Book Title: Samyaktva Pariksha Updesh Shatakau Author(s): Vibudhvimalsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ सम्य क्त्वप० ३ Jain Education ॥तृतीयोऽधिकारः॥ अथ नयप्रमाणाख्यः, प्रारभ्यते तृतयिकः सत्सम्यक्त्वपरीक्षायां, भव्यजीवोपकारकः ॥ १५॥ नैगमसंग्रहौ ज्ञेयौ, व्यवहारर्जुसूत्रकौ । शब्दसमभिरूढैवंभूताः सप्त नयाः स्मृताः॥ १६ ॥ प्रत्यक्षं च पराक्षं च, प्रमाणं द्विविधं भवेत् । सांव्यवहारिकं चाद्यं, स्यादसांव्यवहारिकम् ॥ १७ ॥ इन्द्रियजं मतं पूर्वमिन्द्रियातीतजं परम् । मितिः श्रुतं परोक्षं च, प्रत्यक्षं देश सर्वतः ॥ १८ ॥ अवधिज्ञानसंयुक्तं, मनःपर्यायमेव च । देशप्रत्यक्षमाख्येयं केवलं सर्वतो मतम् ॥ १९ ॥ पदार्थोऽनन्तधर्मात्मा, युगपन्नैव भाष्यते । स्यादित्यपेक्षया धर्मः, स्याद्वादः स उदाहृतः ॥ २० ॥ यः पुरुषःपिता सूनुः पुनः स एव कथ्यते । भागिनेयो भवेद्यस्तु, मातुलोऽपि स एव हि ॥ २१ ॥ एकान्तेन प्रभुः कोऽपि, कश्चिद्धर्मं न भाषितुम् । अपेक्षाकथनात्प्राज्ञैः, स्याद्वादस्तु समर्थितः॥२२॥ स्याद्वादो यत्र तत्र स्यात्, सम्यक्त्वं प्रातेपादितम् । एकान्तेनैव मिध्यात्त्वं, प्रोक्तं सूत्रकृदागमे ॥ २३ ॥ | जैन चैत्यानि निर्ग्रन्थाः, सामायिकागमादयः । एषु निःशङ्किताचारा, अष्टौ सम्यक्त्वसाधनम्॥२४॥निःशङ्कितं भवेदाद्यो, निष्काङ्क्षितं द्वितीयकः । दर्शनस्य किलाचारस्तृतीयो निश्चिकित्सितम् ॥ २५॥ चतुर्थोऽमूढदृष्टित्वं, गुणिप्रशंसनं वरम्।यत्स्थिरीकरणं षष्ठो, वात्सल्यं भक्ति For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40