Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्य
क्त्वप०
हिंसाथ, पुष्पादिभिर्जिनार्चनम् । पुष्पादिजीवहिंसायामशक्यपपरिहारता ॥ ४५ ॥ पूर्वोक्तगुणयुक्तान्यचित्तवस्तूनि सन्ति चेत् । तानि त्यक्त्वा सचित्तानि, गृहीत्वा तांश्च पूजयेत् ॥४६ ॥ मिथ्याशल्यं भवेदेकमकतो हि पराण्यपि । पापस्थानानि तोल्यन्ते, मिथ्यात्वमधिकं ततः ॥ ४७ ॥ हिंसाद्यष्टादशे स्थाने, मिथ्यात्वमधिकं मतम्। मिथ्यात्वापगमाहिंसा, शीघ्रं नश्यति दूरतः ॥ ४८ ॥ सम्यक्त्वशुहिमादध्याजिनपूजैव भक्तितः। चारित्रं प्राप्नुयात्प्राणी, शीघ्रं दर्शनशुद्धितः ॥ ४९ ॥ अत एव सुराः सर्वे, सचित्तैः कुसुमैवरैः । योजनं मण्डलं चक्रुर्भक्त्या सम्यक्त्वशोधनात् ॥ ५० ॥ नौभङ्गाद्युपसर्गात्तु, सम्यक्त्वं नैव खण्डितम् । श्रमणोपासकाग्र्येण, श्रुतं ज्ञातादिसूत्रतः ॥ ५१ ॥ अतः पारगपूजायां, हिंसैव नास्ति काचन । विहारादौ च साधूनां, नद्युत्तरणवद्यथा ॥ ५२ ॥ एवं चेत्तर्हि साधूनां, पूजा योग्या विहासरवत् ? । इति वादिवचः श्रुत्वा, सिद्धान्तिकः प्रभाषते ॥ ५३ ॥ विमुक्तद्रव्यरोगाणां, निम्रन्थानां न चोचिता । पूजौषधसमा ज्ञेया, नीरोगिणामिवोदिता ॥ ५४॥ यावद्दीक्षा न चायाति, मूर्छात्यागस्तु नो भवेत् ।
Jain Education
a
l
For Private
Personal use only
daw.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40