Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 69
________________ तडित्पात इवैते शब्दा: समाजे प्रसृताः । ' ... अहो ! एते तु बहिष्कृता: पक्षिणः ! प्रतिनिवृत्ता !! किन्तु... किन्तु कथमेतत् सम्भवेत् ?....' फ्लेचर्पक्षिणो युद्धविषयिकी सन्धारणा समाजस्याऽसामञ्जस्ये विलीनाऽभवत् । 'ननु भवन्तु नामैते बहिष्कृताः पक्षिणः, किन्तु पृथिव्याः कस्मिन् भागे ते ईदृशमुड्डयनं शिक्षितवन्त: ?' केचिद् युवपक्षिणो विस्मिततया पृष्टवन्तः । ज्येष्ठादेशप्रसरणे तु होरामित: कालो व्यतीतः, 'उपेक्षध्वं तान्, य: कश्चिदपि तैः सह वार्तालापं करिष्यति स स्वयमेव समाजाद् बहिष्कृतो भविष्यति । यश्च तान् दृष्टिपातेनाऽपि सम्भावयति स समाजस्य नियमं भनक्ति ।' तत्क्षणमेव धूसरवर्णपक्षयुतानि पृष्ठानि जोनाथपक्षिणः सम्मुखं संस्थितानि । किन्तु जोनाथन् सर्वेथैतद् अलक्षयन्निव तटवर्तिनि संसद्भूमावेवाऽभ्यासं प्रयोगांश्च प्रावर्तयत् । अद्य ऐदम्प्राथम्येन स स्वशिष्यान् तेषां क्षमतां पूर्णतयोज्जागरयितुं साग्रहमन्वरुणत् । आकाशे डयमानः स उद्घोषं कृतवान्, 'भो मार्टिन्पक्षिन् ! भवतोक्तमासीद् यद् “अहं मन्दगतिकमुड्डयनं जानामि ", किन्तु यावद् भवान् तन्न निदर्शयेत् तावद् भवतो वचोऽप्रमाणमेव । उड्डयतां तावत् !! ' कनिष्ठो मार्टिन्विलियम् पक्षी 'स्वप्रशिक्षकस्याऽऽदेशार्होऽहं जातः ' इत्याश्चर्याघातमनुभवन्नुड्डयनं प्रारभत, क्षणार्धेन तु स विलम्बितगतिकोड्डयने ऐन्द्रजालिकायितः । मन्दानिललहर्यामपि पक्षलेशमप्यनास्फाल्य पिच्छानि च परावर्त्याऽतीव सारल्येन स भूमेराकाशमाकाशाच्च भूमिं गतप्रत्यागतं कर्तुं समर्थः आसीत् । एवमेव चार्ल्सोर्लेन्ड् पक्ष्यपि महापर्वतीयपवनधारायां चतुर्विंशतिसहस्रपादोर्ध्वमुड्डीय तत्रत्यं च शीतलं प्रतनुं च समीरणमनुभूय वेगेन प्रतिनिवृत्तः, किन्तु विस्मयमुग्ध: प्रफुल्लितश्च । सहैव, 'अत: परमितोऽ प्यूर्ध्वं गमिष्यामीवाति सङ्कल्पमपि कृतवान् सः ।' I Jain Education International For Private & Personal Use Only 62 www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90