Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ सम्य क्त्वप० १३ Jain Education In लोकस्य, हिंसा विना व दृश्यते ? ॥ २३ ॥ अशक्यपरिहारादौ हिंसा नैव प्रभाष्यते । साधूनां श्रावकाणां च, वैयावृत्यादिसेवने ॥ २४ ॥ यतनां कुर्वतः साधोः, प्राणिनां च बधे सति । हिंसा संभाव्यते नैव, प्रायश्चित्तं पुनः पुनः ॥ २५ ॥ सुपरिहरणीयैव, हिंसाऽस्ति जिनपूजने । सचित्तानां च पुष्पाणां, जलदीपा - दिवस्तुनाम् ॥ २६ ॥ यत्र हिंसा न धर्मः स्याद्यदुक्तं च त्वया पुरा । स्वमुखेनैव हिंसायां सत्यां धर्मो निरूपितः ॥ २७ ॥ आत्मार्थी त्वं च चेद्भद्र !, स्वीयं वचो विचारय । यत्र हिंसा न धर्मः स्यादिति सम्यक् स्वचेतसा ॥ २८ ॥ हिंसा स्यात्ते परप्राणपरित्यागात्मिका मते । अशक्यपरिहारत्वं, तत्र नोक्तं त्वया पुरा ।। | २९ ॥ यत्र हिंसा न धर्मः स्यादशक्यपरिहारतः । पूर्वापरविरोधेन, तत्र वाक्यं प्रवर्तितम् ॥ ३० ॥ वर| मस्तु मतेऽस्माकमिष्टापत्तिस्तु जायते । एवं जानीहि पूजायामशक्यपरिहारताम् ॥ ३१ ॥ मोहनीयं द्विधा कर्म, व्रतसम्यक्त्वघातकम् । चारित्रावरणं कर्म, हिंसायाः कारणं मतम् ॥ ३२ ॥ दर्शनमोहनीयस्याभावात्सम्यक्त्वमुद्गतम् । ततो भक्तिर्जिनेन्द्रस्य, ततः पुष्पादिपूजनम् ॥ ३३ ॥ चारित्रावरणात्कर्मरूपादारम्भ For Private & Personal Use Only ************G w.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40