________________
श्रीसम्यक्त्वपरीक्षाया उपदेशशतकस्य चोपोद्घातः ।
श्रीगणधरेन्द्रो विजयतेतराम् । विदिततममेतद् विदुषां विदितवेद्यानां यदुतानेका लघवोऽप्यलघवो ग्रन्थाः सम्पद्यन्ते कुमतपाथोधिमथनमन्थानतया बोधसद्रत्नावाप्तिप्रयोजनाः तद्वदेषोऽप्युपदेशशतकाख्यो ग्रन्थो बोधरत्नग्रन्थिर्विलोकनीयो विलोककानां, ग्रन्थाभिधानहेतुस्तु काव्यानां शतोन्मितत्वं, व्यवहारेणैतदवेक्षणेनाष्टानामाधिक्येऽपिन क्षतिः, तस्योपचारबहुलत्वेन विश्रुतत्वात् विपश्चिद्वन्दे, विधातारश्चास्य श्रीमद्विमलकीर्तिपादपद्मपरागपङ्कजप्रियाः श्रीमन्तो विबुधविमलाभिधानाः मूरिवर्याः, श्रीमत्सु मूरिमन्त्ररत्नसमर्पणरोहणायमानास्तु श्रीसुमतिसागरावयाः मूरिधुर्याः, अन्वयश्चैषां न्यायाचार्यसाहाय्यकसाधितजनपदजनमनसः श्रीमतो ज्ञान-4 विमलमूरेः, विलोक्यं चेद् १०५ पश्चाधिकशततमकाव्यमवेक्षणीयमत्रैव, ज्ञानविमलगुरो ऋद्धिविमलप्रभवस्ततो विमलकीर्तयो , विमलकीर्तयस्तदनु पट्टपूर्वाचलार्यमभासः श्रीमन्तो बभासिरे शासनं, पूज्यपादप्रणीता नोपलब्धिपथमायाता अपरे ग्रन्था इति नवोपलभ्यन्ते श्रीमतां जन्मभूमीजनकजनन्याद्यभिधानानि, ज्ञापयिष्यन्ति बोद्धार उपकृता भविष्यामः । प्रस्तुते च "अनित्याशरणभवैकान्याशुचित्वाश्रवसंवरनिर्जरालोकस्वभावबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः” (तत्त्वा० अ० ९मू०७) "पढममणिच्चमसरणं संसारो एगर्यो य अन्नत्त । असुइत्तं आसव संवरो य तह निज्जरी नवमी ॥ १ ॥ लोगसहावो बोही"
book Page><pop-poet-doc/ParePaper
Jain Educatiotlinamgional
For Private & Personal use only
wwwsinelibrary.org