Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
एव तेषां, यत उदरपूरणमेव तेषां जीवनकृत्यं न तूड्डयनम् । किन्तु अस्य कृते त्वेतद् वस्तु वैपरीत्यमभजत् । यतोऽस्य जीवनकृत्यं तूड्डयनमेवाऽऽसीत् न तु भोजनमपि । अन्यत् सर्वमपि विस्मृत्य स उड्डयनायैव स्निह्यति स्म। अथ च तस्येदृशं वर्तनं दृष्ट्वाऽन्ये पक्षिणस्तस्य सम्पर्क निवारयन्तीति तेनाऽनुभूतम् । किं बहुना ? यावत् तस्य पितरावपि - स्वपुत्रः शतश उड्डयनप्रयोगेष्वेव समादिनस्य दुर्व्ययं करोतीत्यवलोक्य खिन्नौ भवतः स्म । तथाहि - यदा स जलोपरि स्वपक्षा(शोच्छ्रयेण उड्डयते स्म तदा सोऽल्पायासेनैव दीर्घकालं यावत् पवनेऽवस्थातुं शक्तो भवति स्म । यदा च स आकाशाज्जलेऽवरोहणं करोति स्म तदा सामान्यमवरोहणमकृत्वा स्वीयपादौ गाढं सम्मेल्य जले दीर्घरेखां प्रकुर्वन् अवरोहति स्म । एतद् एतादृगन्यच्च सह्यमप्यासीत्, किन्तु यदा स तटसिकतायामपि तथैवाऽवरोहणं कर्तुमारब्धस्तदा तत्पितरौ नितरां रुष्टौ अभवताम् ।
Jain Education International
For Private
rsonal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90