हि मनोरथः ॥ ६१ ॥ आश्वासाः किल चत्वारो, गृहिणां समुदीरिताः । तेषां हि प्रथमाश्वासे, द्रव्यस्तव उदाहृतः ॥ ६२ ॥ इति स्थानाङ्गसूत्रोक्तेावनीयं स्वचेतसि । सम्यग्दृग्भिः सदा कार्य, गृहस्थोचितमेव हि ॥ ६३ ॥ ये सम्यग्दृष्टयो जीवा, यावन्तो भुवनत्रये । तेषां चैत्यानि पूज्यानि, सूत्रौपपातिकादितः ॥ ६४ ॥ एवं बहुषु सूत्रेषु, नियुक्त्यादिषु भाषितः। द्रव्यस्तवाधिकारो हि, गृहस्थानां सुखोचितः॥
JainEducation int
For Private & Personal use only
S
wjainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40