SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सम्य क्त्वप० त्रयोऽर्थाः प्रतिपादिताः। ज्ञानार्थश्चैत्यशब्दश्च, वनवाची तिरस्कृतः ॥ ४८ ॥ स्थानाङ्गे दशधा सत्यं, जनपदादिवाक्यतः । संमतं सत्यभेदेन, चैत्यस्यास्त्रियः स्मृताः । ४९ ॥ व्युत्पत्त्या न हि सर्वेऽपि, शब्दाः सर्वत्र सङ्गताः । गोशब्दो यदि गत्यर्थः, कीटिकादौ न किं मतः! ॥ ५० ॥ कदाग्रहवशेनैव, मूर्खण केनचि-2 न्मुधा । व्याकरणादिसूत्रेण, ज्ञानार्थको हि साधितः ॥ ५१ ॥ कुत्रचिन्नाममालायां, ज्ञानार्थको न भाषितः। ज्ञेयोऽर्हत्प्रतिमावाची, चैत्यशब्दो बहुस्थले ॥ ५२ ॥ आनन्दकामदेवादिश्राद्धसम्यक्त्वसूत्रके । तीर्थकृत्प्रतिमावाची, चैत्यशब्दस्तु निश्चितः ॥ ५३ ॥ सूर्याभादिकदेवानां, सम्यग्दृशां सुसूरिभिः । आगमेषूदितं चैत्यार्चनं हितादिकारणम् ॥ ५४ ॥ परीक्षा छेदतुल्येति, द्वितीया चैत्यहेमसु । सिद्धान्ताक्षरटकैस्तु, सुधीभिर्विहिता भृशम् ॥ ५५ ॥ इति द्वितीया परीक्षा समाप्ता ॥ परीक्षैव तृतीयाऽथ, प्रारभ्यतेऽग्नितापवत् । श्रमणो, पासकानां नो, हिंसा द्रव्यस्तवेऽर्हताम् ॥ ५६ ॥ श्रमणोपासकानां हि, द्रव्यस्तवस्तु मुख्यतः । महानिशीथसूत्रोक्तो, भावस्तवोऽपि संमतः ॥ ५७ ॥ रुद्रध्यानप्रमादेन, कृष्णलेश्यादियोगतः । प्राणानां व्यपरोपत्वं, For Private & Personal use only
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy