Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
|| अर्हम् ॥
सवृत्तिका पुलपट्त्रिंशिका |
_ अथ पञ्चम व शतेऽष्टमोदेशके पुद्दलप्रदेशस्वरूपनिरूपणे द्रव्यतः क्षेत्रतः कालतो भावतश्च समदेशाप्रदेशानां पुद्गलानां सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्च वृद्धोक्तो विव्रियते स चायम्
वुच्छं अप्पा बहुअं दव्वा खित्तदभावओ वावि । अपएससप्पएसाण पुग्गलाणं समासेणं ॥ १ ॥ द्रव्यतः समदेशानामपदेशानां च, क्षेत्रतः सप्रदेशानामपदेशानां च ' अद्धा ' इति कालतः सप्रदेशानापप्रदेशानां च, भावतः समदेशानामप्रदेशानां च पुद्गलानामेकाणुकादिद्रव्याणामल्पबहुत्वं संक्षेपेण वक्ष्य इति ॥ १ ॥ अथाप्रदेशस्त्र रूपमाहदव्वेणं परमाणु खित्तेणेगप्पएसमोगाढा । कालेणेगतमइआ अपएसा पुग्गला हुंति ॥ २ ॥
अप्रदेशाः पुद्गला भवन्तीति सर्वत्र योज्यम् । तत्र द्रव्यतः परस्परमंपृक्ताः परमाणवोऽप्रदेशाः पुद्गला भवन्ति १, क्षेत्र एकनभः प्रदेशव्यापिनोऽप्रदेशाः पुद्गला भवन्ति २, कालत एकसमयस्थितयोऽप्रदेशाः पुद्गला भवन्तीति ३ ॥ २ ॥ भावादेशस्वरूपनिरूपणपूर्वकं तदल्पत्वमाह
tional
For Private & Personal Use Only
ww.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40