Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600135/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ parivarniwwwsunnsynonymshaniliynonymnonymsariwar श्रेष्टि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्क: २८ श्रीविबुधविमलमूरिकृतो श्रीसम्यक्त्वपरीक्षा-उपदेशशतको. ६iyowwwwwwww मुद्रयिता-अस्यैकः कार्यवाहकः, शाह-नगीनभाई घेलाभाई जव्हेरी, ४२६ जव्हेरीबाजार, मुम्बय्याम् . वीरसंवत् २४४३. विक्रमसंवत् १९७३. इखाब्द १९१६. प्रति ५०.. बेतनं २ आणको. मोमय्याम्. -samso-strumessamsssssssssomssssssssssssssames in Education Intern al For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ भनयोः पुनर्मुद्रणायाः सर्वेऽधिकाराः एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । All Rights Reserved by the trustees of the fund. Title and Preface Printed by K, R. Mitra, at the Manoranjan Press, 3 Sandhurst Rd., Girgaon, Bombay. Jain Educat i onal For Private & Personal use only ine brary.org Page #3 -------------------------------------------------------------------------- ________________ श्रीसम्यक्त्वपरीक्षाया उपदेशशतकस्य चोपोद्घातः । श्रीगणधरेन्द्रो विजयतेतराम् । विदिततममेतद् विदुषां विदितवेद्यानां यदुतानेका लघवोऽप्यलघवो ग्रन्थाः सम्पद्यन्ते कुमतपाथोधिमथनमन्थानतया बोधसद्रत्नावाप्तिप्रयोजनाः तद्वदेषोऽप्युपदेशशतकाख्यो ग्रन्थो बोधरत्नग्रन्थिर्विलोकनीयो विलोककानां, ग्रन्थाभिधानहेतुस्तु काव्यानां शतोन्मितत्वं, व्यवहारेणैतदवेक्षणेनाष्टानामाधिक्येऽपिन क्षतिः, तस्योपचारबहुलत्वेन विश्रुतत्वात् विपश्चिद्वन्दे, विधातारश्चास्य श्रीमद्विमलकीर्तिपादपद्मपरागपङ्कजप्रियाः श्रीमन्तो विबुधविमलाभिधानाः मूरिवर्याः, श्रीमत्सु मूरिमन्त्ररत्नसमर्पणरोहणायमानास्तु श्रीसुमतिसागरावयाः मूरिधुर्याः, अन्वयश्चैषां न्यायाचार्यसाहाय्यकसाधितजनपदजनमनसः श्रीमतो ज्ञान-4 विमलमूरेः, विलोक्यं चेद् १०५ पश्चाधिकशततमकाव्यमवेक्षणीयमत्रैव, ज्ञानविमलगुरो ऋद्धिविमलप्रभवस्ततो विमलकीर्तयो , विमलकीर्तयस्तदनु पट्टपूर्वाचलार्यमभासः श्रीमन्तो बभासिरे शासनं, पूज्यपादप्रणीता नोपलब्धिपथमायाता अपरे ग्रन्था इति नवोपलभ्यन्ते श्रीमतां जन्मभूमीजनकजनन्याद्यभिधानानि, ज्ञापयिष्यन्ति बोद्धार उपकृता भविष्यामः । प्रस्तुते च "अनित्याशरणभवैकान्याशुचित्वाश्रवसंवरनिर्जरालोकस्वभावबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः” (तत्त्वा० अ० ९मू०७) "पढममणिच्चमसरणं संसारो एगर्यो य अन्नत्त । असुइत्तं आसव संवरो य तह निज्जरी नवमी ॥ १ ॥ लोगसहावो बोही" book Page>Page #4 -------------------------------------------------------------------------- ________________ उपोद्धात. सम्यक्त्व० दुलहा धम्मस्स साहगा अरिहों" इति नवतत्त्वप्रकरणगं चावलम्ब्य वैराग्यभावना विस्तृताः, भावनाप्राबल्यं चावश्यमेव उपदेश आसन्नसिद्धिताकरं कर्मकचवरविशोधनपटिष्टं चेति नागमविदां नूत्नं निवेदनीयं, आहुः कलिकालसर्वज्ञपादा अपि स्वोपत्रे योगशास्त्रे-"मोक्षः कर्मक्षयादेव, स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच्च" "विना समत्वमारब्धे, ध्याने स्वात्मा विडम्ब्यते " "साम्यं स्यानिर्ममत्वेन, तत्कृते भावनाः श्रयेत्" तथा च निर्ममत्वसाम्यध्यानात्मज्ञानमोक्षाभिलाषिणामनुष्टेयतमा| एव भावना इति विषय उपयुक्ततर एव, किश्च यत्पश्चिमोत्र भागो भूपितो दशभिः क्षमादिभियतिधमः तत् सुगन्धिसुवर्णबवदाशंसनीयमेव विज्ञानां, यतो 'बन्धहेत्वभावनिर्जराभ्याम् ' (तत्त्वा० अ० १० मू० २) इति सूत्रसतत्त्वावधृतधारणानां मोक्षसाधनयोः संवरनिर्जरयोरत्र सद्भाव इति संपूर्णापवर्गमार्गानुकूल्यमेतदीयवाग्वजविचारणानुष्ठानाभ्यां भवेत्, सम्यक्त्वपरीक्षा तु स्वनाम्नैवावश्यकतां स्वस्याविभीवियन्ती केन नावलोकनीया ? तदुक्त्यनुष्ठितिश्च करणीया न स्यादिति, तथाकरणेन सफलयन्तु च परिश्रमलेशं मुद्रणस्येति प्रार्थयते पुस्तकोद्धारविधिनिरतः श्रीश्रमणसवान्तर्गतान्नराननिशम् आनन्दसागरः । राजनगरात् २४४३ कार्तिककृष्ण षष्ठयां ॥ अ०१० मा Cacopdot-copepwapcwelpepepepar "कन नावलोमागानुकूल्यमेत Jain Educatihkeletional For Private & Personal use only Brainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० १ Jain Education श्रेष्ठ देवचन्द्र लालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्कः श्रीविबुधविमलसूरिकृता ॥ श्रीसम्यक्त्वपरीक्षा ॥ ॥ श्रीसरस्वत्यै नमः श्रीगुरुभ्यो नमः ॥ ॥ प्रथमोऽधिकारः प्रारभ्यते ॥ - प्रणम्य परया भक्तया, श्रीमत्पार्श्वजिनेश्वरम् । नत्वा गुरुक्रमाम्भोजं, सम्यक्त्वादि परीक्ष्यते ॥ १ ॥ यद्यपि बहवो ग्रन्थाः, पूर्वाचार्यैः सुवर्णिताः । तथापि क्रियते ग्रन्थो, बालानां सुखहेतवे ॥ २ ॥ यथाप्रवृत्तिनिष्ठानां, भव्यानां शुक्लपक्षिणाम् । रागद्वेषघनग्रन्थिभेदिनां शुभभावतः ॥ ३ ॥ मिथ्यात्वस्य परित्यागात्, सम्यक्त्वं क्षायिकादिकम्।उत्पद्यते च संसारसमुद्रपारदायकम् ॥ ४॥ युग्मम् | धर्मः श्रुतमयो ज्ञेयो, मार्गो ज्ञानादिकः . ww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ सम्य क्वप० पुनः । समाचारीस्थितः साधुर्जीवश्च प्राणधारकः॥५॥ मुक्तो मुक्तौ गतो रागद्वेषौ त्यक्त्वैव केवली। एतेषु खलु पञ्चस्वधर्मसंज्ञा विधीयते ॥ ६॥ मिथ्याशास्त्रादिमिथ्यात्वहिंसादौ धर्मतः पुनः । मिथ्यात्वं दशधा प्रोक्तं, स्थानाङ्गे हि सविस्तरम् ॥ ७ ॥ इति मिथ्यात्वभेदाख्योऽधिकारः प्रथमो गतः। विबुधाचार्यवर्योक्तः, सिद्धान्ताक्षरसंमतः॥ ८॥ इति मिथ्यात्वरूपः प्रथमोऽधिकारः ॥ ॥द्वितीयोऽधिकारः॥अथ सम्यक्त्वभेदाख्योऽधिकारो हि द्वितीयकाप्रारभ्यते समासेन, दर्शनशुद्धिकारकः॥९॥ तदितरत्तु सम्यक्त्वमुपशमादिकं पुनः । क्षयोपशमवैचित्र्याबहुविध जिनागमे ॥ १०॥ एतादृशं तु सम्यक्त्वं, धार्य निर्मलबुद्धिभिः । शमसंवेगनिर्वेदानुकम्पास्थासुलाक्षितम् ॥ ११ ॥ नयप्रमाणसापेक्षं, स्याहादादिसुनिश्चितम् । शङ्काकाङ्क्षाचिकित्सान्यशंसासंस्तववर्जितम् ॥ १२ ॥ आत्मा नित्यो हि कर्ता च, भोक्ता स्वकृतकर्मणाम् । मुक्तिस्तत्साधनं चैव, स्थानानि षट् मतान्यपि ॥ १३ ॥ इति सम्यक्त्वरूपोऽयमधिकारः समाप्तिताम् । अगमत्तु द्वितीयोऽथ, मिथ्यामतिविभेदकः ॥१४॥इति सम्यक्त्वभेदाख्यो द्वितीयोऽधिकारः॥ sain Eduenton For Private & Personal use only Marw.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० ३ Jain Education ॥तृतीयोऽधिकारः॥ अथ नयप्रमाणाख्यः, प्रारभ्यते तृतयिकः सत्सम्यक्त्वपरीक्षायां, भव्यजीवोपकारकः ॥ १५॥ नैगमसंग्रहौ ज्ञेयौ, व्यवहारर्जुसूत्रकौ । शब्दसमभिरूढैवंभूताः सप्त नयाः स्मृताः॥ १६ ॥ प्रत्यक्षं च पराक्षं च, प्रमाणं द्विविधं भवेत् । सांव्यवहारिकं चाद्यं, स्यादसांव्यवहारिकम् ॥ १७ ॥ इन्द्रियजं मतं पूर्वमिन्द्रियातीतजं परम् । मितिः श्रुतं परोक्षं च, प्रत्यक्षं देश सर्वतः ॥ १८ ॥ अवधिज्ञानसंयुक्तं, मनःपर्यायमेव च । देशप्रत्यक्षमाख्येयं केवलं सर्वतो मतम् ॥ १९ ॥ पदार्थोऽनन्तधर्मात्मा, युगपन्नैव भाष्यते । स्यादित्यपेक्षया धर्मः, स्याद्वादः स उदाहृतः ॥ २० ॥ यः पुरुषःपिता सूनुः पुनः स एव कथ्यते । भागिनेयो भवेद्यस्तु, मातुलोऽपि स एव हि ॥ २१ ॥ एकान्तेन प्रभुः कोऽपि, कश्चिद्धर्मं न भाषितुम् । अपेक्षाकथनात्प्राज्ञैः, स्याद्वादस्तु समर्थितः॥२२॥ स्याद्वादो यत्र तत्र स्यात्, सम्यक्त्वं प्रातेपादितम् । एकान्तेनैव मिध्यात्त्वं, प्रोक्तं सूत्रकृदागमे ॥ २३ ॥ | जैन चैत्यानि निर्ग्रन्थाः, सामायिकागमादयः । एषु निःशङ्किताचारा, अष्टौ सम्यक्त्वसाधनम्॥२४॥निःशङ्कितं भवेदाद्यो, निष्काङ्क्षितं द्वितीयकः । दर्शनस्य किलाचारस्तृतीयो निश्चिकित्सितम् ॥ २५॥ चतुर्थोऽमूढदृष्टित्वं, गुणिप्रशंसनं वरम्।यत्स्थिरीकरणं षष्ठो, वात्सल्यं भक्ति Page #8 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० ४ Jain Education रूपता ॥ २६ ॥ सप्तमस्त्वयमाचारोऽष्टमः प्रभावनामयः । आचाराः कथिता अष्टौ, सम्यक्त्वस्यैव निर्मलाः ॥२७॥ श्राद्धानां जिनपूजायां, सामायिके च पौषधे । योजनया यथायोगमाचाराः सकला अपि ॥ २८ ॥ श्राद्धानां प्रथमं पूजा, द्रव्यभावस्तवात्मिका । परिग्रहार्तिरौद्राधिबाह्याभ्यन्तररोगहृत्॥२९॥भेषजमिव संदिष्टा, विधिवत्परमेश्वरैः। | प्राक् पौषधोपवासादेराभरणोपमात्पुनः॥३०॥ सत्सम्यक्त्वपरीक्षायाः,श्रीविबुधविमलसूरिकृता (कुप्ता) याः समाप्ति| मगमत्तृतीयोऽयमधिकारो मिध्यात्वभित् ॥ ३१ ॥ इति नयप्रमाणाख्यः तृतीयोऽधिकारः ॥ ॥चतुर्थोऽधिकारः॥ नत्वा चैत्यानि जैनानि, स्मृत्वा गुरुक्रमाम्बुजम् सम्यक्त्वसाधनं मुख्यमर्हच्चैत्यार्चनं त्रिधा। ३२ ॥ चतुर्थोऽथाधिकारोऽयं सम्यक्त्वस्थैर्यकारणम् । प्रारभ्यते प्रमोदेन, भव्यानां सुखहेतवे ॥३३॥ हुण्डावसर्पिणीकाल, आगतो भस्मयोगतः । भस्मग्रहविकारेणोत्थितं शासनपीडनम् ॥ ३४ ॥ परमिन्द्रादिभावेन, प्रभुविचः प्रभावतः । अभूत्तत्कारिणां पीडा, तद् दुःखं कृपया महत् ॥ ३५ ॥ युग्मम् ॥ जैनानां जैनचैत्यानि, परं सम्यक्त्वसाधनम् | जैनाभासमत भ्रान्तैर्निषिध्यन्ते कुयुक्तिभिः ||३६|| ढुण्ढका ग्रथिलप्राया, लुङ्का व्युद् Page #9 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० ग्राहिता जडाः । उन्मत्तवद् ब्रुवन्त्येवाहच्चैत्या निषेधनम् ॥ ३७॥ उत्सूत्राण्यष्टपञ्चाशत्सङ्ख्यानि भाषितानि | तैः । ढुण्डकैर्घथिलत्वेन, स्वीयसंसारवृद्धितः ॥ ३८ ॥ कलङ्काभावसंयुक्ते, शासने चैत्यशोभिते । दुष्टः कलाङ्कते यस्मिन्, ग्राह्यं परीक्ष्य तद् बुधैः ॥ ३९॥ स्वर्णोपमं हि सम्यक्त्वं, वह्नितुल्याः कुयुक्तयः। ग्राहकैस्तत्र भव्यौधैः, परीक्ष्यतेऽग्नितापने ॥ ४० ॥ त्यक्तस्त्री प्रतिमा जैनी, चापादिशस्त्रवर्जिता । दृष्टा भव्यजनैर्भक्त्या, संसारभयभेदिनी ॥४१॥ परीक्षा प्रथमेत्येषा, निर्विकारितया मता । मूर्तिर्दृष्टाऽर्हतां भव्यैरमृतानन्ददायिनी ॥ ४२ ॥ इति कषपट्टीसदृशा प्रथमपरीक्षा समाप्ता ॥ श्रीअर्हत्प्रतिमाराध्या, गणभृत्प्रतिपादिता । अनुयोगादिसिद्धान्ते, निक्षेपस्याधिकारतः ॥ ४३ ॥ नाम च स्थापना द्रव्यं, भावश्चेत्यनुयोगके । प्रोक्तं निक्षेपचातुष्कं, स्थानाङ्गे तस्य सत्यता ॥४४॥ श्रीवीतरागबिम्बे स्याच्चैत्यशब्दः प्रवर्तते। संज्ञानार्थश्चितीधातुर्घञ्प्रत्ययान्तसं-15 मतः ॥ ४५ ॥ काष्ठपाषाणरूपेषु, यदाकृतिविलोकतः । संज्ञानं स्मरणं तेषामुद्बोधकात्प्रजायते ॥४६॥ चिञ् । चयने (इ)तिधातोस्तु, चैत्यशब्दः प्रदर्यते। अर्हद्यक्षादिगेहेषु, पीठबढे तरावपि ॥४७॥ नैकार्थनाममालायां, Jain Education inevaal For Private & Personal use only TENw.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० त्रयोऽर्थाः प्रतिपादिताः। ज्ञानार्थश्चैत्यशब्दश्च, वनवाची तिरस्कृतः ॥ ४८ ॥ स्थानाङ्गे दशधा सत्यं, जनपदादिवाक्यतः । संमतं सत्यभेदेन, चैत्यस्यास्त्रियः स्मृताः । ४९ ॥ व्युत्पत्त्या न हि सर्वेऽपि, शब्दाः सर्वत्र सङ्गताः । गोशब्दो यदि गत्यर्थः, कीटिकादौ न किं मतः! ॥ ५० ॥ कदाग्रहवशेनैव, मूर्खण केनचि-2 न्मुधा । व्याकरणादिसूत्रेण, ज्ञानार्थको हि साधितः ॥ ५१ ॥ कुत्रचिन्नाममालायां, ज्ञानार्थको न भाषितः। ज्ञेयोऽर्हत्प्रतिमावाची, चैत्यशब्दो बहुस्थले ॥ ५२ ॥ आनन्दकामदेवादिश्राद्धसम्यक्त्वसूत्रके । तीर्थकृत्प्रतिमावाची, चैत्यशब्दस्तु निश्चितः ॥ ५३ ॥ सूर्याभादिकदेवानां, सम्यग्दृशां सुसूरिभिः । आगमेषूदितं चैत्यार्चनं हितादिकारणम् ॥ ५४ ॥ परीक्षा छेदतुल्येति, द्वितीया चैत्यहेमसु । सिद्धान्ताक्षरटकैस्तु, सुधीभिर्विहिता भृशम् ॥ ५५ ॥ इति द्वितीया परीक्षा समाप्ता ॥ परीक्षैव तृतीयाऽथ, प्रारभ्यतेऽग्नितापवत् । श्रमणो, पासकानां नो, हिंसा द्रव्यस्तवेऽर्हताम् ॥ ५६ ॥ श्रमणोपासकानां हि, द्रव्यस्तवस्तु मुख्यतः । महानिशीथसूत्रोक्तो, भावस्तवोऽपि संमतः ॥ ५७ ॥ रुद्रध्यानप्रमादेन, कृष्णलेश्यादियोगतः । प्राणानां व्यपरोपत्वं, For Private & Personal use only Page #11 -------------------------------------------------------------------------- ________________ क्त्वप० हिंसा पञ्चेन्द्रियस्य हि ॥ ५८ ॥ प्राणिनां द्वीन्द्रियादीनां, महारम्भः प्रभाषितः । आरम्भो भूतसत्त्वानां, व्य-16 सम्यवहाराद्विवक्षितः ॥ ५९ ॥ शास्त्रे हिंसा विधोक्तानुबन्धहेतुस्वरूपतः । जिनाज्ञाभङ्गमिथ्यात्वाहिंसा स्यात्सानु-15 बन्धिका ॥ ६० ॥ अयतनाप्रवृत्तेश्च, हेतुहिंसा प्रकीर्तिता । यतनां कुर्वतां पुंसां, हिंसा स्वरूपतो मता ॥६१॥ MS हिंसैव सर्वतो दुष्टा, यद्यपि प्रतिपादिता । यदुत्सर्गापवादाभ्यां, वर्जनीया तथापि च ॥ ६२ ॥ कष्टसाध्यः । IS खलूत्सर्गः, सुखसाध्यापवादता । सिद्धान्तवृत्तिकायां च, तयोर्लक्षणमीरितम् ॥ ६३ ॥ ज्ञानदर्शनचारित्रा-1|| येव मोक्षस्य मार्गता। जघन्यमध्यमोत्कृष्टादाराध्या पञ्चमाङ्गके ॥ ६४ ॥ उत्कृष्टाराधनोत्सर्गाजघन्या चापवा-1 दतः । मध्योत्सर्गापवादाभ्यां, भगवत्यङ्गनिश्चिता ॥ ६५ ॥ ज्ञानादीनां तु मार्गाणामेकैकाराधना विधा । जघन्यमध्यमोत्कृष्टा, सङ्ख्यासङ्ख्यातभेदिका ॥ ६६ ॥ जघन्याराधनाया हि, स्थानान्यप्रमितानि च । एवं ज्ञेयानि सर्वत्र, मध्यमोत्कृष्टयोरपि ॥ ६७ सम्यग्दृष्टिगुणस्थाने, देशव्रतगुणे तथा । ज्ञानाद्याराधना प्रोक्ता, जघन्यादिकभेदतः ॥ ६८ ॥ चतुर्थे तु गुणस्थाने, व्रताभावो विशेषतः । सम्यक्त्वव्रतिभक्त्यैव, ज्ञानाद्यारा Jain Education in b al For Private & Personal use only M w.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० ८ Jain Education धना मता ॥ ६९ ॥ दीक्षासाहाय्यदानेन, चारित्रादिमहोत्सवात् । चैत्यप्रासादभक्तेश्व, ज्ञानाद्याराधना भवेत् ॥ ७० ॥ एवं देशगुणस्थाने, प्रत्याख्यानाद्विशेषतः । चारित्राराधना प्रोक्ता, भक्तादौ यतना बहुः ॥ ७१ ॥ त्यागोऽनुबन्धहिंसाया, भक्तादिके च दृश्यते । हेतुस्वरूपतो हिंसा, ततोऽत्यन्तलघीयसी ॥ ७२ ॥ प्रोक्तानुबन्धहिंसाया, हेतुहिंसा लघीयसी । तस्याः स्वरूपहिंसापि, लघीयसीतरा तथा ॥ ७३ ॥ उपदेशो न हिंसाया, द्रव्यस्तवेऽर्हतां पुनः । श्राद्धानामनुबन्धाच्च, हिंसात्यागस्तु पूजने ॥ ७४ ॥ परिग्रहमहारम्भत्यागो द्रव्यस्तवे भवेत् । श्रमणोपासकानां च, जिनप्रासादसर्जने ॥ ७५ ॥ यत्साधर्मिकवात्सल्यं, तीर्थयात्राव्रतोत्सवः । उद्यापनादिकं ज्ञेयं, सर्वं युवं जिनागमे ॥ ७६ ॥ कृष्णश्रेणिकमुख्यानां ज्ञान्यादिबहुभक्तितः । ज्ञानाद्याराधना जाता, ज्ञातादिसूत्रतः श्रुता ॥ ७७ ॥ अर्थात्कामाच्च धर्माच्च, ये नन्ति मन्दबुद्धिकाः । प्रश्नव्याकरणे यत्स्यात्, तत्तु मिध्यात्वसङ्गमात् ॥ ७८ ॥ अन्यथा किमु साधूनां वैयावृत्त्यादि कल्पते । प्रतिक्रमणमत्र | स्याच्चेन्मिथ्यात्वं कथं गतम् ? ॥ ७९ ॥ यत्र चेत्प्राणिनां घातस्तत्र मिथ्यात्वमुच्यते । भोश्चित्ते तु wjainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ क्त्व प. तथैवं (तवैवं) स्यात्, सम्यक्त्वं कस्य कथ्यते ? ॥ ८० ॥ धर्मार्थं प्राणिनां घातो, मिथ्यात्वं तत्र मन्यते । सम्य-विहारादौ मुनीनां चेन्मिथ्यात्वं किं न कथ्यते ? ॥ ८१ ॥ चेत्प्रतिक्रान्तितो नैव, मिथ्यात्वं प्रतिपाद्यते । प्रायश्चित्तं श्रुते प्रोक्तं, दशधालोचनादिकम् ॥ ८२ ॥ मिथ्यात्वप्रतिपत्तौ च, महाव्रतविघातने । यदीर्यायाः प्रतिक्रान्तौ, शुद्धिर्भवति निर्मला ॥ ८३ ॥ चेत्पुनश्चरणारोपो, वृथा सूत्रे निरूपितः । विहारादौ न मिथ्यात्वं, मूलच्छेदोऽपि तन्न हि ॥ ८४॥ गृहादिप्रतिबन्धस्य, निषेधार्थं तपस्विनाम् । विहारस्तीर्थकृत्ख्यातो, यतनया नदीजले ॥ ८५ ॥ धनादिप्रतिबन्धस्य, निवारणाय गेहिनाम् । जिनपूजा जिनाख्याता, यतनया जिनागमे ॥ ८६ ॥ मुनीनां तु यथेर्यायाः, प्रतिक्रान्तिर्विहारके । तथैव जिनपूजायां, प्रतिक्रान्तिः कथं न चेत् ॥ ८७ ॥ ईर्यादिव्यवहारोऽपि, सामायिकादिके पुनः । जिनाभिगमसेवादौ, न श्रुतेर्यागतिः कदा ॥ ८८ ॥ अविध्याशातनायाश्च, मिथ्यैवास्तु पुनः पुनः । इति सर्वत्र वक्तव्यं, पूजायां भविकैर्जनैः॥ ८९ ॥ वादीति वचनं श्रुत्वा, पुनर्वृते प्रभाषया । विहारस्य च पूजाया, महदन्तरमुच्यते ॥ ९० ॥ विहारादौ तु संकोचोऽनुदीर्णालोचना JainEducation For Private & Personal use only PAw.sanelibrary.org Page #14 -------------------------------------------------------------------------- ________________ सम्य क्त्व प० पुनः । प्रायश्चित्तं प्रतिक्रान्तिः, साधूनां दूषणं न तत् ॥ ९१॥ अत्रानुमोदनादीर्णा, निन्दनालोचना न वा । पूजायां कीदृशो धर्मः, श्राद्धानां समुदीरितः ? ॥ ९२ ॥ अनभिज्ञने केनेति, प्रोक्तं तस्योत्तरं शृणु । सुप्रत्या ख्यातमाख्यातं, साधूनां सर्वतो व्रतम् ॥ ९३॥ यावतां प्राणिनां लोके, सत्त्वादीनां वधे कृतम् । प्रत्याख्या Sनं तु निर्ग्रन्थैस्त्रिधा त्रिधैव दृश्यते ॥ ९४ ॥ प्रत्याख्यानं हि कृत्वैव, वस्तुनो यस्य सर्वथा । तस्यैवाचरणं कर्तुं, सङ्कोचः प्रतिपाद्यते ॥ ९५ ॥ वनस्पत्यादिजातिं चेत् , सुप्रत्याख्याय सर्वथा । एकाम्रफलभुक्तौ तत् , सङ्कोचस्तस्य कथ्यताम् ॥ ९६ ॥ व्रतभङ्गोऽस्ति चेत्तस्य, साधूनां स कथं न हि ! । विहारादौ च सत्वादेः, साक्षाद्वधो विलोक्यते ॥ ९७ ॥ एवं सति न सङ्कोचोऽनुदीर्णतापि नो भवेत् । न चेर्यापथिकीमात्रात् , पापं नश्यति घातजम् ॥ ९८ ॥ आम्रादिदशजातीनां, वनस्पतिस्वरूपतः । श्रादेन केनचिल्लब्धं, प्रत्याख्यानं विवेकतः ॥९९॥ भुङ्ग्यात्पश्चैव तन्मध्यात् , पञ्चानामभयं यदा। तदा वनस्पतीनां च, सङ्कोचः सुखमुच्यते ॥१०॥ श्राद्धानां जिनपूजायां, हिंसासङ्कोच ईरितः । उत्तमजातिपुष्पेभ्योऽन्येषां किल निवारणम् ॥ १ ॥ in Education a l For Private & Personal use only 4 .jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ सम्य- क्त्व प० स्यादनुबन्धहिंसायास्त्यागोऽत्र सर्वथा पुनः । अविधेर्हेतुहिंसव, हिंसा स्वरूपतो विधेः ॥ २ ॥ उपयुक्तानगारस्य, पादे प्रमादयोगतः । यथोक्ता भगवत्यङ्गे, पक्षिपोतविराधना ॥ ३ ॥ तत्रेर्यापथिकी प्रोक्ता, क्रिया केवलिनां पुनः । स्यात्साम्परायिकी तत्र, गुणस्थानानुरोधतः ॥ ४ ॥ पूजायां स्थावराणां हि जन्तूनां च विराधना । शुभभावनया भक्त्या, स्वल्पो बन्धः प्रजायते ॥५॥ भूयसी निर्जरा ज्ञेया, श्राद्धानां मुनिदानत । यथाधाकर्मिकाहाराधिकारे पञ्चमाङ्गतः ॥ ६ ॥ वादे पराजयाहादी, ब्रूते गौतमवद्यथा । रो वतिनां युक्तः, सिद्धान्तवचनात्पुनः ॥ ७ ॥ एवं चेतर्हि सिद्धान्त, श्रावकाणां निरूपितम् । पूजैवोपासकादौ तत्कारणं निवृतेस्तथा ॥ ८॥ पूजायाः सिद्धिलाभश्चेच्चारित्रं तर्हि निष्फलम् । वना कश्चित् , प्राप्नुयान्नगरं तु यः ॥ ९॥ वक्रेण नैव मार्गेण, गच्छति स कदाचन । एवं चेत्पूजया सिद्धिश्चारित्रं निष्प्रयोजनम् ॥ १०॥ लोचादिकष्टसाध्यं स्याच्चारित्रं निष्परिग्रहम् । गृह्णाति न कदा कश्चित्, पूजा तु सुखसाधनम् ॥ ११ ॥ वादिवच इति श्रुत्वा, सिद्धान्तिकः प्रभाषते । अहो बुद्धिस्त्वदी Jain Education a l For Private & Personal use only T w .jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ यात्र, चातुरिका च वर्ण्यते ॥ १२ ॥ स्थानाङ्गे द्विविधो धर्मोऽगारानगारभेदतः । अगारो द्विविधः प्रोक्तः, सम्य- सम्यक्त्वदेशभेदतः ॥ १३ ॥ यद्यनगारधर्मस्तु, स्यात् संपूर्णदयामयः । मोक्षाङ्गं तर्हि सर्वोऽपि, श्राद्धधर्मो निरर्थकः ॥ १४ ॥ साधुभ्यः शुद्धदानेन, स्यान्महानिर्जरा यदि । भगवतीवचः श्रुत्वा, कश्चिद् ब्रूयाद् व्रतेन किम् ?॥ १५ ॥ एवं सिद्धान्तसामर्थ्याहादी निरुत्तरीकृतः । पुनव्रते प्रवादेन, सेयं सन्मुखभाषया ॥ १६ ॥ १२ । एकैव भो दया यत्र, धर्मस्तत्रैव भाषितः । श्रावकस्यापि साधोश्चान्यत्तु सर्वं निरर्थकम् ॥ १७ ॥ पापस्था-15 नानि सन्त्येवाष्टादश दुःखदान्यपि । तेषां न भावतो धर्मो, जिनेश्वरैः प्रभाषितः ॥ १८ ॥ पापस्थानानि वर्तन्ते, सप्तदश पराण्यपि । तेषामभावतो धर्मः, किं न स्यात्त्वन्मते वद ॥ १९ ॥ परमस्तु दयाधम एक एव भवन्मते । मृषावादाद्यभावो हि, धर्मो नास्ति कदाचन ॥ २० ॥ त्वदीयं कीदृशं ज्ञानमेषा का च विचारणा । त्वन्मते तु निगोदेषु, धर्मोऽस्तु नान्यजन्तुषु ॥ २१ ॥ संसारवासिजीवानां, प्रवृत्तिर्यत्र दृश्यते । षट्कायहिंसनं तत्र, साधूनां गृहमेधिनाम् ॥ २२॥ वैयावृत्त्यादिके साधोनाभिगमनादिके । प्रवृत्तिः श्राद्ध in Education in e a For Private & Personal use only Now.sainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० १३ Jain Education In लोकस्य, हिंसा विना व दृश्यते ? ॥ २३ ॥ अशक्यपरिहारादौ हिंसा नैव प्रभाष्यते । साधूनां श्रावकाणां च, वैयावृत्यादिसेवने ॥ २४ ॥ यतनां कुर्वतः साधोः, प्राणिनां च बधे सति । हिंसा संभाव्यते नैव, प्रायश्चित्तं पुनः पुनः ॥ २५ ॥ सुपरिहरणीयैव, हिंसाऽस्ति जिनपूजने । सचित्तानां च पुष्पाणां, जलदीपा - दिवस्तुनाम् ॥ २६ ॥ यत्र हिंसा न धर्मः स्याद्यदुक्तं च त्वया पुरा । स्वमुखेनैव हिंसायां सत्यां धर्मो निरूपितः ॥ २७ ॥ आत्मार्थी त्वं च चेद्भद्र !, स्वीयं वचो विचारय । यत्र हिंसा न धर्मः स्यादिति सम्यक् स्वचेतसा ॥ २८ ॥ हिंसा स्यात्ते परप्राणपरित्यागात्मिका मते । अशक्यपरिहारत्वं, तत्र नोक्तं त्वया पुरा ।। | २९ ॥ यत्र हिंसा न धर्मः स्यादशक्यपरिहारतः । पूर्वापरविरोधेन, तत्र वाक्यं प्रवर्तितम् ॥ ३० ॥ वर| मस्तु मतेऽस्माकमिष्टापत्तिस्तु जायते । एवं जानीहि पूजायामशक्यपरिहारताम् ॥ ३१ ॥ मोहनीयं द्विधा कर्म, व्रतसम्यक्त्वघातकम् । चारित्रावरणं कर्म, हिंसायाः कारणं मतम् ॥ ३२ ॥ दर्शनमोहनीयस्याभावात्सम्यक्त्वमुद्गतम् । ततो भक्तिर्जिनेन्द्रस्य, ततः पुष्पादिपूजनम् ॥ ३३ ॥ चारित्रावरणात्कर्मरूपादारम्भ ************G w.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० १४ Jain Education Inte उच्यते । अविरत्युदयाद्भक्तिः, सावद्यैव स्वरूपतः ॥ ३४ ॥ धर्मद्वयं च पुष्पादौ, सचित्तेऽसारतावधः । अशक्यपरिहारोऽस्ति, भक्तौ सारतया पुनः || ३५ ॥ हिंसार्थं न च पुष्पाणामानयनं जिनार्चने । पुष्पेषु सारता दृष्टा, सुपुष्पैर्जिनपूजनम् || ३६ || पुष्पादिभ्यः सचित्तेभ्यः, पदार्था बहवो वराः । पूजा तैरेव कर्तव्या, किं सचित्तेन वस्तुना ? || ३७ || अविरत्युद्यात्पुष्पादिकं ग्राह्यं सुभक्तितः । अन्यत्र तस्य पुष्पादे, रक्षान्नास्ति कश्चन ॥ ३८ ॥ पुष्पाणां यावतां लोके, स्याद्विषयानुबन्धतः । हिंसा संसारिणां भक्त्याऽर्हतां पुष्पार्चने न सा ॥ ३९ ॥ नवकोट्या न तत्त्यागः, श्राद्धानां देशतो व्रतम् । पूजायां नवकोट्यास्तद्धिसात्यागो जिनार्चने ॥ ४ ॥ मणिरत्नमयी भूमिः स्वर्गेऽस्ति स्वर्गिणां कथम् । स्वर्णादौ तत्र सारत्वं, पुष्पेभ्यो हि प्रदर्श्यते ॥ ४१ ॥ पुष्पेषु शुभगन्धत्वं, सुस्पर्शत्वं सुकोमलम् । उज्ज्वलत्वं विशेषेण, चेत्यादि बहवो गुणाः ॥ ४२ ॥ तान् गुणान् प्रविलोक्यैव, पुष्पेषु श्रावका जनाः । पूजयन्ति जिनान् भक्त्या, पुष्पैरेव विशेषतः ॥ ४३ ॥ एवं सारपदार्था ये, संसारे हि जलादयः । भक्तिस्तैरेव कर्तव्या, तीर्थकृतां च मुक्तये ॥ ४४ ॥ न च तज्जीव ainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० हिंसाथ, पुष्पादिभिर्जिनार्चनम् । पुष्पादिजीवहिंसायामशक्यपपरिहारता ॥ ४५ ॥ पूर्वोक्तगुणयुक्तान्यचित्तवस्तूनि सन्ति चेत् । तानि त्यक्त्वा सचित्तानि, गृहीत्वा तांश्च पूजयेत् ॥४६ ॥ मिथ्याशल्यं भवेदेकमकतो हि पराण्यपि । पापस्थानानि तोल्यन्ते, मिथ्यात्वमधिकं ततः ॥ ४७ ॥ हिंसाद्यष्टादशे स्थाने, मिथ्यात्वमधिकं मतम्। मिथ्यात्वापगमाहिंसा, शीघ्रं नश्यति दूरतः ॥ ४८ ॥ सम्यक्त्वशुहिमादध्याजिनपूजैव भक्तितः। चारित्रं प्राप्नुयात्प्राणी, शीघ्रं दर्शनशुद्धितः ॥ ४९ ॥ अत एव सुराः सर्वे, सचित्तैः कुसुमैवरैः । योजनं मण्डलं चक्रुर्भक्त्या सम्यक्त्वशोधनात् ॥ ५० ॥ नौभङ्गाद्युपसर्गात्तु, सम्यक्त्वं नैव खण्डितम् । श्रमणोपासकाग्र्येण, श्रुतं ज्ञातादिसूत्रतः ॥ ५१ ॥ अतः पारगपूजायां, हिंसैव नास्ति काचन । विहारादौ च साधूनां, नद्युत्तरणवद्यथा ॥ ५२ ॥ एवं चेत्तर्हि साधूनां, पूजा योग्या विहासरवत् ? । इति वादिवचः श्रुत्वा, सिद्धान्तिकः प्रभाषते ॥ ५३ ॥ विमुक्तद्रव्यरोगाणां, निम्रन्थानां न चोचिता । पूजौषधसमा ज्ञेया, नीरोगिणामिवोदिता ॥ ५४॥ यावद्दीक्षा न चायाति, मूर्छात्यागस्तु नो भवेत् । Jain Education a l For Private Personal use only daw.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ सम्य क्त्व प० १६ तावजिनेन्द्रपूजां च, कुर्याद्गृही सुभक्तितः ॥ ५५ ॥ पूजायामर्हतां नैव, हिंसाऽग्नितापवन्मता । परीक्षेति तृतीया हि, समाप्ता बहुयुक्तिभिः ॥ ५६ ॥ इति चतुर्थाधिकारे तृतीया परीक्षा समाप्ता ॥ व परीक्षा क्रियते तुर्या, घनकुट्टनवद्वरा। श्रुतेऽहत्पतिमाऽऽराध्या, प्रोक्ता सङ्घस्य भक्तितः॥५७॥ स्तवस्तुति पदे| नैवाहतः सद्गुणवर्णना। कर्तव्या भव्यजीवौघैरुत्तराध्ययनादितः॥५८॥श्रमणोपासकानां ये, मनोरथास्त्रयःशुभाः। तन्महानिर्जरं प्रोक्तं, महापर्यवसानकम् ॥ ५९ ॥ कदा परिग्रहत्यागं, स्वल्पबहुधनव्ययात् । करिष्याम्यह-18 मेवाद्यो, मनोरथः शुभावहः ॥ ६० ॥ चारित्रं च ग्रहीष्यामि, मनोरथो द्वितीयकः । संलेखनां करिष्यामि, तृतीयो हि मनोरथः ॥ ६१ ॥ आश्वासाः किल चत्वारो, गृहिणां समुदीरिताः । तेषां हि प्रथमाश्वासे, द्रव्यस्तव उदाहृतः ॥ ६२ ॥ इति स्थानाङ्गसूत्रोक्तेावनीयं स्वचेतसि । सम्यग्दृग्भिः सदा कार्य, गृहस्थोचितमेव हि ॥ ६३ ॥ ये सम्यग्दृष्टयो जीवा, यावन्तो भुवनत्रये । तेषां चैत्यानि पूज्यानि, सूत्रौपपातिकादितः ॥ ६४ ॥ एवं बहुषु सूत्रेषु, नियुक्त्यादिषु भाषितः। द्रव्यस्तवाधिकारो हि, गृहस्थानां सुखोचितः॥ JainEducation int For Private & Personal use only S wjainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ सम्य क्त्वप० ६५ ॥ परीक्षेयं चतुर्थी स्यात् , सिद्धान्ताक्षरसंमता । समाप्ता शमभावेन, चैत्याराधनगर्भिता ॥ ६६ ॥ व्यवहारनयेनैव, सम्यक्त्वं सुविचारितम् । निश्चयनयतो ज्ञेयं, विशेषज्ञानिभिर्दृढम् ॥ ६७ ॥ छद्मस्थैः खलु न ज्ञेयं, दशस्थानं विशेषतः। भव्याभव्यादिकं प्रोक्तं, गणधरैर्जिनागमे ॥ ६८ ॥ चतुर्थीति परीक्षेयं, सिद्धान्ताक्षरसंमता। ताडनवत्समाप्तव, प्रेक्ष्या भव्यैः सुदृष्टितः ।। ६९ ॥ पञ्चाङ्गया अनुसारेण, श्रीगुर्वादिप्रसादतः । गृहस्थानां यथायोग्यं, सम्यक्त्वं सुपरीक्षितम् ॥७॥ इति चतुरधिकारैः सारसम्यक्परीक्षा, प्रवचनवचनोक्त्या जैनयुक्त्या प्रसिद्धा। कुमतिमततमिस्रच्छेदिनी चैत्यवृत्त्यां, विबुधविमलसूरीशोदिता तीर्थभक्त्या ॥७१॥ मालिनी॥ विमलपदभृत्श्रीआनन्दाभिधानमुनीश्वराः, सुविहितवराः सङ्गीतार्थास्तपागणमण्डनम् । कृतनिजहितास्तेषां पट्टप्रभाकरशेखरा, विजयपदयुक्श्रीदानाख्या युगे शुभसूरयः॥७२॥हरिणी॥ तेषां पट्टवियत्तले सविजयाः श्रीहीरसूर्योपमाः, क्षित्यामक्बरसाहिना द्युतिमता विख्यातसत्कीर्तयः । श्रीसेनाहिजयाख्यसूरिसुभगाः पट्टेशहृद्यास्पदं,सूरिश्रीविजयादिदेवमुनयो गच्छे तपानामनि॥७३॥शार्दूलविक्रीडितम्॥ तेषां पट्टे प्रभाख्या विजयपदयुताः Jain Education a l For Private & Personal use only BPaw.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ सम्य arego सूरिमुख्या बभूवुस्तत्पट्टे ज्ञानसूरिप्रवरसविमला साधुसंविग्नसंज्ञाः । श्रीसौभाग्याभिधाना जलधिपदयुजः सूरिसंपत्प्रयुक्तास्तेषां पट्टे तपस्वी सुमतिजलनिधिः सूरिसंज्ञान्वितोऽभूत्।।