________________
सम्य
क्त्वप०
१
Jain Education
श्रेष्ठ देवचन्द्र लालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्कः
श्रीविबुधविमलसूरिकृता
॥ श्रीसम्यक्त्वपरीक्षा ॥
॥ श्रीसरस्वत्यै नमः श्रीगुरुभ्यो नमः ॥
॥ प्रथमोऽधिकारः प्रारभ्यते ॥
-
प्रणम्य परया भक्तया, श्रीमत्पार्श्वजिनेश्वरम् । नत्वा गुरुक्रमाम्भोजं, सम्यक्त्वादि परीक्ष्यते ॥ १ ॥ यद्यपि बहवो ग्रन्थाः, पूर्वाचार्यैः सुवर्णिताः । तथापि क्रियते ग्रन्थो, बालानां सुखहेतवे ॥ २ ॥ यथाप्रवृत्तिनिष्ठानां, भव्यानां शुक्लपक्षिणाम् । रागद्वेषघनग्रन्थिभेदिनां शुभभावतः ॥ ३ ॥ मिथ्यात्वस्य परित्यागात्, सम्यक्त्वं क्षायिकादिकम्।उत्पद्यते च संसारसमुद्रपारदायकम् ॥ ४॥ युग्मम् | धर्मः श्रुतमयो ज्ञेयो, मार्गो ज्ञानादिकः
For Private & Personal Use Only.
ww.jainelibrary.org