Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text ________________
तदा च्यांग् विनोदेन वदति, 'अहो ! अत्राऽपि त्वं शिक्षितुमारब्ध : !' । यात्रा तु यात्रैव, न लक्ष्यं परिपूर्णता वा - इतीदं तथ्यं यदा जोनाथन् अवबुध्यते तदा गुरुर्वदति, 'अधुना त्वं मर्मज्ञः सञ्जातोऽस्ति ।' अनन्तरं जोनाथन्समक्षं जीवनस्य रहस्योद्घाटनं कुर्वन् च्यांग् वदति, 'स्वर्ग स्थल-कालयोः सीमनि नैव वर्तते । जीवने परिपूर्णतायाः प्राप्तिरेव स्वर्गम् !! '। एतदेवाऽस्माकमुपनिषत्स्वपि कथितम् । स्थलातीते कालातीतेऽसीमानन्तशाश्वते च तत्त्वे स्थैर्यप्रापणमेतदेव । बहिः कुत्राऽप्यगत्वा स्वीये मूलस्वरूपे स्थिरीभवनमेव तत्त्वं ननु ! पूर्णगतिरपि अतिशयवेगेन भ्रमणं कुर्वतो भ्रमकस्य स्थिरा गतिः । जोनाथन्पक्षिणोऽवतारकृत्यमिदमत्यन्तं रुचिरतया कलात्मकतया चेह प्रकटितमस्ति । तस्य वचनेषु कदाचिद् इसुख्रिस्तस्य कदाचिच्च भगवतो बुद्धस्य ध्वनिरनुभूयते। यदा कदाऽप्यवतारेणाऽपि स्वकार्य समापनीयमेव । जोनाथन् अपि महाप्रयाणाय सिद्धो भवति, किन्तु स्वान्वयेऽन्यं 'जोनाथन्-पक्षिणं' स्थापयित्वा स गच्छति । गच्छंश्च स स्वोत्तराधिकारिणं फ्लेचर्पक्षिणं जीवनस्याऽन्यदपि महासत्यं कथयति, 'कृपया फ्लेचर् ! गमनानन्तरं मा मां भगवत्तया पूजये: । प्रत्येकं पक्षिषु निःसीम आत्मा समस्त्येव । तस्याऽधिकाधिकतयाऽवबोधनमेवाऽऽवश्यकम् ।' कथयित्वा च जनसामान्येष्वपि या अप्रकटिताः सम्भावना विद्यन्ते ताः प्रत्यङ्गुलिनिर्देशं कृत्वा, फ्लेचर्पक्षिकृते शक्यतानां विशालं जगदनावृत्य च जोनाथन् अन्तिम प्रयाणं करोति । एषोऽस्ति एकस्याऽऽत्मपक्षिणः पक्षयोः प्रस्पन्दः, औन्नत्यमानन्त्यं चोल्लङ्घनाय सततं प्रयत्नशीलता, स्वस्मिन्नेव च स्थिरीभूय विश्वानुभवनस्य कला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
79
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90