SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ क्त्व प. तथैवं (तवैवं) स्यात्, सम्यक्त्वं कस्य कथ्यते ? ॥ ८० ॥ धर्मार्थं प्राणिनां घातो, मिथ्यात्वं तत्र मन्यते । सम्य-विहारादौ मुनीनां चेन्मिथ्यात्वं किं न कथ्यते ? ॥ ८१ ॥ चेत्प्रतिक्रान्तितो नैव, मिथ्यात्वं प्रतिपाद्यते । प्रायश्चित्तं श्रुते प्रोक्तं, दशधालोचनादिकम् ॥ ८२ ॥ मिथ्यात्वप्रतिपत्तौ च, महाव्रतविघातने । यदीर्यायाः प्रतिक्रान्तौ, शुद्धिर्भवति निर्मला ॥ ८३ ॥ चेत्पुनश्चरणारोपो, वृथा सूत्रे निरूपितः । विहारादौ न मिथ्यात्वं, मूलच्छेदोऽपि तन्न हि ॥ ८४॥ गृहादिप्रतिबन्धस्य, निषेधार्थं तपस्विनाम् । विहारस्तीर्थकृत्ख्यातो, यतनया नदीजले ॥ ८५ ॥ धनादिप्रतिबन्धस्य, निवारणाय गेहिनाम् । जिनपूजा जिनाख्याता, यतनया जिनागमे ॥ ८६ ॥ मुनीनां तु यथेर्यायाः, प्रतिक्रान्तिर्विहारके । तथैव जिनपूजायां, प्रतिक्रान्तिः कथं न चेत् ॥ ८७ ॥ ईर्यादिव्यवहारोऽपि, सामायिकादिके पुनः । जिनाभिगमसेवादौ, न श्रुतेर्यागतिः कदा ॥ ८८ ॥ अविध्याशातनायाश्च, मिथ्यैवास्तु पुनः पुनः । इति सर्वत्र वक्तव्यं, पूजायां भविकैर्जनैः॥ ८९ ॥ वादीति वचनं श्रुत्वा, पुनर्वृते प्रभाषया । विहारस्य च पूजाया, महदन्तरमुच्यते ॥ ९० ॥ विहारादौ तु संकोचोऽनुदीर्णालोचना JainEducation For Private & Personal use only PAw.sanelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy