Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 23
________________ तस्य चैतन्यं साफल्योन्मादेनोल्लसितमासीत् । 'वेगस्य पर्यन्तावधिः ! सामुद्रो विहगः कश्चित् शतद्वयाधिकमाइल्-वेगेनोड्डीनः? सागरपक्षिणां गतिसीम्न उल्लङ्घनमिदम् ! !' स्वजातेरितिहासे ऐदम्प्राथम्येनोत्कर्षस्य महानवसरोऽनेनोपकल्पित आसीत्, स्वकृते चैको नूतनो युगः प्रारब्धः । स पुनरपि स्वाभ्यासक्षेत्रे समुत्पत्य अष्टसहस्रपादोच्छ्यात् अवपतनाय सन्नद्धो भूत्वा स्वीयपक्षौ सङ्कोचितवान् । अवपतनं कुर्वता वक्रः परावर्तः कथं ग्रहीतव्य इति ज्ञातुमुत्सुक आसीत् सः, अत एवेमं प्रयोगं समारब्धवान् । पक्षाग्रस्थितमेकमपि पिच्छं यद्यगुलांशामात्रमपि विसर्येत तदा महावेगेनाऽवपतताऽपि सरसः सरलश्च वक्रपरावर्तो ग्रहीतुं सुशक इति बोधात् पूर्वमेव स एतदपि ज्ञातवान् यद् यदि तावति वेगे एकाधिकानि पिच्छानि सञ्चार्येरन् तर्हि तद् राइफल्निसृतगुलिकावच्छरीरं भ्रामयति। विविधान् वायवीयव्यायामप्रयोगान् कृत्वा एवंविधान् तथ्यान् स्वानुभवेन जानन् जोनाथन् सामुद्रविहगेषु सर्वप्रथम आसीत् । तस्मिन् दिने सोऽन्यैः खगैर्वार्तालापेन समयव्ययमकृत्वाऽऽसायमुड्डयनप्रयोगानेवाऽचेक्रीयत । तत्र च मुख्यतया पाशाकारेण अधोमुखं पतनं, मन्दवेगेन सञ्चरता चक्राकारेण पतनं, महता वेगेन वर्तुलाकारं पतनं, विपर्यस्तचक्राकारेण पतनमित्यादय आसन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90