Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शेषसप्रदेशापेक्षया क्षेत्रतः सप्रदेशाः स्तोकाः, स्तोकत्वे च साध्ये युक्तिः पूर्वविचारितैव । 'दबद्धभावओ अहिया' इति द्रव्यतः कालतो भावतश्च सप्रदेशाः क्रमशो विशेषाधिकाः । अर्थत इति व्याख्यानापेक्षया इत्यं स्वस्थाने सपदेशानां पुद्गलानामल्पबहुत्वमवगन्नमाति ॥ २७ ॥ अल्पबहुत्वसंख्यामाहपढमं अपएसाणं बीयं पुण होइ सप्पएमाणं । तइयं पुण मोसाणं अप्पबह अत्यओ तिन्नि ॥२८॥
प्रथमं द्रव्याद्यपदेशानां चतुण पुद्गलराशीनां परस्परमल्पबहुत्वमुक्तम् । द्वितीयं तेषामेव द्रव्य दितः सपदेशानाम् । तृतीयं KI 'मिश्राणा'मिति सपदेशाप्रदेशानां मिठितानामिति अर्थतो' व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति । सूत्रे त्वेकमेवाल्पबहु
त्वमुक्तमिति ॥ २८ ॥ सप्रदेशानामन्योऽन्यं हासद्धिप्रमाणमाहठाणे ठाणे वडूइ नावाईणं जमप्पएसाणं । तं चिअ भावाईणं परिभस्सइ सप्पएसाणं ॥२९॥
भावादीनामादिशब्दात्कालद्रव्यक्षेत्राणामपदेशानां स्थाने स्थाने यद देते तदेव सप्रदेशानां भावादीनां परिभ्रश्यते । यथा किल कल्पन या लक्षं पुद्गलास्तेषु भावतः कालतो द्रव्यतः क्षेत्रतश्चापदेशाः क्रमणैकद्विपञ्चदशसहस्रसंख्याः, सप्रदेशास्तु नवनवसष्टनवतिपञ्चनवतिनवातसहस्रसंख्या; ततश्च भावापदेशेभ्यः कालापदेशेषु सहस्रं वर्धते, तदेव भावतः समदेशेभ्यः कालतः सपदेशेषु हीयते । तथा यदेव कालापदेशेभ्यो द्रव्यापदेशेषु सहस्रत्रयं वर्धत, तदेव कालसप्रदेशेभ्यो द्रव्यसप्रदेशेषु हीयते । तथा यदव द्रव्यापदेशेभ्यः क्षेत्राप्रदेशेषु सहस्रपञ्चकं वर्धते, तदेव द्रव्यसप्रदेशेभ्यः क्षेत्रसमदेशेषु हीयते इति ॥२९॥
Jain Educatialistianal
For Private & Personal use only
ITSww.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40