Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 79
________________ च्चतरमस्ति - स्थित्वोच्चशिक्षणं गृह्णीयाद् वा पूर्वतने वा स्तरे गत्वा समाजेन सह कार्यं कुर्याद् वा।' । 'नूनमहं समाजे एव प्रतिनिवर्तितुमिच्छामि यत इदानीमेव मया नूतनो विद्यार्थिवर्गः शिक्षयितुमारब्धोऽस्ति ।' 'बाढं फ्लेचर् !, किन्त्वेतन्मा विस्मार्षीत् यद् विचारान्नाऽस्त्यधिकमिदं शरीरमिति.....' फ्लेचर शिरो विधूय पक्षौ विकोचितवान्... भृगोश्चाऽधोभागे परित एकत्रितस्य पक्षिसमाजस्य मध्येऽक्षिणी उन्मीलितवान् । यावत्स ईषच्चलितस्तावत् तु समस्तेऽपि समाजे महान् कोलाहलः संवृत्तः । 'अरे ! जीवत्येषः ? यो मृत आसीत् - स जीवति ?' 'नूनं महासागरपक्षिण: पुत्रेण पक्षाग्रं संस्पश्यैष उज्जीवित: !!' 'नैवम् । स तु निषेधतीदम् । स तु पिशाचोऽस्ति - पिशाचः ! अस्माकं विभाजनं कर्तुमागतोऽसौ !!' समुदाये चतुःसहस्रं पक्षिण आसन् । प्रथमत एव फ्लेचर्पक्षिणो दुर्घटनया ते भयभीता आसन् । तावता 'पिशाचः' इति शब्दः सामुद्रमहावातस्य धारेव तेषामन्तः सर्वत्र प्रासरत् । अतः कोपेन तेषामक्षिणी प्रज्वलिते, तीक्ष्णैश्चञ्चुभिस्तैः सहसाऽऽक्रमणं कृतम् । 'यद्यावामितोऽपसरेव तर्हि शोभनं स्यान्न वा फ्लेचर?' जोनाथन् पृष्टवान् । 'बाढं, मम नाऽस्त्येव विरोधः किल !' फ्लेचर उदतरत् । क्षणार्धेनैव तौ अर्धमाइल्-दूरं प्राप्तौ, समुदायस्य प्रस्फुरन्तश्चञ्चवस्तु शून्याकाश एवाऽऽस्फालिताः । 'एकस्मै पक्षिणे - स सर्वथा स्वतन्त्रोऽस्ति, एतच्च सोऽल्पकालाभ्यासेनैव साधयितुमलमिति - अङ्गीकारयितुमस्मिन् जगति किमिति कठिनतममस्ति? किमर्थमियती जडता?', जोनाथन् खिन्नतया पृष्टवान् । Jain Education International For Private Dersonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90