Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 39
________________ 'अहो ! इदमेव स्वर्गं ननु !' जोनाथन् चिन्तितवान्, अनुक्षणमेव च स्वं हास्यास्पदमनुभूतवान् । दिव्यभूमौ प्रथमपदन्यासस्य समकालमेव यदि कश्चित् तां विवेचयितुमारभते तदा तत् कथं शोभास्पदं भवेत् ? पृथिव्या निर्गतः स यावत् शुभ्रवर्णानां मेघानामुपरिष्टाद् विसर्पन् ताभ्यां तेजस्विभ्यां पक्षिभ्यां सार्धमत्र प्राप्तस्तावदेव सोऽन्वभवद् यत् तस्य शरीरमपि ताविव तेजस्वि प्रकाशमयं च भवितुमारब्धमस्ति । यद्यपि तयोः स्वर्णमयनयनयोः पृष्ठतस्तु स एव चिरयुवा जोनाथन् - पक्षी स्पन्दते स्म तथापि तस्य बाह्यस्वरूपं तु परावर्तितमेव । 'एतत् शरीरं सागरपक्षिशरीरवदेव यद्यपि प्रतिभाति स्म तथाऽपि पूर्वतनशरीरादिदमतीव समीचीनतयोड्डयते स्म ।' 'अथ चाऽर्धेनैव परिश्रमेणाऽहं पूर्वतनाद् वेगाद् द्विगुणितं वेगं प्राप्स्ये' सोऽचिन्तयत्, 'पृथिव्यां प्राप्तेनोत्तमवेगेनाऽपि द्विगुणितं वेगम्...' । शनैः शनैस्तस्य पिच्छानि शुभ्राण्यौज्ज्वल्येन च भ्राजमानानि सञ्जातानि, पक्षावपि चाऽतीव स्निग्धौ रूप्यमयाविव च सुन्दरौ सञ्जातौ । स स्वीयनूनपक्षविषयकमधिकं ज्ञानं प्राप्तुं तौ चाऽधिकशक्तिसम्पन्नौ कर्तुं सोल्लासं प्रारभत । प्रतिघण्टं सार्धशतद्वय-माइल्-वेगे सोऽनुभूतवान् यदियं तस्य समतलोड्डयनस्याऽधिकतमा गतिरस्ति । तथाऽपि वेगं वर्धयन् स पादोनत्रिशतवेगे ज्ञातवान् यदितोऽपि अधिकवेगस्य सम्भावनैव नास्ति । एतेन स नितरां हताशोऽभवत् । यद्यप्यनेन शरीरेण स पुरातनादुत्तमवेगादप्यत्यधिकं वेगं प्राप्तवानासीत्, तथाऽपि अस्य नूतनशरीरस्याऽपि शक्तेर्मर्यादाऽऽसीदेव । अनया च मर्यादया बद्धेन तेनोत्तमां कोटि प्राप्तुं महताऽऽयासेनाऽपि दुःशकमासीत् । 'ननु स्वर्गे तु काचिन्मर्यादा नैव स्यात् खलु !' सोऽचिन्तयत् । एतावता मेघा विकीर्णाः, 'शुभावतरणं जोनाथन् !' इति शुभेच्छां दत्त्वा च तस्य संरक्षकौ सूक्ष्मे पवनेऽन्तहितौ । Jain Education International For Privateg2Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90