७४||स्रग्धरा॥धत्ते न्याययशा यशोविजयतां श्रीवाचको नामनि, साहाय्या धऋद्धिनामविमलः संवेगमार्गस्थितः।तच्छिष्यो गुरुकीर्तिकीर्तिविमलो बुद्दो गुरुस्तच्छिशुः,सुरिःश्रीविबुधाभिधानविमलो ग्रन्थं व्यधत्तामुकम्।७५॥शार्दूल||नोरङ्गंबादपुर्यां प्रथितजिनगृहश्राद्धवर्गान्वितायामाचार्यो यौवराय॑ सविमलमहिमा सूरिनाम्ना प्रसिद्धः।नीत्याद्यैः सारशिष्यैः शुभपरिकरितो ग्रन्थरूपं त्वकार्षीगव्यानां धर्महेतोः स विबुधविमलः शुद्धसम्यक्परीक्षाम् ॥ ७६ ॥ स्रग्धरा ॥ यत्राराध्या जैन्यः, प्रतिमाः सम्यग्दृष्टिभिः श्राद्धैः । ग्रन्थो विबुधविमलगाणिकृतः स सम्यक्परीक्षेति ॥७७॥ शाके नन्धवार्धिरसचन्द्रमिते संवत्सरे (१६७८) ज्येष्ठमासि । वह्निविधुपर्वतचन्द्रमिते विक्रमसंवत्सरे (१८१३) शुभे ॥ ७ ॥ शुक्लपक्षे त्रयोदश्यां, समाप्तोऽयं हि ग्रन्थकः ॥ भानुविमलसाध्वर्थ, भविनां सुखकारकः ॥ ७८ ॥ यत्किञ्चित्सिद्धान्ताहिरुद्धं लिखितमनुपयोगेन । तच्छोध्यं विहद्भिर्मिथ्या तहष्कृतं मेऽस्तु ॥ ७९ ॥ ग्रन्थः सिद्धान्तयुक्तार्थो, वादि Jain Education indandal For Private & Personal use only Masw.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ वादसमन्वितः। चिरं जीयजगत्यां हि, यावच्चन्द्रदिवाकारौ॥ ८॥ इति भट्टारकश्रीविबुधविमलसूरिविरचितः सम्यक्त्वपरीक्षानामा ग्रन्थः समाप्तः॥ सम्य क्त्व प० ब्रह्मवादिनिमुद्राक्षरशालायां मुद्रितम् ॥ मदरास्. Jain Education intre For Private & Personal use only JAw.sainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ Page #25 -------------------------------------------------------------------------- ________________ Jain Educatio || अर्हम् ॥ सवृत्तिका पुलपट्त्रिंशिका | _ अथ पञ्चम व शतेऽष्टमोदेशके पुद्दलप्रदेशस्वरूपनिरूपणे द्रव्यतः क्षेत्रतः कालतो भावतश्च समदेशाप्रदेशानां पुद्गलानां सूत्रोक्ताल्पबहुत्वस्य भावनार्थं गाथाप्रपञ्च वृद्धोक्तो विव्रियते स चायम् वुच्छं अप्पा बहुअं दव्वा खित्तदभावओ वावि । अपएससप्पएसाण पुग्गलाणं समासेणं ॥ १ ॥ द्रव्यतः समदेशानामपदेशानां च, क्षेत्रतः सप्रदेशानामपदेशानां च ' अद्धा ' इति कालतः सप्रदेशानापप्रदेशानां च, भावतः समदेशानामप्रदेशानां च पुद्गलानामेकाणुकादिद्रव्याणामल्पबहुत्वं संक्षेपेण वक्ष्य इति ॥ १ ॥ अथाप्रदेशस्त्र रूपमाहदव्वेणं परमाणु खित्तेणेगप्पएसमोगाढा । कालेणेगतमइआ अपएसा पुग्गला हुंति ॥ २ ॥ अप्रदेशाः पुद्गला भवन्तीति सर्वत्र योज्यम् । तत्र द्रव्यतः परस्परमंपृक्ताः परमाणवोऽप्रदेशाः पुद्गला भवन्ति १, क्षेत्र एकनभः प्रदेशव्यापिनोऽप्रदेशाः पुद्गला भवन्ति २, कालत एकसमयस्थितयोऽप्रदेशाः पुद्गला भवन्तीति ३ ॥ २ ॥ भावादेशस्वरूपनिरूपणपूर्वकं तदल्पत्वमाह tional ww.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ सवृत्तिका ॥ १ ॥ भावे असा एगगुणा जे हवंति वण्णाई । ते चिय प्रोवा जं गुणबाहुल्लं पायसो दवे ॥३॥ भाव एकगुणाः 'वाई' इति वर्णादिभिः पुद्गला अपदेशा भवन्ति ४, अयमर्थः – एकगुणकालकैकगुणपीतकादयो वर्णतः एकगुणसुरभिप्रभृतयो गन्धतः एकगुणतिक्तप्रभृतयो रसतः एकगुणरूक्षैक गुण स्निग्धप्रभृतयः स्पर्शतश्च पुद्गला भावापदेशा भवन्तीत्यर्थः । त एव 'थोवा' इति सर्वस्वोकाः, यतो द्रव्ये प्रायशो गुणाः प्राचुर्येण भवन्ति, अयमर्थ:- द्रव्ये प्रायेण द्रयादिगुणा अनन्तगुणान्ताः कालत्वादयः स्थानबाहुल्यादनन्तगुणा भवन्ति, एकगुणकालकत्वादयस्त्वेकैक स्थानवर्तित्वेनाल्पा इति भावः ॥ ३॥ इतो काला एसे अप्पएसा भवे असंखगुणा । किं कारणं पुरा भवे ?, भण्णइ परिणाम बाहुल्ला ॥ ४ ॥ ' इतो' भावापदेशेभ्यः कालापदेशा असंख्यगुणा भवेयुः कुतो हेतोः ?, उच्यते-- परिणामानां बहुत्वात्, अयमर्थःयो हि यस्मिन्समये यद्वर्णगन्धरसस्पर्शसंघातभेद सूक्ष्मवाद रत्वादिपरिणामान्तरापन्नः स तस्मिन्समये तदपेक्षया कालतोsप्रदेश 'उच्यते । तत्र वर्णाः पञ्च गन्धौ द्वौ रसाः पञ्च स्पर्शा अष्टौ एतेषु च विंशतौ पदेषु प्रतिपदमेकगुणकालकादयोऽनन्तगुणकालक पर्यवसाना एकायेकोत्तरेणानन्ता भेदाः पुद्गलानां प्राप्यन्ते तेषु च सर्वेषु भेदेषु प्रतिवेदं यदेकसपयस्थितिकास्तदा कालतोऽप्रदेशा भवन्ति, तथा विशकलितानां परमाणूनामेकपुलस्कन्धतया परिणमनं संघातः १ समयस्थितिरित्यन्ये इति व्याख्याप्रज्ञप्तिवृत्तौ दशम्येकादश्योगथियोरयमेवाभिप्रायः अत्रापि । 1 पुद्रलषद् 'त्रिंशिका. ॥१॥ ww.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ एकद्रव्यात्परमाणूनां विचटनं भेदः, एकस्मिन्नपि नभःप्रदेशे यादीनां परमाणूनामवस्थानं मूक्ष्मत्वम् , मूक्ष्मपारे णामपरिणतस्थ द्रव्यस्य परमाणुसंख्यानतिक्रमेण [प्रतिसमयं] अनेकनमापदेशव्यापितया भवनं बादरत्वम् । एतेष्वपि | परिणामान्तरेषु यदा यदा तदात्वेन' पुद्गला एकसमयस्थितिकाः प्राप्यन्ते तदा तदा कालतोऽपदेशा उच्यन्ते इति प्रतिप| रिणाम कालाप्रदेशसंभवात्तद्वहुत्वामिति ॥ ४ ॥ एतदेव भाव्यतेभावेण अप्पएसा जे ते कालेण हुँति दुविहाऽवि। दुगुणादओऽवि एवं भावेणं जावऽणंतगुणा ॥५॥ भावतो येऽप्रदेशास्ते कालतो द्विविधा अपि भवन्ति-अप्रदेशा समदेशाश्चेयर्थः। तत्र एकसमयस्थितिका अप्रदेशाः, द्वयादिसमयस्थितयस्त्वेकायकोचरेण यावदसंख्यातसमयस्थितयस्ते सर्वे सपदेशा इसभिमायः । तथा भावेन द्विगुणादयोऽनन्तगुणान्ताः 'एव'मिति द्विविधाः-कालतः सप्रदेशा अपदेशाश्च भवन्तीत्यर्थः॥५॥ ततश्चकालापएसयाणं एवं इक्किकओ हवइ रासी । इक्किक्के गुणठाणंमि एगगुणकालयाईसु ॥६॥ एकगुणकालकद्विगुणकालकादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालामदेशानामेकैको राशिर्भवति, अयमर्थःएकगुणकालकादय एकाद्यकोत्तरया गुणवृद्धयाऽनन्तगुणकालकान्ताः प्रतिगुणस्थानमनन्ताः पुद्गलाः सन्ति, एवमेकगुगनीलकादयोऽपि लभ्यन्त इति, ततश्चानन्तत्वाद्गणस्थानक राशीनामनन्ता एव कालाप्रदेशराशयो भवन्तीति ॥६॥अथ प्रेरकः १ आरम्भकालेन, तत्कालं तु तदात्वं स्यादित्युक्तेः । in Educatio n al For Private & Personal use only 1/ 0 w.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ विशिका. सरत्तिका आहाणंतगुणत्तणमेवं कालापएसयाणंति । जमणंतगुणदाणेसु हुँति रासीऽवि हु अणंता ॥७॥ | पुरलाइ 'एव'मिति यदि प्रतिगुणस्थानकं कालापदेशराशयोऽभिधीयन्ते ततो भावापदेशेभ्यः कालापदेशा अनन्तगुणाः प्राप्नु॥२॥ 15 वन्ति, यतोऽनन्तेष्वेकगुणकालकद्विगुणकालकत्रिगुणकालकादिष्वनन्तगुणकालकपर्यवसानेषु गुणस्थानकेषु राशयोऽप्यनन्ता 121 भवन्ति, अथ चासंख्यातगुणत्वमिष्यत इति ॥ ७ ॥ अत्रोत्तरम्Y भण्णइ एगगुणाणवि अणंतभागंमिजं अणंतगुणा । तेणासंखगुणच्चिय हवंति नाणंतगुणिअनं ॥८॥ ___एकगुणकालकत्वादीनामप्यनन्तगुणकालकत्वादयोऽनन्तभाग एव वर्तन्ते, तेन भावापदेशेभ्यः कालाप्रदेशाः परमाणु| स्कन्धा असंख्यातगुणा एव भवन्ति, न त्वनन्तगुणा इति, अयमभिप्रायः-एकगुणकालकात्मभृति एकाकोत्तरेण गुगदयोत्कृष्टसंख्यातगुणकालं यावत्संख्यातानि गुणस्थानकानि लभ्यन्ते, ततः परमेकेनापि गुणेन वृद्धौ जघन्यासंख्याताणकालकपुद्गलस्कन्धो व्यपदिश्यते, ततः प्रभृयेकायेकोत्तरेण गुणवृद्धयोत्कृष्टासंख्यातगुणकालं यावदसंख्यातानि गुणस्थान| कानि लभ्यन्ते, ततः परमेकेनापि गुणेन वृद्धौ जघन्यानन्तगुणकालकपुद्गलस्कन्धो व्यपदिश्यते, ततः प्रभृखकांद्यको तरण गुणवृद्धयोत्कृष्टानन्तगुणकालं यावदनन्तानि लभ्यन्ते, तथा च सति यद्यप्यनन्तगुणकालकत्वादीनां पुद्गलस्कन्धानामनन्ता राशयोऽभिहिताः तथाप्यनन्तस्यानन्तभेदत्वाद्वक्ष्यमाणैकगणद्रव्यराशि १ संख्यातगुणद्रव्यराशि २ असंख्यातगुणद्रव्यराशि३ अनन्तगुणद्रव्यराशि ४ रूपराशिचतुष्टये एकगुणकालकत्वादिद्रव्यराशेरपेक्षयाऽनन्तगुणकालकत्वादिद्रव्पराशेः समग्र 25ACK Jain Education anal For Private & Personal use only प w .jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ स्याप्यनन्तभागवृद्धत्वेनाभिहितत्वात् तच्चे(दि)ह लम्वनन्तत्वं ज्ञेयं, ततः काला प्रदेशानां नानन्तगुणत्वम्, अपि तु असंख्यातगुणत्वमेवेति ॥८॥ हा एवं तो भावमिणं पडुच्च कालापएसया सिद्धा। परमाणुपोग्गलाइसु दव्वेऽवि हु एस चेव गमो ॥९॥ एवं तावद्भाव-वर्णगन्धादिपरिणामं इमम्-अभिहितस्वरूपमेकाद्यनन्तगुणस्थानवनिमियर्थः, प्रतीख-आश्रिय, कालतोऽपप्रदेशाः पुद्गलाः 'सिद्धाः' स्वरूपनिरूपणेन प्रतिष्ठिताः । 'द्रव्येऽपि' द्रव्यपरिणाममप्याश्रिय परमाण्वादिषु ‘एवं (प) भावपरिणामाभिहित एव प्रकारो' ज्ञेयः । अयमभिप्रायः -ये परमाणवः परस्परमसंपृक्तास्ते द्रव्यतोऽप्रदेशा उच्यन्त हात ॥९॥ अथ क्षेत्राप्रदेशस्वरूपमाह एमेव होइ खिने एगपएसावगाहणाईसु । ठाणंतरसंकंतिं पडुच्च कालेण मग्गणया ॥ १० ॥ | 'एवमेव' द्रव्यपरिणामवद्भवति 'क्षेत्रे' क्षेत्रमधिकृस एकप्रदेशावगाहादिषु पुद्गल पेदेष स्थानान्तरगमनं प्रतीत्य 'कालेन' कालाप्रदेशानां मार्गणा, अयमभिप्रायः-यथा द्रव्यपरिणाममाश्रिय परमाणवो द्रव्यतोऽप्रदेशास्तथेकैकनभःप्रदेशावगाहितायां सखां स्वस्वक्षेत्रममुश्चन्तः क्षेत्रतोऽप्रदेशाः पुद्गला उच्यन्ते, यदा यदा तु स्वस्वक्षेत्रं विमुच्य क्षेत्रान्तरेषु पुद्गलाः संचरन्ति प्रतिस्थानं च समयमेकमवतिष्ठन्ते तदा तदा कालतोऽप्रदेशाः पुद्रला व्यपदिश्यन्ते इति ॥ १० ॥ यथा क्षेत्रत एवम १ कालाप्रदेशरूपः २ ये ये परमाणवः पुद्रलाश्च समयस्थितिकास्ते कालाप्रदेशा इतरे कालसप्रदेशाः ३ क्षेत्रापेक्षया कालाप्रदेशसद्भावमाह JainEducation For Private&Personal use Only rainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ वगाहनादितोऽपीखेतदुच्यतेसवृत्तिका पुद्गलषद् त्रिशिका. संकोअविकोअं पिहु पडुच्च ओगाहणाइ एमेव । तह सुहुमवायरथिरेयरे य सदाइपरिणामं ॥११॥ ___अवगाहनायाः संकोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः, अयमभिपाय:-ये परमाणुसंख्यापेक्षया स्तोकनभ:प्रदेशावगाहिनो भूत्वा समयमेकं स्थित्वा पुद्गलस्कन्धा बहुतरनमःप्रदेशावगाहिनो भवनि समयमेकं चावतिष्ठन्ते, यदा च बहुतरनभःप्रदेशावगाहिनो भूत्वा समयमेकं स्थित्वा पुनरल्पनभःप्रदेशावगाहिनो भवन्ति तदा संकोचे विकोचेऽपि सति पुद्गलस्कन्धाः कालतोऽप्रदेशाः स्युः। तथा सूक्ष्मवादस्थिरास्थिरशब्दमनःकर्मादिपरिणामं च प्रतीत्य कालतोऽपदेशाः स्युः, | अयमभिप्रायः--ये सूक्ष्मवादरादिपरिणाममापन्नाः पुद्गलस्कन्धा यदा समयमेकमवतिष्ठन्ते तदा ते कालतोऽप्रदेशाः हास्युः॥ ११॥ ततश्च-- एवं जो सव्वोऽवि अ परिणामो पुग्गलाण इह समए । तं तं पडुच्च एसिं कालेणं अप्पएसत्तं ॥१२॥ ___ 'एवं' उक्तप्रकारेण यः सर्वोऽपि च 'परिणामः' पर्यायान्तरेण भवनं 'पुलाना' मिति परमाणूनां स्कन्धानां चहेति-1) | जिन (जैने) प्रवचने वर्णितः तं तं परिणाममाश्रित्य 'एसि' इति पुजलानामेकसमयस्थितिकानां कालेनापदेशत्वं ज्ञेयमिति १५ ४॥ १२ ॥ तथा च सति किं सिद्धम् ? इत्यत आह-- MAL ॥३॥ हा कालेण अप्पएसा एवं भावापएसएहितो। हुंति असंखिज्जगणा सिद्धा परिणामबाहुल्ला ॥१३॥ Jain Education insanal For Private & Personal use only dow.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ ये भावतोऽप्रदेशा एकगुणकालकादयः ये च द्विगुणकालकादयोऽनन्तगुणकान्ता यावद्भावतः सप्रदेशास्ते सर्वे | कालत एकसमयस्थितिका अप्रदेशाः । 'एवं' इति अनेन व्याख्यानेन भावापदेशेभ्यः कालापदेशा एकगुणकालकद्विगुणकालकादीनां परिणामानन्सात्पद्गला असंख्यातगुणाः सिद्धा भवन्तीति ॥ १३ ॥ इत्तो दवाएसेण अप्पएसा हवंतऽसंखगुणा। के पुण ते? परमाणू कह ते बहअत्ति तं सुणसु ॥१४॥ 13 'इतः' अनन्तरोक्तेभ्यः कालाप्रदेशेभ्यो द्रव्यतोऽप्रदेशा असंख्यातगुणा भवन्ति । के पुनस्ते ? इसाह-परमाणवः ।। कथं ते बहवः, तदुच्यते ॥१४॥ अणु-संखिजपएसिअ-असंखएतप्पएसिआचेव । चउरो चिअरासी पुग्गलाण लोए अणंताणं॥१॥ परस्परासंबन्धस्वभावानां परमाणूनामेको राशिः १, व्यणुकत्र्यणुकादीनामुत्कृष्टसंख्याताणुकान्तानां स्कन्धानां सर्वेषामपि संख्याताणुकव्यपदेशभाजां द्वितीयो राशिः २, जघन्यासंख्याताणु कादीनामेकायेकोत्तरगुणवृद्धानामुत्कृष्टासंख्याताणुकान्तानां सर्वेषामप्यसंख्याताणुकव्यपदेशभाजां तृतीयो राशिः ३, जघन्यानन्ताणु कादीनाकायेकोत्तरगुणवृद्धानामुत्कृष्टानन्ताणकान्तानां स्कन्धानां सर्वेषामप्य नन्ताणुकव्यपदेशभाजां चतुर्थो राशिः ४ । एत एव च राशयोऽनन्तानां पुद्गलानां 'लोके' चतुर्दशरज्ज्वात्मके भवन्तीति ॥ १५ ॥ तत्थागतेहिंतो सुत्नेऽपंतप्पएसिएहितो। जेण पएसट्राए भणिआ अणवो अणंतगुणा ॥ १६ ॥ १ एवं द्रव्यादिष्वपि २ एकानेकसमयस्थितेरपेक्षया परमाणुस्कन्धयोः सप्रदेशेतरते । DISCGOOGOICGL Jain Educationa tional For Private & Personal use only w.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ सहतिका ॥ ४ ॥ ' तत्थ' इति तेषु चतुर्षु राशिषु यद्यप्यनन्तमदेशिकाः स्कन्धा अनन्ताः सन्ति तथापि तेभ्योऽनन्तप्रदोशेकस्कन्धेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणाः सूत्रे उक्ताः । सूत्रं चेदम् - " सबथोवा अणतपए सिआ खंधा दबट्टयाए, ते चैव पएसयाए अनंतगुणा । परमाणुपुग्गला दबहुपए सहयाए अनंतगुणा । संखिज्जपए सिआ खंधा दबडयाए संखिज्जगुणा, ते चैव एसइयाए संखिज्जगुणा । असंखिज्जपएसिआ खंधा दब आए असंखिज्जगुणा, तं चेत्र पएसल्याए असंखगुणति ॥ १६॥ संखिजयमे भागे संखिजपएसिआण वर्हति । नवरमसंखिज्जपएसिआण भागे असंखयमे ॥ १७॥ संख्याताः प्रदेशाः परमाणवो येषां स्कन्धानां ते तथा तेषां संख्येयतमे भागे वर्त्तन्ते परमाणव इति । असंख्याताः प्रदेशा:- परमाणवो येषां ते तथा तेषां चासंख्येयतमे भागे वर्त्तन्ते परमाणव इति उक्तसूत्रप्रामाण्यात् । अयमाशयः - यथा किल कल्पनया शतस्य संख्येयतमो भागो विंशतिः शतस्यैवासंख्येयतमो दश, शतस्यैवानन्ततमो भागः पञ्च, एवमिहानया दिशाणुकादिस्कन्धेभ्यः प्रभृति संख्याताणुकस्कन्धान् यावद् यः संख्याताणुकस्कन्धरा शिस्तदपेक्षया परमाणवः संख्येयतमे भागे वर्त्तन्ते इति, असंख्याताणुकस्कन्धराश्यपेक्षया त्वसंख्येयभाग इति । परमार्थतस्तु परमाणूनामप्यनन्तत्वं वक्ष्यत इति ॥ १७ ॥ अथ परमाणूनां बहुत्वं कथयन्नाह संइवि असंखिजपएसिआए तेसिं असंखभागते । बाहुल्लं साहिजइ फुडमवसे साहि रासीदिं ॥१८॥ सत्यप्यसंख्यातमदेशिकेभ्यः स्कन्धेभ्यः 'तेसिं' इात परमाणूनामसंख्येयभागले बहुत्वं कथ्यते निश्चित मे (म)वशेष १ कालाप्रदेशापेक्षया Jain Educationational kata पुद्रलषद् त्रिंशिका. ॥ ४ ॥ Page #33 -------------------------------------------------------------------------- ________________ राशिभ्यां-'संख्यातप्रदेशिकानन्तप्रदेशिकाभिधानाभ्यामिति । अयमभिप्राया-संख्यातपदेशिकराशेरपेक्षया मूत्र संख्यातभागत्तित्वं परमाणूनामुक्तं ततोऽवसीयते तेषां बहुत्वम्, अन्यथा संख्यातप्रदेशिकराशेरपेक्षयाऽसंख्येयभागेऽनन्तभागे वा ते परमाणवोऽभविष्यनिति ॥ १८ ।। परमाणूनां स्वरूपतो बहुत्वं प्रसाध्य इदानीं कालाप्रदेशिकेभ्योऽसंख्यातत्वमाह| जोकरासिलो चिअ असंखभागे ण लेसराप्तीणं । तेणासखिज्जगुणाअगवो कालापएसहिं ॥१९॥ ) येनैकराशेरेव-असंख्यातप्रदेशिकस्कन्धाभिधानस्यैवासंख्यातभागेऽणवो वर्तन्ते, न ‘शेषराश्योः' संख्यातप्रदेशिकान|न्तप्रदेशिकाभिधानयोरिति । अयमर्थ:-अनन्तप्रदशिकस्कन्धराशेरनन्तगुणाः संख्यातप्रदशिकस्कन्धराशेस्तु संख्यातभागे | वर्जन्ते, संख्यातभागस्य च 'विवक्षया पूर्वोक्तयुक्या च नासन्तमल्पतेति, तेन कालतः सप्रदेशेष्यप्रदेशेषु च वृत्तिमतामणूनां | बहुत्वात् कालाप्रदेशानां च समयमात्र कालावस्थायित्वेनात्यन्तमल्यत्वात्कालापदेशेभ्योऽसंख्यातगुणा द्रव्यापदेशा इति ॥१९॥ इतो असंखगुणिआ हवंति खित्तापएसिआ समए।जं ते ता सव्वे चिअ अपएसा खित्तओ अणवो॥२०॥ 'इतो' द्रव्यापदेशेभ्यः क्षेत्रामदेशिका असंख्यातगुणा भवन्ति, यस्मात्ते एव परमाणवः, 'ता' इति तावदर्थे, स च क्रमोपन्यासे वक्ष्यमाणगाथोक्तद्विप्रदेशादिद्रव्यापेक्षया, एकैकनभःप्रदेशावगाहितया सर्वेऽपि क्षेत्रोऽप्रदेशा एवति । न ह्येकः परमाणुबाँदरपारणामोऽपि द्वयादीनभःप्रदेशान् व्याप्नोति ॥ २०॥ दुपएसिआइएसुऽवि पएसपरिवडिएसु ठाणेसु । लब्भइ इक्किक्कोऽविअ रासी खित्तापएसाणं ॥२१॥ १ असंख्यातस्योक्तत्वात्परमाणूनां चोद्देश्यत्वात् २ मध्यमसंख्यातलक्षणस्थानस्य Jain Education a l For Private & Personal use only W w.jainelibrary.org 196 Page #34 -------------------------------------------------------------------------- ________________ सवृत्तिका ॥ ५ ॥ Jain Education प्रदेशशब्दः परमाणुपर्याय इह गृह्यते, ततो द्विपदेशादिकेष्वपि स्कन्धेषु प्रदेशपरिवर्द्धितेषु स्थानेष्वेकायेकोत्तरेण पर| माणुपरिवर्द्धितेषु क्षेत्रामदेशानामेकैक एव राशिर्लभ्यते । अयमर्थ:- द्वणुस्कन्धा बादरपरिणामतया केचिद् द्विद्विनभःप्रदेशावगाहिनः केचित्तु सूक्ष्मपरिणामतयैकैकनभः प्रदेशावगाहिन इति, एवं व्यणुकस्कन्धाः केचिद्वादरपरिणामतया त्रित्रिनभः प्रदेशावगाहिनः केचिद्वादर सूक्ष्मपरिणामतया द्विद्रिनभः प्रदेशावगाहिनः केचित्सूक्ष्मपरिणामत ये कैक नभः प्रदेश। वगाहिनः, एवं चतुरणुकस्कन्धा अपि केचिच्चतुश्चतुर्नभःप्रदेशावगाहिनः केचित्रित्रिनभःपदेशावगाहिनः केचिईि द्विनभः मदेशावगाहिनः केचित्वेकैकनभः प्रदेशावगाहिन इति । अनया दिशा पञ्चाणुकषडणुकादयोऽनन्ताणुकान्ताः स्कन्धा एकैकनभः प्रदेशावगाहिनोऽपि लभ्यन्ते इति । तथा च सति द्व्यणुकादीनामनन्ताणुकान्तानां क्षेत्रतोऽप्रदेशानां प्रतिपदेशं परमाणुवृद्धिस्थानमे| कैक एव राशिरिति ॥ २१ ॥ अथ क्षेत्रतः समदेशानाम संख्यगुणतामाह इत्तो खित्तासेण चैव सपएसया असंखगुणा । एगपएसो गाढे मोतुं सेसावगाहलया ॥ २२ ॥ ' एभ्यः' क्षेत्रापदेशेभ्यः सकाशात् क्षेत्रतः सपदेशा असंख्यातगुणाः, यतः एकैकपदेशावगाढान् स्कन्धान्मुक्त्वा 'सेसावगाहणया' इति द्वयादिनभः मदेशावगाहिनः स्कन्धाः सर्वेऽपीह गृह्यन्त इति, अयमर्थ:-द्वयणुकस्कन्धानां क्षेत्रावगाहना| पेक्षया द्रौ राशी- एक एकैकनभः प्रदेशावगाढानां सन्यानां द्वितीयस्तु विनिःपदेशावगाढानां स्कन्धानाम् । तथा त्र्यणुस्कन्धानां क्षेत्रावगाहनापेक्षया त्रयो राशयः- एक एक कन्भः प्रदेशावगाढानां द्वितीयो द्विद्विनभः प्रदेशावगाढानां तृतीयस्तु tional S पुद्रलषद् त्रिंशिका. ॥५॥ ww.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ त्रित्रिनमः प्रदेशारगाढानां सन्धानाम् । तथा चतुरणुकस्कन्धानां चत्वारो राशयः-एक एकैकनभःप्रदेशावगाढानां द्वितीयो द्विदिनभःपदेशावगाढानां तृतीयस्त्रित्रिनमःप्रदेशावगाढानां चतुर्थस्तु चतुश्चतुर्नयःमदेशावगाढानां स्कन्धानाम् । एवं पश्चाणुकस्कन्धानां पञ्च राशयो यावदसंख्याताणुकस्कन्धानां क्षेत्रावगाहनापेक्षयाऽसंख्याता राशयः, अनन्ताणुकस्कन्धानां 13 तु क्षेत्रावगाहापेक्षया नानन्ता राशयः, सकललोकाकाशप्रदेशाग्रस्यासंख्यातस्यैव सर्वत्र भणनादिति । एवं च सति ये य|णुकादयोऽनन्ता णुकान्ताः स्कन्धा एकैकनमा प्रदेशावगाहिस्कन्धराशिवर्जा द्वयादिनभ:पदेशावगाहिनो राशयस्ते सर्वे क्षेत्रतः | सप्रदेशा इति ॥ २२ ॥ शेषत्वं भावयन्नाह| ते पुण दुपएसोगाहणाइआ सव्वपुग्गला सेसा । ते अ असंखिज्जगुणा अवगाहणठाणबाहुल्ला ॥२३॥ ते पुननिदेशावगाहनादिकाः 'सबपुग्गला' इति समस्ता व्यणुकादयोऽनन्ताणुकान्ताः स्कन्धाः 'शेषा' व्यतिरिक्ताः क्षेत्रापदेशपुद्गलेभ्य इसस्याध्याहारः। ते पुनः क्षेत्रतः सपदेशा असंख्यातगुणाः, अवगाहनास्थानानां बाहुल्यात् । अयमाशयः-परमाग्वादीनामनन्ताणुकस्कन्धानामपि पुद्गलानामेकैकनभःप्रदेशलक्षणमेक मेवावगाहनास्थानं क्षेत्रापदेशानां, क्षेत्रतः सपदेशानां (तु) द्वय दिनभःप्रदेशप्रभृतीन्यसंख्यातनभ प्रदेशपर्यन्तान्यसंख्यातान्यवगाहनास्थानानीति ॥ २३ ॥ अथ द्रव्यतः कालतो भावतश्च समदेशानां प्रमाणमाइ| दवेण हुँति इत्तो सपएसा पुग्गला विसेसहिआ। कालेण य भावेण य एमेव भवे विलेसहिआ॥२४॥ Jain Education Mional For Private & Personal use only law.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ सवृत्तिका 'एभ्यः' क्षेत्रतः समदेशेभ्यो द्रव्यतः सप्रदेशाः पुद्गला विशेषाधिकाः, तथा द्रव्यतः सपदेशेभ्यः कालतः सप्रदेशाः पुद्गला | पुद्गलषट् 1 विशेषाधिकाः, एवं कालतः सपदेशेभ्यो भावतः समदेशा विशेषाधिका इति ॥ २४ ॥ अमीषां विशेषाधिकत्वे युक्तिमाह | त्रिशिका. भावाईआ वुड्डी असंखगुणिआ जमप्पएसाणं । तो सप्पएसयाणं खित्ताइ विसप्तपरिवुडो ॥ २५ ॥ ___यस्मादमदेशानां पुद्गलानां 'भावादिका' भावमादौ कृत्वा वृद्धिरसंख्यगुणिता, आदिशब्दात्कालद्रव्यक्षेत्रागि गृह्यन्ते । अयमर्थः-भावापदेशेभ्यः कालतोऽप्रदेशाः पुद्गला असंख्य गुणाः, कालापदेशेभ्यो द्रव्यापदेशा असंख्यगुणाः, द्रव्या| प्रदेशेभ्यः क्षेत्रामदेशा असंख्यगुणा इति । 