Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ सम्य क्त्वप० ग्राहिता जडाः । उन्मत्तवद् ब्रुवन्त्येवाहच्चैत्या निषेधनम् ॥ ३७॥ उत्सूत्राण्यष्टपञ्चाशत्सङ्ख्यानि भाषितानि | तैः । ढुण्डकैर्घथिलत्वेन, स्वीयसंसारवृद्धितः ॥ ३८ ॥ कलङ्काभावसंयुक्ते, शासने चैत्यशोभिते । दुष्टः कलाङ्कते यस्मिन्, ग्राह्यं परीक्ष्य तद् बुधैः ॥ ३९॥ स्वर्णोपमं हि सम्यक्त्वं, वह्नितुल्याः कुयुक्तयः। ग्राहकैस्तत्र भव्यौधैः, परीक्ष्यतेऽग्नितापने ॥ ४० ॥ त्यक्तस्त्री प्रतिमा जैनी, चापादिशस्त्रवर्जिता । दृष्टा भव्यजनैर्भक्त्या, संसारभयभेदिनी ॥४१॥ परीक्षा प्रथमेत्येषा, निर्विकारितया मता । मूर्तिर्दृष्टाऽर्हतां भव्यैरमृतानन्ददायिनी ॥ ४२ ॥ इति कषपट्टीसदृशा प्रथमपरीक्षा समाप्ता ॥ श्रीअर्हत्प्रतिमाराध्या, गणभृत्प्रतिपादिता । अनुयोगादिसिद्धान्ते, निक्षेपस्याधिकारतः ॥ ४३ ॥ नाम च स्थापना द्रव्यं, भावश्चेत्यनुयोगके । प्रोक्तं निक्षेपचातुष्कं, स्थानाङ्गे तस्य सत्यता ॥४४॥ श्रीवीतरागबिम्बे स्याच्चैत्यशब्दः प्रवर्तते। संज्ञानार्थश्चितीधातुर्घञ्प्रत्ययान्तसं-15 मतः ॥ ४५ ॥ काष्ठपाषाणरूपेषु, यदाकृतिविलोकतः । संज्ञानं स्मरणं तेषामुद्बोधकात्प्रजायते ॥४६॥ चिञ् । चयने (इ)तिधातोस्तु, चैत्यशब्दः प्रदर्यते। अर्हद्यक्षादिगेहेषु, पीठबढे तरावपि ॥४७॥ नैकार्थनाममालायां, Jain Education inevaal For Private & Personal use only TENw.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40