________________
सम्य
क्त्वप०
६५ ॥ परीक्षेयं चतुर्थी स्यात् , सिद्धान्ताक्षरसंमता । समाप्ता शमभावेन, चैत्याराधनगर्भिता ॥ ६६ ॥ व्यवहारनयेनैव, सम्यक्त्वं सुविचारितम् । निश्चयनयतो ज्ञेयं, विशेषज्ञानिभिर्दृढम् ॥ ६७ ॥ छद्मस्थैः खलु न ज्ञेयं, दशस्थानं विशेषतः। भव्याभव्यादिकं प्रोक्तं, गणधरैर्जिनागमे ॥ ६८ ॥ चतुर्थीति परीक्षेयं, सिद्धान्ताक्षरसंमता। ताडनवत्समाप्तव, प्रेक्ष्या भव्यैः सुदृष्टितः ।। ६९ ॥ पञ्चाङ्गया अनुसारेण, श्रीगुर्वादिप्रसादतः । गृहस्थानां यथायोग्यं, सम्यक्त्वं सुपरीक्षितम् ॥७॥ इति चतुरधिकारैः सारसम्यक्परीक्षा, प्रवचनवचनोक्त्या जैनयुक्त्या प्रसिद्धा। कुमतिमततमिस्रच्छेदिनी चैत्यवृत्त्यां, विबुधविमलसूरीशोदिता तीर्थभक्त्या ॥७१॥ मालिनी॥ विमलपदभृत्श्रीआनन्दाभिधानमुनीश्वराः, सुविहितवराः सङ्गीतार्थास्तपागणमण्डनम् । कृतनिजहितास्तेषां पट्टप्रभाकरशेखरा, विजयपदयुक्श्रीदानाख्या युगे शुभसूरयः॥७२॥हरिणी॥ तेषां पट्टवियत्तले सविजयाः श्रीहीरसूर्योपमाः, क्षित्यामक्बरसाहिना द्युतिमता विख्यातसत्कीर्तयः । श्रीसेनाहिजयाख्यसूरिसुभगाः पट्टेशहृद्यास्पदं,सूरिश्रीविजयादिदेवमुनयो गच्छे तपानामनि॥७३॥शार्दूलविक्रीडितम्॥ तेषां पट्टे प्रभाख्या विजयपदयुताः
Jain Education
a
l
For Private & Personal use only
BPaw.jainelibrary.org