'तो' इति तस्मात्प्तपदेशानां पुद्गलानां 'क्षेत्रादिका' क्षेत्रमादौ कृत्वा वैपरीत्येन १२ क्रमशो विशेषपरिवृद्धिबोदव्या, क्षेत्रतः सपदेशेभ्यो द्रव्यतः सपदेशा विशेषाधिकाः, द्रव्यतः समदेशेभ्यः कालतः सपदेशा | विशेषाधिकाः, कालसः सपदेशेभ्यो भावतः सपदेशा विशेषाधिका इति ॥ २५ ॥ अथ मिश्राल्पबहुत्वमाहमीसाण संकमं पइ सपएसा खित्तओ असंखगुणा । भणिआ सटाणे पुण थोवच्चिअ ते गहेअव्वा॥२६॥ ___ 'मिश्राणा'मित्यप्रदेशसमदेशानां मीलितानां संक्रमं प्रत्यपदेशेभ्यः सपदेशेष्वल्पबदुत्वविचारसंक्रमे क्षेत्रतोऽप्रदेशेभ्यः क्षेत्रतः | सपदेशा असंख्येयगुणाः । स्वस्थाने पुनरपदेशान् विहाय केवलसपदेशचिन्तायां द्रव्यकालभावानां समदेशानां क्रमशो विशेषाधिकानामपेक्षया स्तोका एव ते क्षेत्रतः सन्देशा इति ॥ २६ ॥ एतदेवोच्यतेखित्तेण सप्पएसा थोवा दव्वद्धभावओ अहिया। सपएसप्पाबहुअं सहाणे अत्यओ एवं ॥ २७॥ an Educati on Formate & Personal Lise Only www.ganelibrary.org Page #37 -------------------------------------------------------------------------- ________________ शेषसप्रदेशापेक्षया क्षेत्रतः सप्रदेशाः स्तोकाः, स्तोकत्वे च साध्ये युक्तिः पूर्वविचारितैव । 'दबद्धभावओ अहिया' इति द्रव्यतः कालतो भावतश्च सप्रदेशाः क्रमशो विशेषाधिकाः । अर्थत इति व्याख्यानापेक्षया इत्यं स्वस्थाने सपदेशानां पुद्गलानामल्पबहुत्वमवगन्नमाति ॥ २७ ॥ अल्पबहुत्वसंख्यामाहपढमं अपएसाणं बीयं पुण होइ सप्पएमाणं । तइयं पुण मोसाणं अप्पबह अत्यओ तिन्नि ॥२८॥ प्रथमं द्रव्याद्यपदेशानां चतुण पुद्गलराशीनां परस्परमल्पबहुत्वमुक्तम् । द्वितीयं तेषामेव द्रव्य दितः सपदेशानाम् । तृतीयं KI 'मिश्राणा'मिति सपदेशाप्रदेशानां मिठितानामिति अर्थतो' व्याख्यानद्वारेण त्रीण्यल्पबहुत्वानि भवन्ति । सूत्रे त्वेकमेवाल्पबहु त्वमुक्तमिति ॥ २८ ॥ सप्रदेशानामन्योऽन्यं हासद्धिप्रमाणमाहठाणे ठाणे वडूइ नावाईणं जमप्पएसाणं । तं चिअ भावाईणं परिभस्सइ सप्पएसाणं ॥२९॥ भावादीनामादिशब्दात्कालद्रव्यक्षेत्राणामपदेशानां स्थाने स्थाने यद देते तदेव सप्रदेशानां भावादीनां परिभ्रश्यते । यथा किल कल्पन या लक्षं पुद्गलास्तेषु भावतः कालतो द्रव्यतः क्षेत्रतश्चापदेशाः क्रमणैकद्विपञ्चदशसहस्रसंख्याः, सप्रदेशास्तु नवनवसष्टनवतिपञ्चनवतिनवातसहस्रसंख्या; ततश्च भावापदेशेभ्यः कालापदेशेषु सहस्रं वर्धते, तदेव भावतः समदेशेभ्यः कालतः सपदेशेषु हीयते । तथा यदेव कालापदेशेभ्यो द्रव्यापदेशेषु सहस्रत्रयं वर्धत, तदेव कालसप्रदेशेभ्यो द्रव्यसप्रदेशेषु हीयते । तथा यदव द्रव्यापदेशेभ्यः क्षेत्राप्रदेशेषु सहस्रपञ्चकं वर्धते, तदेव द्रव्यसप्रदेशेभ्यः क्षेत्रसमदेशेषु हीयते इति ॥२९॥ Jain Educatialistianal For Private & Personal use only ITSww.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ सत्तिका त्रिशिका. स्थापना चेयसभावा० १०००|कालाप० २००० १००० कालाप० २००० द्रव्याप० ५००० क्षेत्राप०१०००० पुद्रलपद भावसप ९९०००/ कालसप० ९८००० द्रव्यमा० ९५०००|क्षेत्रसम०९०००० अहवा खिताईणं जमप्पएसाण हायए कमसो । तं चिअ खित्ताईणं परिवइ सप्पएसाणं ॥३०॥ ___अथवा द्रव्यक्षेत्रादीनां यदप्रदेशानां हीयते क्रमशस्तदेव सप्रदेशानां क्षेत्रादीनां परिवर्धत इति । अयमर्थ:-क्षेत्रामदे-12 शेभ्यो द्रव्यापदेशेषु पञ्च सहस्रा हीयन्ते, त एवं क्षेत्रतः सप्रदेशेभ्यो द्रव्यसप्रदेशेषु वर्धन्ते । तथा य एव द्रव्यतोऽप्रदेशेभ्यः कालापदेशेषु त्रयः सहस्त्रा हीयन्ते त एव द्रव्यसपदेशेभ्यः कालसपदेशेषु वर्धन्ते । तथा यदेकं सहस्र कालापदेशभ्यो भावाप्रदेशेषु हीयते तदेव कालसप्रदेशेभ्यो भावसप्रदेशेषु वर्धत इति ॥ ३०॥ अवरुप्परप्पसिद्धा वुड्डी हाणी अ दोई दुण्हंपि । अपएससप्पएसाण पुग्गलाणं सलक्खणओ॥३१॥ २६ 'परस्परं' अन्योऽन्यापेक्षया प्रकर्षेण सिद्धा-प्रतिष्ठिता 'स्वलक्षणतः' स्वस्वरूपतो वृद्धि निश्च भवति, 'द्वयोरपीति पुद्गलानां भावकालद्रव्यक्षेत्रविशिष्टानां क्रमोत्क्रमाभ्यां वृद्धि हानिमतामम् , अप्रदेशराशेः सप्रदेशराशेश्चत्यर्थः ॥ ३ ॥ अमुमेवार्थ व्यक्तिते चेव य ते चउदिवि जमुवचरिजंति पुग्गला दुविहा । तेण उ बुट्टी हाणी तेसिं अन्नोन्नसंसिदा ॥३२ । यस्मात्पुद्गला द्विविधा:-सप्रदेशा अप्रदेशाश्चेत्यर्थः, उपचर्यन्ते-विशिष्यन्ते चतुभिरपि भावकालादिभिः परमार्थतस्तु ॥ ७ ॥ Jain Education a l For Private & Personal use only HOJw.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ ते एव ते नान्ये । अयमर्थः-ये किल कल्पनया पुद्गला लक्षसंख्या उक्ताः, परमार्थेन तु अनन्ताः सन्ति, तेषां मध्याकेचित् द्रव्यतोऽप्रदेशाः शेषास्तु द्रव्यतः सप्रदेशाः, य एव द्रव्यतोऽप्रदेशाः सपदेशाश्च त एव कालादिभिरप्यप्रदेशाः सपदेशाच विचार्यन्ते, तेन तेषां पुद्रलानां वृद्धिीनिश्चान्योऽन्यसंसिद्धा-इतरेतराश्रयति परस्परापक्षयेत्यर्थः ॥३२॥ एएसिं रासोणं णिदरिसणमिणं भणामि पञ्चक्खं । वुड्डीए सव्वपुग्गल जावं तावाण लक्खो उ ॥३३॥ इक्कं च दो अ पंच य दस य सहस्साइँ अप्पएसाणं । भावाईणं कमसो चउण्हवि जहोवइहाणं३४ कल्पनया यावन्तः सर्वपदलास्तावतां लक्षमिति ॥ ३३ ॥ एक द्वे पञ्च दश सहस्राणि अप्रदेशानां 'भावादीनां' भावकालद्रव्यक्षेत्राणां चतुर्णामपि यथोपदिष्टानां क्रमेणावगन्तव्यानि ॥ ३४ ॥ 18 नउई पंचाणउई अट्ठाणउई तहेव नवनउई । एवइयाइँ सहस्साइँ सप्पएसाण विवरीअं ॥३५॥ वैपरीत्येन सप्रदेशानां नवतिः पश्चनवतिरष्टनवतिर्नवनवतिश्च सहस्राणां क्रमेणावगन्तध्या। वैपरीत्यं चेदम्-क्षेत्रतः सपदेशानां नवतिसहस्राणि द्रव्यतः समदेशानां पञ्चनवतिसहस्राणि कालतः सपदेशानामष्टनवतिसहस्राणि भावतः सपदेशानां नवनवतिसहस्राणीति ॥ ३५ ॥ | एएसि जहासंभवमत्योवणयं करिज रासीणं । सम्भावओ अ जाणिज ते अणंते जिणाभिहिए ॥३६॥७ ॥ इति समाप्तेयं पुद्गलषट्त्रिंशिका ॥ Jain Education A nal For Private & Personal use only (Galaw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ सत्तिका // 8 // एतेषां पूर्वोक्तानां सपदेशानदेशानां राशीनां यथासं पवमर्थोपनयम् अथभावनां कुर्यात् / अर्थभावना तु सप्रदेशापदे- पुद्गलषद् | त्रिशिका. शानामल्पबहुत्वविचाररूपा पूर्वव्याख्याने कृतैवेति नेह पतन्यते / अत्र लक्षसंख्यया पुद्गलानामलमबहुत्वविचारणमव्युत्पनमतिशिष्यव्युत्पादनार्थम् / परमार्थतस्तु तान् पुद्गलाननन्तान् जिनाभिहितान् जानीयादिति // 36 // इति श्रीरत्नसिंहमूरिविता पुद्गलषट्त्रिंशिकावृत्तिः समर्थितेति // M000. S Do000me/000GORGRO0BacBDOOG80090000000000Eoo आकाजल ( // इति सवृत्तिका पुद्गलपट्त्रिंशिका समाप्ता // ) // 8 // in Educaton internal For Private & Personal use only www.sainelibrary.org