Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 57
________________ स ध्वनिस्तस्य मस्तकान्तरेवोत्थितः । यद्यप्यतीव मृदुलः स आसीत् तथाऽपि तेनाऽत्यन्तमाश्चर्यचकितोऽसौ स्खलनं प्राप्य वायावेव लुठितुमारब्धः। 'मा कार्षीराक्रोशं तेषु फ्लेचर पक्षिन् ! भवतो बहिष्करणेन यदि परं तेषामेव हानिः ! एकदा त इदं ज्ञास्यत्येव । एकदा च ते तद् द्रक्ष्यन्त्येव यदद्य भवान् पश्यति । क्षाम्यतु तान्, सत्यबोधनार्थं च तेषां साहाय्यं करोतु ।' तस्य दक्षिणपक्षादङ्गलमात्रदूर एव जगतोऽपि सर्वोत्कृष्टौज्ज्वल्ययुतः कश्चन सागरपक्षी विनाऽऽयासमेवाऽऽकाशे संसरन् आसीत् । एकमपि पिच्छं सर्वथाऽचालयन्नपि स फ्लेचर्पक्षिण उत्कृष्टं वेगमतिशेते स्म । तस्य तरुणपक्षिणश्चित्तं विकल्पशतैः संक्षुब्धमिव । 'किमेतत् सञ्जायमानमस्ति? किमुन्मत्तोऽहं जातः? मृतो वा? किमेतत् सर्वम् ?.....' प्रशान्तो मधुरश्चैको ध्वनिः प्रत्युत्तरमपेक्षमाण इव तस्य चेतनाया अन्तस्तले प्राविशत्- ‘फ्लेचर लिण्ड् सागरपक्षिन् ! किं भवान् उड्डयितुमिच्छति ?' 'आम् अहम् इच्छामि।' 'किं भवान् तावदुद्दयितुमिच्छति येन भवान् स्वसमाजं क्षमयेत्, उच्चशिक्षणं प्राप्नुयात्, पुनरपि च तेषां मध्ये गत्वा तान् सत्यमवबोद्धं साहाय्यं कुर्यात् ?' यद्यपि फ्लेचर पक्षी अत्यन्तं गर्विष्ठाऽन्तर्व्यथितश्चाऽऽसीत् तथापि ईदृशस्य भव्यस्य दक्षस्य च सत्त्वस्याऽग्रेऽलीकभाषणस्याऽवकाश एव नाऽऽसीत् तस्य । 'आम् अवश्यम् !!' स मृदुतयोदतरत् । 'तर्हि फ्लेच!', स तेजस्वी पक्षी स्निग्धस्वरेण तमकथयत्, 'आगच्छतु, आवां समान्तरोड्डयनेनाऽऽरभेवहि.....' Jain Education International For Private soersonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90