SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सम्य क्त्व प० १६ तावजिनेन्द्रपूजां च, कुर्याद्गृही सुभक्तितः ॥ ५५ ॥ पूजायामर्हतां नैव, हिंसाऽग्नितापवन्मता । परीक्षेति तृतीया हि, समाप्ता बहुयुक्तिभिः ॥ ५६ ॥ इति चतुर्थाधिकारे तृतीया परीक्षा समाप्ता ॥ व परीक्षा क्रियते तुर्या, घनकुट्टनवद्वरा। श्रुतेऽहत्पतिमाऽऽराध्या, प्रोक्ता सङ्घस्य भक्तितः॥५७॥ स्तवस्तुति पदे| नैवाहतः सद्गुणवर्णना। कर्तव्या भव्यजीवौघैरुत्तराध्ययनादितः॥५८॥श्रमणोपासकानां ये, मनोरथास्त्रयःशुभाः। तन्महानिर्जरं प्रोक्तं, महापर्यवसानकम् ॥ ५९ ॥ कदा परिग्रहत्यागं, स्वल्पबहुधनव्ययात् । करिष्याम्यह-18 मेवाद्यो, मनोरथः शुभावहः ॥ ६० ॥ चारित्रं च ग्रहीष्यामि, मनोरथो द्वितीयकः । संलेखनां करिष्यामि, तृतीयो हि मनोरथः ॥ ६१ ॥ आश्वासाः किल चत्वारो, गृहिणां समुदीरिताः । तेषां हि प्रथमाश्वासे, द्रव्यस्तव उदाहृतः ॥ ६२ ॥ इति स्थानाङ्गसूत्रोक्तेावनीयं स्वचेतसि । सम्यग्दृग्भिः सदा कार्य, गृहस्थोचितमेव हि ॥ ६३ ॥ ये सम्यग्दृष्टयो जीवा, यावन्तो भुवनत्रये । तेषां चैत्यानि पूज्यानि, सूत्रौपपातिकादितः ॥ ६४ ॥ एवं बहुषु सूत्रेषु, नियुक्त्यादिषु भाषितः। द्रव्यस्तवाधिकारो हि, गृहस्थानां सुखोचितः॥ JainEducation int For Private & Personal use only S wjainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy