Book Title: Sagarvihangam
Author(s): Meera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
Catalog link: https://jainqq.org/explore/001165/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुप्रकाशनम् -२ सागरविहङ्गमः सं. कीर्तित्रयी For Private & Personal use only www.jaineliborg Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुप्रकाशनम् - २ सागविहङ्गमः (रिचार्ड्सबाक्-लिखितस्य जोनाथन्-लिविंग्स्टन्-सीगल-इत्यभिधस्य आङ्ग्लपुस्तकस्य मीरा भट्ट द्वारा कृतस्य 'सागरपंखी' त्यभिधस्य गुर्जरानुवादस्य संस्कृतानुवादः) कीर्तित्रयी KAमरा MP3 प्रकाशकः श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा वि.सं. २०६२ इ.स. २००६ Page #3 -------------------------------------------------------------------------- ________________ सागरविहङ्गमः (Translation of Richard Bach's Jonathan Livingston Seagull's Gujarati translation Sagarpankhi in Sanskrit) सं. कीर्तित्रयी प्रथमं मुद्रणम् वि.सं. २०६२ इ.स. २००६ © सर्वाधिकाराः स्वायत्ताः प्रकाशकः श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा प्रतिकृतयः ५०० मूल्यम् ६०.०० प्राप्तिस्थानम् श्री विजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर १२, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - ३८०००७ designing & printing by: AnandShah M.: 9825011414 E.: prarambhdzine@gmail.com Page #4 -------------------------------------------------------------------------- ________________ समर्पणम् समर्प्यते तेभ्यः ये चिदाकाशे उड्डयनाय कृतश्रमाः... Page #5 -------------------------------------------------------------------------- ________________ आशंसा आकाशे विहगा डयन्ते स्म, डयन्ते, डयिष्यन्ते च। केचित् तत्र लक्ष्यं विनाकृत्यैव भ्राम्यन्ति । केचन उड्डयनेनैव श्राम्यन्ति। कतिचिद् भक्ष्यार्थमेव उड्डीय, भ्रान्त्वा च विश्राम्यन्ति। कश्चिद् एवंविधोऽपि स्याद्, यो निश्चितलक्ष्यार्थमेव डयते, यावल्लक्ष्यप्राप्ति च अविराममविश्रामं च उड्डयनं निर्वहति । किन्तु, एतादृशः कश्चिदेव ! अथ च - तस्याऽऽकाशमपि चिदाकाशं, न जडाकाशम् । चिदाकाशे उत्पतनं, पुनरध: पतनं, क्षणं हताशा, क्षणं निर्वेदः, क्षणं विरामः । पुनरपि ऊर्ध्वगामि-सुजनैः प्रोत्साहनं, ततश्च पुनरुड्डयनश्रमः । एतदेव चोड्डयननिर्वहणं नाम, यस्य वारंवारमावर्तनेन सुविशदीभूतमानसः आत्म-विहगः स्थिरीभवति चिदाकाशे, निर्बन्धं स्वैरविहरणं कर्तुं क्षमश्च भवति, अदृष्टाऽश्रुताऽननुभूतपूर्वं चिदानन्दमनुभवति च स स्वकीयचित्तभूमौ। तदनन्तरं तस्य लयो भवति ऊर्ध्वतायां, चिदाकाशमेव च भवति तस्य शाश्वतं वासभवनम्। ईदृशं वासभवनमवाप्तुकामस्य, तत्समवाप्तौ स्फोरितस्फारपौरुषस्य, प्रान्ते तत् समवाप्तवतश्च कस्यचित् चिदानन्दात्मनः समस्तीयं कथा । वयमपीदृश्याः कथाया नायकत्वमवाप्तुं समर्था भवेम ! । -बिजयशीलचन्द्ररिः । Page #6 -------------------------------------------------------------------------- ________________ श्रद्धा मे सफला भवतु प्रत्येकमात्मनोऽन्तस्तले सुषुप्ता अभीप्सा विद्यन्ते काश्चन - स्व - रूपप्राकट्यस्य, पूर्णस्वातव्यस्य, निःसीमसौख्यस्य.......। एतद्रूपकमाध्यमेनाऽनायासमेव रिचाई बाक् तासां जागरणाय प्रयतते इव । संस्कृतवाचकानामपि तज्जागरणं भवत्विति श्रद्धयाऽनूदितमस्तीदं संस्कृतभाषया । श्रद्धा मे सफला भवतु..... -अनुवादकः मुनिकल्याणकीर्तिविजयः Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ प्रथमः खण्डः Page #9 -------------------------------------------------------------------------- ________________ Educareer orie Page #10 -------------------------------------------------------------------------- ________________ सुरम्यः प्रातःसमय आसीत् । बालसूर्यस्य स्वर्णवर्णरश्मिभिः शान्तसमुद्रस्य मृदुकल्लोलेषु स्फुरिततेजोवलया इव उत्थिताः । तटात् क्रोशमिते दूर एवैका मत्स्यग्राहिणी नौका जलमध्ये सञ्चरिता। एतेन ‘प्रातराशवेला प्रत्यासन्ना...' इति शब्दो वातावरणे प्रसृत इव । आकाशात् सहस्रशो विहङ्गमा भक्ष्यगवेषणायाऽधोऽवतीर्णाः, आहारखण्डप्राप्त्यर्थं च तेषां सङ्घर्षः समारब्धः । उदरपूरणाय तु सर्वेऽपि प्रयतन्ते खलु ! एवमेकस्य व्यस्तदिवसस्याऽऽरम्भः सञ्जातः । किन्तु सर्वेभ्योऽप्येतेभ्यो दूरे, नौकां स्वजनान् क्षुधं भोजनं चेत्यादि सर्वमपि विस्मृत्यैकाकी एवैको जोनाथन्-लिविंग्स्टन्नामा सागरपक्षी व्यग्रो भूत्वा किञ्चिदन्यदेवाऽभ्यस्यन् दृश्यते स्म । व्योम्नि पादशतं प्राय उड्डीय स स्वीयौ त्वग्गुम्फितौ पादौ किञ्चिन्नामितवान्, ततश्चञ्चपुटमूर्वीकृत्य तेनैकं वक्रावर्तनं ग्रहीतुं प्रयतितम् । तदावर्तनमतीव कठिनं कष्टदायकं चाऽऽसीत् । ईदृशावर्तनस्य करणकाले उड्डयनगतिरत्यन्तं मन्दयितव्या, अत एषोऽपि मन्दमन्दमुड्डयमानः शान्तसागरस्योपरिष्टादागतः शीतलसमीरस्य च मन्दनिनदमनुभूतवान् । ऐकाग्यं प्राप्तुं स अक्षिणी ईषन्निमीलितवान् श्वासमपि च रुद्धवान् । ततो यावत् किञ्चिदधिकं वक्रावर्तनं ग्रहीतुं स्वं प्रेरयति तावत् सहसा तस्य पक्षौ सङ्कुचितौ, स च स्वनियन्त्रणाद् भ्रष्टः सन् अधोमुखं विनिपतितः । सामुद्राः पक्षिणः कदाऽपि नैव पतन्ति नाऽपि नियन्त्रणाद् भ्रश्यन्ति वा। पवने भ्रंशनं पतनं वा नाम तेषां महती मानहानिर्लज्जास्पदं च । किन्त्वयं महाशयो लज्जामेकतस्त्यक्त्वा पुनरपि तदेवाऽऽवर्तनं कर्तुं प्रयतमानः पुनरपि प्रभुत्वहान्याऽधोमुखं पतितः । आम्, स सामान्यः सागरपक्षी नाऽऽसीत् । वस्तुतस्तु अधिकतमाः सागरपक्षिणः सामान्योड्डयनादधिकं शिक्षितुं नैवोत्सहन्ते । समुद्रतटात् भक्ष्यान्वेषणाय गन्तव्यं, तत्प्राप्तौ च तटे प्रतिनिवर्तितव्यम् - इत्येव तेषां ध्येयम् । इतोऽप्यधिकमुड्डयनं तु क्लेशाय Page #11 -------------------------------------------------------------------------- ________________ एव तेषां, यत उदरपूरणमेव तेषां जीवनकृत्यं न तूड्डयनम् । किन्तु अस्य कृते त्वेतद् वस्तु वैपरीत्यमभजत् । यतोऽस्य जीवनकृत्यं तूड्डयनमेवाऽऽसीत् न तु भोजनमपि । अन्यत् सर्वमपि विस्मृत्य स उड्डयनायैव स्निह्यति स्म। अथ च तस्येदृशं वर्तनं दृष्ट्वाऽन्ये पक्षिणस्तस्य सम्पर्क निवारयन्तीति तेनाऽनुभूतम् । किं बहुना ? यावत् तस्य पितरावपि - स्वपुत्रः शतश उड्डयनप्रयोगेष्वेव समादिनस्य दुर्व्ययं करोतीत्यवलोक्य खिन्नौ भवतः स्म । तथाहि - यदा स जलोपरि स्वपक्षा(शोच्छ्रयेण उड्डयते स्म तदा सोऽल्पायासेनैव दीर्घकालं यावत् पवनेऽवस्थातुं शक्तो भवति स्म । यदा च स आकाशाज्जलेऽवरोहणं करोति स्म तदा सामान्यमवरोहणमकृत्वा स्वीयपादौ गाढं सम्मेल्य जले दीर्घरेखां प्रकुर्वन् अवरोहति स्म । एतद् एतादृगन्यच्च सह्यमप्यासीत्, किन्तु यदा स तटसिकतायामपि तथैवाऽवरोहणं कर्तुमारब्धस्तदा तत्पितरौ नितरां रुष्टौ अभवताम् । For Private rsonal Use Only Page #12 -------------------------------------------------------------------------- ________________ For Pivate & Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ 'अरे जोन् !' अन्यदा तन्माता तं पृष्टवती – 'किमर्थमेतत् सर्वं करोषि? अन्येषां सागरपक्षिणामिव जीवनयापने तव किं बाधते ? इतस्तत उपर्यधश्च डयनं पेलिकन्पक्षिणः अल्बाट्रॉस्-पक्षिणश्च प्रकामं कुर्वन्तु नाम । तन्नाऽस्माकं जीवनधर्मो वत्स!। अपरं च त्वं सम्यग् भोजनमपि न करोषि । किमर्थम् ? पश्य तव शरीरं, केवलं पिच्छानि अस्थीनि चैवाऽवशिष्टानि !' 'मातः ! भवन्तु नाम पिच्छान्यस्थीनि चैव, नाऽस्त्यत्र मे काचिच्चिन्ता । मम तु - आकाशे वायौ च किमहं कर्तुं शक्तः किं चाऽहं कर्तुमशक्तः ? - इत्यत्रैव जिज्ञासा वर्तते । मम समग्रमपि अवधानं ज्ञानार्जन एवाऽस्त्यधुना' - जोनाथन् प्रत्युदतरत् । 'किन्तु वत्स जोनाथन् !' तस्य पिता मार्दवेनाऽवदत् - 'शीतकालः सन्निहित एव वर्तते । शनैः शनैरेता धीवरनौका विरलीभविष्यन्ति मीनाश्चाऽपि ऊष्मार्थं गभीरजले सरिष्यन्ति । यदि त्वं शिक्षितुमेवेच्छसि तर्हि तदेव शिक्षस्व येनोदरपूर्णं भोजनं विनाऽऽयासेनैव शीघ्रतया च प्राप्यते । उड्डयनप्रयोगास्तु सुतरां शिक्षणीया एव। किन्तु केवलमुड्डयनेनैव तवोदरं कथं पूरयिष्यते ? वस्तुतस्तूड्डयनमपि उदरपूर्त्यर्थमेव कर्तव्यमस्तीति न विस्मर्तव्यं त्वया ! ।' जोनाथन् सविनयं शिरो विधूय तयोर्वचनमङ्गीकृतवान् । ततः कतिचिद्दिनानि सोऽन्यसागरपक्षिण इव वर्तितुं प्रायतत । सामुद्रसेतुषु धीवरनौकासु च सोऽन्यैः सजातीयैः सह क्रोशन् युध्यमानश्च भक्ष्यमाक्रान्तुं ग्रहीतुं च बहु प्रयतितवान् किन्तु तस्योत्साहो चिरस्थायी नाऽभवत् । कदाचित् कष्टेन किञ्चिद् भक्ष्यं प्राप्याऽनुपदमेवाऽऽगतस्य वृद्धस्य कस्यचिद् बुभुक्षोः पक्षिणः कृते तत् त्यक्तव्यमपि भवति स्म । तदा सोऽचिन्तयत् - 'अहो ! सर्वथा व्यर्थमेतत् सर्वम् । अमूल्यसमयस्य कियान् दुर्व्ययोऽयम् ? इयन्तं कालं यदि उड्डयनशिक्षणे व्यापृतोऽभविष्यं तदा...? कियद् ज्ञातव्यं शिक्षणीयं च वर्तते जीवने ! Page #14 -------------------------------------------------------------------------- ________________ पुनरपि स क्षुधं भक्ष्यं स्वजनांश्चेत्यादि सर्वमपि एकतः कृत्वा तटाद् दूरं समुद्रमध्ये विविधानुड्डयनप्रयोगान् शिक्षितुं सोल्लासं प्रारब्धः । मनोभिलषितं कुर्वाणोऽन्यत् सर्वमपि विस्मरत्येव ननु ! प्रथमं तु शीघ्रगतिं ज्ञातुकामः सोऽभ्यासबलात् सप्ताहे एव शीघ्रतमगामिनः सामुद्रपक्षिणोऽपेक्षयाऽप्यधिकं ज्ञानं प्राप्तवान् । Page #15 -------------------------------------------------------------------------- ________________ W Vain Education International For Private Personal Use Only www jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ स पादसहस्रमूर्ध्वमुड्डीय स्वीयपक्षौ कठिनतयाऽऽस्फालयन् धूमकेतुवत् समरेखायामवतरणं कर्तुं प्रयतितवान् बोधितवांश्च यत् किमर्थं सागरपक्षिण ईदृशमवतरणं न कुर्वन्तीति । यतः केवलं षड्भिः क्षणैरेव स प्रतिघण्टं सप्ततिमाइल-मितां गतिं प्राप्तवान् । एतावती गतिरेव सामुद्रपक्षिणां दुर्लभा, तथा तावत्यां गतौ कोऽपि सागरपक्षी स्वीयपक्षौ समतया सन्धारयितुं न समर्थः । अयमपीदृशीमवस्थां वारं वारं प्राप्तवान् । अतीव सावधानतया यद्यपि स प्रायतत, तथापि निजसर्वसामर्थ्यमुपयुञ्जानोऽपि तावत्यां गतौ स नियन्त्रणाद् भ्रश्यति स्मैव। तथाऽपि पुनरपि स तमेव प्रयत्नमारभ्य 'काऽत्र क्षतिः स्वस्ये'ति अवबोद्धं प्रयतते स्म । पादसहस्रमारुह्य समग्रवेगेन सममुड्डयनं ततश्च पक्षावास्फाल्य समरेखमवरोहणम् । किन्तु, प्रतिप्रयत्नं प्रथमं तस्य वामपक्ष आघातेनाऽस्थिरो भूत्वा संकुचति स्म सोऽपि च प्रचण्डवेगेन तस्यामेव दिशि सभ्रमणमधोमुखतया पतति स्म । अथ किञ्चित् स्वस्थो भूत्वा दक्षिणपक्षेण प्रयतमानः तस्यां दिश्यपि वर्तुलाकारं भ्रमन्नग्निगोलकवद् विनिपतति स्म । अस्मिश्च पतने स आघातमसहमानः स्वस्थः सावधानश्च भवितुं न शक्नोति स्मैव । तथापि स प्रयत्नानावर्तयत्येव स्म। प्रायो दशवारं तेन तदेव कर्तुं प्रयतितं, किन्तु प्रतिप्रयत्नं स प्रतिहोरं सप्ततिमाइल्-मितं वेगं प्राप्याऽपि नियन्त्रणाद् भ्रष्टः सन् मथितपक्षसमूहवत् जले पतित एव। अन्ते गलद्विन्द्वान॒शरीर: सोऽचिन्तयद् यद् 'नूनमत्र कश्चिदुपायोऽन्वेष्टव्य एव, आम् ! ज्ञातं, मया महत्तमं वेगं प्राप्य पक्षौ स्थिरीकर्तव्यौ – प्रतिहोरं पञ्चाशत्माइल्-मितं वेगं यावत् पक्षौ चालयितव्यौ ततश्च स्थिरीकर्तव्यौ ।' अस्यां वेलायां स द्विसहस्रपादोन्नति प्राप्य प्रयत्नमारब्धवान् पञ्चाशत्माइल्-वेगं प्राप्य स चञ्चुपुटं नीचैःकृत्य पक्षौ च पूर्णतया प्रसार्य For Private Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ स्थिरीकृत्य च समरेखायामवतरणमारब्धवान् । एतावतैव तस्य महत्तमं सामर्थ्यमुपयुक्तमभवत् तथापि तस्य परिश्रमः सफलोऽभूत्। दशक्षणेष्वेव anस नवतिमाइल्वेगं प्राप्तवान् । सागरपक्षिष्वयं विश्वविक्रम एवाऽऽसीत् । Jain Education Interational तवान। सा. Page #18 -------------------------------------------------------------------------- ________________ किन्त्वेषा स्थिति व चिरायिता । यस्मिन् क्षणे स पक्षौ परावृत्य वक्रावर्तनं ग्रहीतुं प्रयतितवान् तस्मिन्नेव क्षणे स्वनियन्त्रणात् स्खलितः सन् भयानकवेगेनाऽधोमुखं तदेव पतनं प्राप्तवान् । इदं पतनं तु तावति वेगे ज्वलनशीलपदार्थस्य विस्फोटवत् अतिदारुणमासीत् । जोनाथन् वायावेव महाघातेनोत्पत्य प्रचण्डवेगेन सामुद्रे जले विनिपतितः । तावति वेगे च तज्जलमपि पाषाणायितम् । एतावता सर्वत्र तमः प्रसृतमासीत् । चन्द्रज्योत्स्नायां स समुद्रतलेऽवशतया तरति स्म । तस्य पक्षौ लोहमयाविव भारयुतौ सञ्जातौ किन्तु नैष्फल्यस्य भारस्तु तन्मानसे ततोऽप्यधिकतर आसीत् । 'यदीदं गुरुत्वं मां गभीरे जले मज्जयित्वा जीवनान्तं प्रापयेत् तदा वरम्' - स निराशतया चिन्तितवान् । यावता स जले मनाक् निमग्नस्तावत् अकस्मादेवैको विलक्षणो ध्वनिस्तदन्तः शून्यतयेव प्रादुर्भूतः, यथा - 'नूनमत्र नास्त्येव कोऽप्युपायः । सागरपक्षी अहमस्मि खलु ! । ममाऽपि प्रकृत्यैव काश्चिन्मर्यादा विद्यन्ते । यद्यहमेतत् सर्वं शिक्षितुमर्होऽभविष्यम् तदा मम मस्तिष्कमपि विकसिततरमभविष्यत्, यदि मया महावेगेनोड्डयितव्यमभविष्यत तदा मम पक्षावपि गरुडवत् श्येनवद् वा हुस्वावभविष्यताम्, तथा ममाऽऽहारोऽप्यन्य एवाऽभविष्यत् । नूनं पितुर्वचांसि सत्यान्येव । मया सर्वमप्येतन्मौयं विस्मृत्य गृहं समाजं च प्रतिनिवर्तितव्यम् । मम सीमितक्षमतयैव मया सन्तोषो धारणीयो यतोऽहमस्मि एकोऽल्पशक्तिकः सागरपक्षी......।' शनैः शनैः स ध्वनिविलीनोऽभवत्, जोनाथन् अपि तेन सह सम्मतो भूत्वा तमङ्गीकृतवान् । 'सागरपक्षिभी रात्रिस्तटे एव यापनीया' स स्मृतवान्, ततश्च 'अतः क्षणादेव मया सामान्यसागरपक्षिवदेव वर्तितव्यं जीवितव्यं च' इति सङ्कल्पमपि कृतवान् चिन्तितवांश्च यद् – 'ममाऽयं निर्णयः सर्वानपि तोषयितुमलं स्यात् ।' स श्रान्ततयैव नीलजला बहिरागत्य भूमिं प्रत्युड्डीनः । एतावता कालेन तेन यदल्पोच्छ्रयमुड्डयनं शिक्षितमासीत् तदर्थं स कार्तझ्यमनुभवन्नासीत् । For Private &17ersonal Use Only Page #19 -------------------------------------------------------------------------- ________________ 'किन्तु', स चिन्तितवान् - मम सर्वमपि गतमेव ननु ! । यन्मया शिक्षितं ज्ञातं च तत्सर्वमपि विफलमेव खलु ! मम सामर्थ्य विचारा उत्साहश्च निष्फला एव किल ! अहमपि सामुद्रपक्षिणामन्यतमोऽस्मि अतो मयाऽपि तैरिवैवोड्डयितव्यं ननु ! ... ।' एवंविधैर्विचारैर्व्याकुलो दुःखितश्च स प्रायः पादशतमुड्डीय तटं प्रति प्रस्थातुं पक्षौ कठोरतयाऽऽस्फालितवान् । पक्षिसमाजस्याऽन्यतमीभूय जीवितुं तेन यन्निर्णीतमासीत् तत् तस्य सुयोग्यतया प्रतिभाति स्म । अतः परं नूतना काऽपि जिज्ञासा तं बलात् किञ्चित् शिक्षितुं न प्रेरयिष्यति । अद्यप्रभृति जीवने किञ्चिदाह्वानमिव न भविष्यति ततश्च कदाचिन्नैष्फल्यमपि नैव प्राप्स्यते । नूनं तत् कियद् रुचिकरं चारु च यद् विचाराद्वाराण्येव पिहितानि स्युः ! निष्फलताया अन्धकारात्तटस्यौज्जवल्यं प्रति विसर्पणं तस्मै बहुरुचितम् । 'अन्धकारः !' स एव शून्यो ध्वनिस्तदन्तर्विजृम्भितः पुनरपि - 'सागरपक्षिणस्त्वन्धकारे नैव डयन्ते कदाचित् । !' जोनाथन् तु तत् श्रोतुमवधारयितुं वाऽवहितो नाऽऽसीत् । 'सुन्दरमेतद् वातावरणमस्ति' सोऽचिन्तयत् । 'शशिनस्तारकाणां च रश्मयः सामुद्रे जले प्रपोस्फुर्यन्ते, ते च पुना रात्रेरन्धकारे लघुदण्डदीपायन्ते, तथा सर्वमपि कियत् शान्तं स्थिरं शान्तिकरं च...' 'भोः ! प्रतिनिवर्तस्व...' पुनरपि स एव ध्वनिः समुत्थितः । 'सागरपक्षिणस्तमसि नैवोड्डयन्ते ! यदि त्वमप्यन्धकारे उड्डयनायाऽर्होऽभविष्यत् तदा तवाऽप्युलूकस्येव सक्षमे अक्षिणी अभविष्यताम् । तव मस्तिष्कं विकसिततरमभविष्यत्, तव पक्षावपि श्येनवद् हस्वावभविष्यताम् । एतेषामन्यतममपि त्वत्पार्वे नास्ति, तत्कथं..!!' अन्तःस्थो ध्वनिस्तं प्रेरितवान् । रात्रेनेऽन्धकारे मन्दमन्दे शीतलसमीरे च प्रसरति, पादशतोच्छ्ये उड्डयमानो जोनाथन् ध्वनिमिममवधार्य सहसा चित्ते चमत्कृति प्राप्य सन्तोषेणाऽक्षिणी 12 Page #20 -------------------------------------------------------------------------- ________________ निमीलितवान् । तस्य सर्वा अपि व्यथाः, सर्वाऽपि परिश्रान्तिः सर्वमपि च नैराश्यं व्यलीयन्त इव ! 'हुस्वौ पक्षौ !! श्येनवद् ह्रस्वौ ! ! अहो ! अयमेव त्वत्र प्रकट उपायः । कीदृश: कियांश्च मूर्खोऽहमासम् ! ममाऽपेक्षितौ ह्रस्वौ पक्षावेव केवलं, नाऽन्यत् किञ्चित् ! तदर्थं च मया मे दीर्घौ पक्षौ बहुसङ्कचितौ कृत्वा केवलं पक्षाग्रसाहाय्येनैव डयनीयं किल ! अहो ! ह्रस्वौ पक्षौ .... !' तस्योत्साह द्विगुणिततया जागृतः । पुनरपि प्रयत्नकरणाय स कटिबद्धो जातः । शीघ्रमेव स सहस्रद्वयं पादानामाकाशे आरूढः । ततः क्षणमात्रमपि पराजयस्य मृत्योभ्रंशस्य वा विचारमप्यकृत्वा स्वीयपक्षौ दृढतयाऽन्तः सङ्कोचितवान्, संकीर्णौ सूक्ष्मौ च तीक्ष्णपक्षाग्रावेव वायो प्रसार्याऽधोमुखं समरेखमवपतनमारब्धवान् । तन्मस्तकाग्रे तु प्रचण्डः पवनो गर्जति स्म । तस्य वेगोऽपि क्रमशोऽ वर्धततराम् । प्रतिहोरं सप्ततिर्माइल् ... नवतिः... शतं... विशं शतं ततोऽप्यधिकः ! ! किन्तु पुरा सप्ततेर्वेगेऽपि यद् विकर्षणं श्रमश्च तेनाऽनुभूतावास्तां तावीदृशे इयत्यपि च महावेगे नैवाऽनुभूतौ । ततः पक्षयोरीषदावर्तनेनैव सरलतया जलेऽवमज्जनं कृत्वोपरिष्टादगतः स चान्द्रज्योत्स्नायां तरङ्गेषु तरद् अग्न्यस्त्रगोलमिव प्रतिभाति स्म । पवनाघातान् सम्मुखीकुर्वन् ईषदक्षिनिमीलनं कृतवान् स स्वीयपराक्रमस्य साफल्येनाऽत्यन्तं सन्तुष्ट आसीत् । चत्वारिंशं शतं मम वेगः ! सोऽपि सर्वथा नियन्त्रित: ? अहो अहो ! यद्यहं पञ्चसहस्रपादोच्छ्रयादवपतेयं तदा मम वेगः कियान् भविष्यति ! !....' क्षणार्धपूर्वमेव कृता तस्य सर्वेऽपि सङ्कल्पाः प्रचण्डप्रभञ्जनेन दूरापनीता इव विस्मृतिगर्तायां विलीना: । 'स्वयं गृहीताया: प्रतिज्ञायाः स्वयमेव भङ्गः कृतः' इत्यपराधभावेन स नैराश्यं न प्रापत् यत: 'ईदृश्य: प्रतिज्ञास्तु तेषामेवाऽऽधारभूताः स्युर्ये सामान्यमेव स्वीकुर्वन्ति, ये तु ज्ञानोत्कर्षं जिज्ञासन्ते प्राप्नुवन्ति च तेषां कृते त्वेता अकिञ्चित्करा एवाSनावश्यकाश्चाऽपि' इति स चिन्तितवान् । Page #21 -------------------------------------------------------------------------- ________________ सञ्जाते प्रभाते स पुनरप्यभ्यासरतोऽभवत् । पञ्चसहस्रपादोच्छ्रयात्, नौकास्तु नीलजलधौ सूक्ष्मकणिका इव पक्षिसमूहश्च वर्तुलाकारं परिभ्राम्यन् रजोमेघ इव प्रतिभासन्ते स्म । एतत् सर्वं विलोकयन् जोनाथन् प्रत्यग्रचैतन्येनोल्लसन् आनन्दोत्साहाभ्यां स्पन्दमानो भयजयेन च गौरवमनुभवन्नवपतनाय सिद्धोऽभवत् । सहजतयैव स स्वीयपक्षौ शरीरान्तः सङ्कोचितवान् तीक्ष्णास्रयुतौ पक्षाग्रौ च बहिर्विस्तार्य निर्विलम्बमेव स जलधि प्रति अवप्लुतः । चतुःसहस्रपादानतिक्रामता तु तेन वेगस्य चरमसीमा प्राप्ता । यतो घनप्राकारीभूतस्य महाध्वनिमयस्य पवनस्याऽऽघातानां प्रभावात् स इतोऽप्यधिकं वेगं प्राप्तुं नाऽशकत् । समरेखायामेवाऽधोऽवतरतस्तस्य वेगस्तदानीं चतुर्दशाधिकं द्विशतं प्रतिहोरमासीत् । अतीव रुचिरम् !! किन्तु तदाऽप्यानन्दगण्डूषान् निगिरन् स सावधान आसीत् यद् 'यदि स्वल्पमपि तस्य पक्षौ विकसितौ भवेतां तदा तस्य शरीरं लक्षशः कणेषु परावर्तिष्यते' । एवं सत्यपि द्रुततमगतेरानन्दं सामर्थ्य शुद्धसौन्दर्यं चाऽपि समनुभवन् सोऽवतरति स्म।। अथ पादसहस्रोच्छ्रये तावति च वेगे प्रचण्डप्रभञ्जनेन तस्य पक्षाग्रौ थडथडायेते स्म । पक्षिसमाजो नौका च शनैः शनैस्तत्समीपमागच्छन्ति स्म । तदात्वे स्वं नियन्त्रितुमसमर्थः स तावति वेगे प्रत्यावर्तनं कथं ग्रहीतव्यमित्यपि निर्णेतुं नाऽशकत् । लेशमपि संघट्टनं मृत्योरामन्त्रणमासीत् !! अतः ... स दृढतंया नयने निमीलितवान् ! तस्मिन् प्रभाते घटितमेतत् ! क्षणार्धेनैव भक्ष्यान्वेषणरतानां सामुद्रपक्षिणां मध्यतः प्रक्षेपास्त्रमिव निसृत्य महावायोः पिच्छानां च गर्जदुत्क्रोशमनुभवन् स द्वादशाधिकशतद्वयवेगेन निमीलितनेत्र एव निर्गतः । भाग्यदेवताया अनुग्रहेणेव स न केनाऽपि संघट्टितो न वा काचिद् हानिरपि सञ्जाता । 14 Page #22 -------------------------------------------------------------------------- ________________ अक्षिणी उन्मील्य यावता तेन स्वीयचञ्चुर्गगने ऊर्ध्वकृता तदाऽपि स षष्ट्यधिकशतवेगेन डयमान आसीत् । तत ऊर्ध्वमुड्डयमानेन तेन शनै: शनैः स्ववेगो विंशतिर्माइल प्रतिघण्टं यावद् मन्दीकृत्य स्वीयपक्षौ विस्तारितौ तावता स चतुःसहस्रपादोच्छ्रये उड्डयमान आसीत् । तावदुच्छ्रयाच्च जलस्था नौकाऽपूपखण्डमिवाऽभासत । 15 Page #23 -------------------------------------------------------------------------- ________________ तस्य चैतन्यं साफल्योन्मादेनोल्लसितमासीत् । 'वेगस्य पर्यन्तावधिः ! सामुद्रो विहगः कश्चित् शतद्वयाधिकमाइल्-वेगेनोड्डीनः? सागरपक्षिणां गतिसीम्न उल्लङ्घनमिदम् ! !' स्वजातेरितिहासे ऐदम्प्राथम्येनोत्कर्षस्य महानवसरोऽनेनोपकल्पित आसीत्, स्वकृते चैको नूतनो युगः प्रारब्धः । स पुनरपि स्वाभ्यासक्षेत्रे समुत्पत्य अष्टसहस्रपादोच्छ्यात् अवपतनाय सन्नद्धो भूत्वा स्वीयपक्षौ सङ्कोचितवान् । अवपतनं कुर्वता वक्रः परावर्तः कथं ग्रहीतव्य इति ज्ञातुमुत्सुक आसीत् सः, अत एवेमं प्रयोगं समारब्धवान् । पक्षाग्रस्थितमेकमपि पिच्छं यद्यगुलांशामात्रमपि विसर्येत तदा महावेगेनाऽवपतताऽपि सरसः सरलश्च वक्रपरावर्तो ग्रहीतुं सुशक इति बोधात् पूर्वमेव स एतदपि ज्ञातवान् यद् यदि तावति वेगे एकाधिकानि पिच्छानि सञ्चार्येरन् तर्हि तद् राइफल्निसृतगुलिकावच्छरीरं भ्रामयति। विविधान् वायवीयव्यायामप्रयोगान् कृत्वा एवंविधान् तथ्यान् स्वानुभवेन जानन् जोनाथन् सामुद्रविहगेषु सर्वप्रथम आसीत् । तस्मिन् दिने सोऽन्यैः खगैर्वार्तालापेन समयव्ययमकृत्वाऽऽसायमुड्डयनप्रयोगानेवाऽचेक्रीयत । तत्र च मुख्यतया पाशाकारेण अधोमुखं पतनं, मन्दवेगेन सञ्चरता चक्राकारेण पतनं, महता वेगेन वर्तुलाकारं पतनं, विपर्यस्तचक्राकारेण पतनमित्यादय आसन् । Page #24 -------------------------------------------------------------------------- ________________ Page #25 -------------------------------------------------------------------------- ________________ Page #26 -------------------------------------------------------------------------- ________________ Page #27 -------------------------------------------------------------------------- ________________ समुद्रतटे रात्रि यापयितुं यदा स समाजेन सम्मीलितस्तदा तन्मस्तकं घूर्णमानमासीत् शरीरं च परिश्रान्त्याऽत्यन्तं क्लान्तमासीत्, तथाऽप्यानन्दातिरेकेण स चक्राकारं परिभ्राम्यन्नेवाऽवतीर्णः । 'यदा मदीयाः स्वजना ज्ञातिजनाश्च मे पराक्रमान् साहसानि च ज्ञास्यन्ति', स चिन्तितवान्, 'तदा तेऽप्यानन्दोल्लसिता नतिष्यन्ति । केवलमुदरपूरणाय नौकासु सामुद्रसेतुषु चाऽर्थहीनं भ्रमणं परस्परं च कलहकरणमतिरिच्याऽपीदानीं जीवने किञ्चित् प्रयोजनमस्ति । कियत् सुभगम् ! अद्यप्रभृति वयं स्वमज्ञानान्धतमस उत्थाप्य श्रेष्ठताया प्रज्ञाया नैपुण्यस्य च निर्मले प्रकाशे सञ्चारयितुं समर्थाः स्मः, स्वातन्त्र्यं प्राप्तुमर्हाः स्मः, महाकाशे चोडयितुं शक्ताः स्मः । इतः परं सर्वस्याऽपि पक्षिजगतो भावि उज्जवलमुन्नतं च ! !' यदा स भूमिं स्पृष्टवान् तदा सर्वोऽपि सागरपक्षिसमाजः सम्मील्य वृद्धानामग्रणीनां च नेतृत्वे पर्षदि उपविष्ट आसीत् । नूनं सर्वेऽपि ते प्रतीक्षारता अभासन्त । 'जोनाथन् लिविंग्स्टन् पक्षिन् ! सभामध्ये आगत्य उत्तिष्ठ !' ज्येष्ठस्तं गभीरस्वरेणोच्चैरादिशत् । 'सभामध्ये उत्तिष्ठ' इति वाक्यं प्रयोजनद्वयमेवाऽभिव्यक्ति, अतिलज्जास्पदं वा कृत्यमधिकृत्याऽतिगौरवास्पदं कार्यमधिकृत्य वा' सोऽचिन्तयत् । 'यदाऽग्रगण्यानां पक्षिणां सम्मानं कर्तव्यं तदा ते गौरवेण सभामध्ये आकार्यन्ते । यद्यप्यद्य प्रातराशवेलायां तैर्मम पराक्रमा दृष्टा एव, परन्तु नाऽहं सम्माननकाम्योऽस्मि नाऽपि मम नेतृत्वाभिलाषोऽस्ति । नवरं, यत्सर्वमहं महता परिश्रमेणोपलब्धवान् तत्र सर्वानपि सहभागिनः कर्तुमिच्छामि, अस्माकं क्षितिजानि कियद् विस्तरीतुमर्हन्ति तदेवाऽहं सर्वेभ्यो ज्ञापयितुमिच्छामि...'। . 'जोनाथन् लिविंग्स्टन् ! सभामध्ये आगत्य तव बन्धूनां समक्षं लज्जया उत्तिष्ठ !' ज्येष्ठोऽगर्जत् । Page #28 -------------------------------------------------------------------------- ________________ एतस्य श्रवणमात्रेण स मस्तकोपरि वज्राघातमिवाऽन्वभवत्, तत्पादौ वेपेते स्म, पक्षौ लोहेन मर्दिताविव शिथिलीभूतौ, कर्णौ च पक्षिणामाक्रोशशतैः पूरितौ। 'लज्जास्पदतया पर्षन्मध्ये उपस्थापितोऽहम् !, अशक्यमिदम् !!, मम पराक्रामानवबोद्धुमक्षमा एते नूनं भ्रान्ताः ... भ्रान्ताः ... ! !' स्तब्धतया स चिन्तयन्नासीत्, तत्परितश्च समग्रमपि वातावरणं पक्षिणामाक्रोशैरुपालम्भैश्च व्याप्तमभवत् '... तवाऽविचारिततयोत्तरदायित्वभङ्गाय... सागरपक्षिणां कुलशोभायाः परम्परायाश्चोल्लङ्घनाय...!' सभामध्ये लज्जासमेतमुत्थाप्य कस्यचिदीदृशं भर्त्सनं नाम सागरपक्षिणां समाजात् तस्याऽऽजीवनं बहिष्करणं तटाच्च दूरवर्तिषु भृगुषु एकाकितया निर्वासनम् !! '... एकदा तवाऽपि भानं भविष्यति जोनाथन् ! यद् - उत्तरदायित्वाद् भ्रंशनं न कदाऽपि लाभप्रदं भवति । जीवनं त्वस्माकं सर्वथाऽज्ञातमज्ञेयमेव च, नवरं वयं त्वत्र जगति केवलमुदरपूरणाय, यावज्जीव्यते तावच्च जीवनायाऽवतीर्णाः स्मः', - ज्येष्ठस्तमुपालभत् । यद्यपि समाजस्य पर्षदि ज्येष्ठस्य च समक्षं न कोऽपि सागरपक्षी प्रत्युत्तरं ददाति कदाचिदपि, किन्त्वद्य जोनाथन् निर्भीकतयोत्तेजितो भूत्वाऽगर्जत् - 'उत्तरदायित्वभ्रंशः? कस्य ? बन्धवः ! यो जीवने एकं सार्थकमुच्चं च प्रयोजनमाविष्करोति तदर्थं च प्रयतते तादृशात् सागरपक्षिणोऽपि कोऽधिक उत्तरदायी ? ... युगसहस्रेभ्यो वयं मत्स्यखण्डलुण्टनार्थं युध्यमाना म्रियामहे । परन्तु अद्याऽस्माभिर्जीवनं जीवितुमुत्तमं ध्येयं प्रयोजनं च प्राप्तमस्ति - ज्ञानं, प्रयोगाः, स्वातन्त्र्यञ्च । मया यत् किञ्चिदपि उपलब्धं तदहं भवद्भ्यो संदर्शयितुमिच्छामि, कृपया मदर्थमवसरं वाऽप्येकं कल्पयन्तु ...! !' किन्तु समाजः पाषाणमय इव सञ्जातः आसीत् । '... अस्माकं सम्बन्धः पूर्णो भवति...' पक्षिणोऽवदन् । ततः समकालमेव सर्वेऽपि कर्णौ पिधाय पृष्ठं परावर्तितवन्तः । For Private Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ शेषं जीवनं तेनैकाकितयैव यापयितव्यमासीत्। परं स दूरवर्तिभृगुभ्योऽपि सुदूरप्रदेशेषु उड्डयनाभ्यासमनुवर्तितवान् । एकान्तवासस्तं सर्वथा नाखेदयत्, किन्तु उड्डयनस्य भव्यतामोजस्वितां च स्वीकर्तुं विश्वसितुमुपलक्षितुं वाऽपि समाजेन यन्निषिद्धं, नेत्रे उन्मील्य निरीक्षितुमपि यत्तैर्नोत्सहितं तत् तं भृशमुद्वेजयति स्म । एवं सत्यपि प्रतिदिनं सोऽधिकाधिकं ज्ञातुं शिक्षितुं च प्रयतते स्म । स्वीयप्रयोगैः सोऽवगतवान् यद् वेगयुतेन प्रवाहसम श्रेणिकेनाऽवमज्जनेन सामुद्रप्रवाहाद् दशपादमधःस्थमपि स्वादु भक्ष्यमन्वेष्टुं ग्रहीतुं च सर्वथा सुकरमिति । इत: परमुदरपूरणार्थं तस्य धीवरनौकानां पर्युषितान्नखण्डानां वाऽपेक्षा सर्वथा नाऽऽसीत् । तथा सूर्यास्तमनसमयादारभ्य सूर्योदयपर्यन्तं सामुद्रमारुतेन सहैव माइल्शताधिकं विहरन् स उड्डयमान एव निद्रां ग्रहीतुं शिक्षितवान् । एवमेव यदाऽन्ये सामुद्रपक्षिणो वर्षा-शैत्यादिकं सहमाना निःसहायतया सागरतटेऽवस्थिता भवेयुस्तादृशीमपि सामुद्रीं गाढमिहिकामतिक्रम्य स तदुपरिष्टात् स्फुरत्प्रभं निरभ्रं स्वच्छं चाऽऽकाशतलमारोहति स्म । महावातेषु झञ्झावातेषु च स सर्वथा निर्भीकतया सुदूरवर्तिषु पर्वतीयान्तरप्रदेशेषु गच्छति स्म यत्र तस्य स्वादु भोजनं सौकर्येणोपलभ्यते स्म । एतत् सर्वमपि स स्वीयान्तरप्रेरणयाऽऽत्मसंयमेन चैव ज्ञातवान् शिक्षितवांश्च । एवं च यत् सर्वं स स्वीयबन्धुभ्योऽपि प्रापयितुमैच्छत् कदाचित् तत् तेनैकेनैव केवलमिदानीं प्राप्तम् । अद्य स उड्डयनस्य स्वामी आसीत्, एतदर्थं च तेन यन्मूल्यं दातव्यमभवत् तस्य खेदलेशोऽपि तन्मनसि नाऽऽसीत् । जोनाथन् - पक्षी अनुभवेन ज्ञातवान् यद्- नीरसता, भयं क्रोधश्च सामुद्रपक्षिणामल्पायुषः मुख्यनिमित्तान्यासन्- अतः स स्वीयान्त:करणांद् दोषानेतान् निर्मूल्य दीर्घकालं यावत् उत्तरोत्तरमूर्ध्वभवन् सुन्दरं निरामयं च जीवनं यापितवान् । For Private &22ersonal Use Only Page #30 -------------------------------------------------------------------------- ________________ Page #31 -------------------------------------------------------------------------- ________________ Page #32 -------------------------------------------------------------------------- ________________ तौ सायंकाले समागतौ, स्वस्य चाऽतीव प्रिये आकाशे प्रशान्ततया विसर्पन जोनाथन् एकाक्येव ताभ्यामुपलब्धः । तस्य पक्षान्तिकमेव प्रकटितयोस्तयोः पक्षिणोः पक्षौ तारकप्रकाशवदुज्ज्वलौ आस्तां, ततश्च निर्गच्छत् तेजोऽपि रात्रेर्मदुले समीरे सौम्यं मैत्रीपूर्णं चाऽभासत । किन्तु सर्वेभ्योऽपि रुचिरंतु तयोरुड्डयनकौशलमासीत् । तौ निरन्तरं नैयत्येन च जोनाथन्-पक्षाग्रादगुलमात्रान्तरेणैवोड्डयेते स्म। निःशब्दमेव जोनाथन् तौ परीक्षितुमारभत । तस्य परीक्षामद्यपर्यन्तमपि कोऽपि सागरपक्षी उत्तरीतुं समर्थो नैवाऽऽसीत् । स सहसैव स्वपक्षौ आवाऽत्यन्तं मन्दगतिकोऽभवत् । तौ द्वावपि जाज्वल्यमानौ पक्षिणौ तेन सहैव गति मन्दीकृत्य मृदुलतया विसर्पितवन्तौ । यतस्तावपि मन्दं मृदु चोड्डयनं ज्ञातवन्तौ ननु ! . तदनन्तरमेव स स्वपक्षौ सङ्कोच्य शरीरं च लोठयित्वा नवत्यधिकशतमाइल्-वेगेनाऽवपतनमारभत । अतौ द्वावपि तेन सममेव विना स्खलनमवपतितौ । जोनाथन् तु तस्मिन्नेव वेगे दीर्घायां समरेखायां वर्तुलाकारां भ्रमि कुर्वन् उड्डीनः, तदैतौ द्वावपि स्मितस्मेराननौ विनाऽऽयासं तमनुकृतवन्तौ । ततः स समतले उड्डयने प्रतिनिवृत्त्य कञ्चित् कालं तूष्णीं स्थित्वा कथितवान् – 'भव्यम् ! अथ कौ भवन्तौ ?' 'भवतः सजातीयावेवाऽऽवाम् । भवतो बन्धू आवाम् ।' तौ दृढेनाऽपि सौम्यस्वरेणोक्तवन्तौ । 'आवां भवन्तमुच्चस्तरं नेतुं, भवतो गृहं प्रति नेतुमागतौ स्वः...'। 'गृहं मम किमपि नास्ति भोः !, जातिरपि नास्ति काचित् । बहिष्कृतोऽहं समाजादस्मि । किञ्च, इदानीमेव वयं महापर्वतीयपवनस्य शिखरोपरि उड्डयमानाः स्मः । कतिचित्पादशतेभ्योऽप्यूर्वं मम जराजर्जरितं देहमुन्नेतुं नाऽहं शक्तोऽस्मि ।' 25 Page #33 -------------------------------------------------------------------------- ________________ 'भवान् अवश्यं शक्त एव जोनाथन् !, यतो भवान् सुशिक्षितोऽस्ति । अपि च, भवत इहत्यिकमध्ययनं समाप्तम्, इतः परं त्वन्यस्यां शालायां भवतोऽध्ययनवेला सन्निहिताऽस्ति । सन्नद्धो भवतु शीघ्रम् ' । येन बोधेन तस्य समस्तमपि जीवनं प्रकाशितमभवत्, स एव बोधो तस्यैनं क्षणमपि उज्ज्वलप्रकाशमयमकरोत् । तौ युक्तमेव वदतः स्म यदितोऽप्यूर्ध्वतरं स उड्डयितुं क्षम एव । तथा वेलेयमपि स्वगृहगमनायोचितैव। स तदाकाशं तां च भव्यां रजतवर्णां पृथ्वीं, यत्र स भूरिज्ञानं प्राप्तवान् आसीत्, अन्तिमवारं निरीक्षितवान् । 'अहं सिद्धोऽस्मि' प्रान्ते सोऽवदत् । अथ च सागरपक्षी जोनाथन् लिविंग्स्टन् ताभ्यां तारकोज्ज्वलाभ्यां पक्षिभ्यां सहोड्डीय गाढतमोमये आकाशेऽदृश्यः सञ्जातः । 26 Page #34 -------------------------------------------------------------------------- ________________ Page #35 -------------------------------------------------------------------------- ________________ Page #36 -------------------------------------------------------------------------- ________________ Page #37 -------------------------------------------------------------------------- ________________ Page #38 -------------------------------------------------------------------------- ________________ द्वितीयः खण्डः Page #39 -------------------------------------------------------------------------- ________________ 'अहो ! इदमेव स्वर्गं ननु !' जोनाथन् चिन्तितवान्, अनुक्षणमेव च स्वं हास्यास्पदमनुभूतवान् । दिव्यभूमौ प्रथमपदन्यासस्य समकालमेव यदि कश्चित् तां विवेचयितुमारभते तदा तत् कथं शोभास्पदं भवेत् ? पृथिव्या निर्गतः स यावत् शुभ्रवर्णानां मेघानामुपरिष्टाद् विसर्पन् ताभ्यां तेजस्विभ्यां पक्षिभ्यां सार्धमत्र प्राप्तस्तावदेव सोऽन्वभवद् यत् तस्य शरीरमपि ताविव तेजस्वि प्रकाशमयं च भवितुमारब्धमस्ति । यद्यपि तयोः स्वर्णमयनयनयोः पृष्ठतस्तु स एव चिरयुवा जोनाथन् - पक्षी स्पन्दते स्म तथापि तस्य बाह्यस्वरूपं तु परावर्तितमेव । 'एतत् शरीरं सागरपक्षिशरीरवदेव यद्यपि प्रतिभाति स्म तथाऽपि पूर्वतनशरीरादिदमतीव समीचीनतयोड्डयते स्म ।' 'अथ चाऽर्धेनैव परिश्रमेणाऽहं पूर्वतनाद् वेगाद् द्विगुणितं वेगं प्राप्स्ये' सोऽचिन्तयत्, 'पृथिव्यां प्राप्तेनोत्तमवेगेनाऽपि द्विगुणितं वेगम्...' । शनैः शनैस्तस्य पिच्छानि शुभ्राण्यौज्ज्वल्येन च भ्राजमानानि सञ्जातानि, पक्षावपि चाऽतीव स्निग्धौ रूप्यमयाविव च सुन्दरौ सञ्जातौ । स स्वीयनूनपक्षविषयकमधिकं ज्ञानं प्राप्तुं तौ चाऽधिकशक्तिसम्पन्नौ कर्तुं सोल्लासं प्रारभत । प्रतिघण्टं सार्धशतद्वय-माइल्-वेगे सोऽनुभूतवान् यदियं तस्य समतलोड्डयनस्याऽधिकतमा गतिरस्ति । तथाऽपि वेगं वर्धयन् स पादोनत्रिशतवेगे ज्ञातवान् यदितोऽपि अधिकवेगस्य सम्भावनैव नास्ति । एतेन स नितरां हताशोऽभवत् । यद्यप्यनेन शरीरेण स पुरातनादुत्तमवेगादप्यत्यधिकं वेगं प्राप्तवानासीत्, तथाऽपि अस्य नूतनशरीरस्याऽपि शक्तेर्मर्यादाऽऽसीदेव । अनया च मर्यादया बद्धेन तेनोत्तमां कोटि प्राप्तुं महताऽऽयासेनाऽपि दुःशकमासीत् । 'ननु स्वर्गे तु काचिन्मर्यादा नैव स्यात् खलु !' सोऽचिन्तयत् । एतावता मेघा विकीर्णाः, 'शुभावतरणं जोनाथन् !' इति शुभेच्छां दत्त्वा च तस्य संरक्षकौ सूक्ष्मे पवनेऽन्तहितौ । For Privateg2Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ इदानीं स जर्जरीकतटोपशोभितस्य समुद्रस्योपरिष्टाद् उड्डयमान आसीत् । भृगुषूड्डयनप्रयोगान् कुर्वाणा: केचन सागरपक्षिणस्तेन निरीक्षितास्तथा केचनोत्तरस्यां दिश्यपि क्षितिज एवोड्डयमाना दृष्टाः । नूतनानि दृश्यानि... नूतना विचाराः ... नूतनाश्च प्रश्नाः ... ! 'किमर्थमियदल्पा: पक्षिणोऽत्र? स्वर्गे तु पक्षिणां सम्मर्दः स्यान्ननु ! तथा, किमित्यहमतीव श्रान्तिमनुभवामि? स्वर्गे तु कदाचिदपि कश्चित् पक्षी श्रान्तिं नाऽनुभवेत् नाऽपि स्वपेत् खलु ! !' एतत् सर्वं तेन कुत्र श्रुतमासीत् ? पार्थिवजीवनस्य स्मृतयस्तन्मानसात् शनैः शनैर्विलीयमानान्यासन् ! पृथिव्यामेव स प्रभूततरं शिक्षितवानासीद् यद्यपि, किन्तु इदानीं तस्य विवरणानि विस्मृतप्रायानि सञ्जातानि ... उदरपूरणाय कृतः सङ्घर्षः, समाजाद् बहिष्करणम्... । समुद्रतटे उपदशाः सागरपक्षिणस्तं मीलितुं समागताः आसन्, किन्तु निःशब्दम् ! तेनेदमेवाऽनुभूतं यत् तस्य स्वागतं क्रियमाणमस्ति तथैतदेव तस्य गृहमस्तीति । तद् दिनमपि तेनाऽतीव दीर्घमनुभूतं, तावद्दीघु यत् तस्य तदीयः सूर्योदयोऽपि स्मृतिपथं नाऽऽगच्छति स्म । तटेऽवतरणाय स स्वशरीरं किञ्चिदिव परावर्त्य अङ्गुलमात्रं स्वपक्षावास्फालितवान्, ततो मृदुतया तटीयसिकतायामवातरत् । अन्येऽपि पक्षिणस्तत्सहितमेवाऽवतीर्णाः, परं नैकतमोऽपि तेषां मनागपि स्वपक्षौ स्पन्दितवान् । अत्युज्ज्वलौ स्वपक्षौ वायावेव विकोच्याऽऽन्दोलनं कृतं तैः। ततः कथञ्चिदपि स्वपक्षौ परावर्त्य यावत् ते स्थिरा अभवन् तावद् विनाऽऽयासमेव तेषां पादौ भूमिं स्पृष्टवन्तौ । अद्भुतं प्रभुत्वमासीत् तेषाम् ! किन्तु इदानीं जोनाथन् अत्यन्तं श्रान्त आसीत्, अतो विना वचनमेव स यत्र स्थित आसीत् तत्रैव गाढं निद्रितवान् । *Jagged Shoreline 33 Page #41 -------------------------------------------------------------------------- ________________ Page #42 -------------------------------------------------------------------------- ________________ दिनेषु गच्छत्सु, जोनाथन् स्वनिरीक्षणेनाऽवगतवान् यद् - अतीते जीवने यथोड्डयनविषये प्रभूतं ज्ञातव्यं शिक्षितव्यं चाऽऽसीत् तथैवाऽत्राऽपि वर्तते, किन्त्वत्र वैशिष्ट्यमिदमस्ति यदत्रत्याः पक्षिणस्तस्येवैव विचारशीला वर्तन्ते । सर्वेषामपि तेषामुड्डयनकलैवाऽतीवाऽभीष्टाऽऽसीत् । सा कला व्यापकतया शिक्षणीया तत्र च परिपूर्णता प्राप्तव्येत्येव तेषां जीवनस्य सर्वोपरि ध्येयं समासीत् । सर्वेऽपि ते पक्षिणोऽतितेजस्विनः श्रेष्ठाश्चाऽऽसन् । तथा प्रतिदिनं तेऽत्यद्यतनीय-वैज्ञानिकोड्डयनपद्धतीः परीक्षमाणाः स्वीयं सर्वाधिकं समयमुड्डयनाभ्यास एव यापयन्ति स्म । उड्डयनानन्दं प्रति सर्वथाऽक्षिनिमीलकानां तथोदरपूरणाय परस्परं कलहकरणायैव च स्वपक्षावुपयुञ्जानानां पुरातनानां निजबन्धूनां चिरकालाय जोनाथन् नैव स्मरति स्माऽपि, किन्तु इदानीं तु यदा कदापि क्षणार्धं वा स तान् स्मरति स्म । एकस्मिन् प्रभाते स्वीयप्रशिक्षकेण सह सङ्कोचितपक्षतया त्वरितगत्या वर्तुलाकारमुड्डयनप्रयोगान् कृत्वा समुद्रतटे विश्राम्यतस्तस्य सर्वमपि तत् स्मृतिपथमायातम् । 'सर्वेऽपि कुत्र सन्ति सलीवन् ! ?' स स्वप्रशिक्षकं मौनमेव पृष्टवान् । अत्रत्याः सर्वे पक्षिणो कर्कशारावानकृत्वा मनसैव परस्परमालापं सौकर्येण कुर्वन्ति स्म । जोनाथन् अपि तत् शिक्षितवान् आसीत्। 'इतोऽप्यधिकाः पक्षिणोऽत्र कुतो न दृश्यन्ते ? यतोऽहमागतस्तत्र तु बहवः ...' ।। 'भोः ! ... सहस्रशः सागरपक्षिणोऽहं जानामि' सशिरोधूननं सलीवन् अवदत् । ‘परं भवतः प्रश्नस्यैक एवोत्तरोऽस्ति यद् भवान् लक्षेष्वपि अद्वितीयोऽस्ति । भवादृशः साहसिक उत्तमश्च पक्षी लक्षेष्वपि सागरपक्षिषु एको वा कदाचित् सम्भवेत् । अस्माकमधिकतमाः पक्षिणस्तु चिरकालेनाऽत्यन्तं मन्दगत्या चेह प्राप्ताः सन्ति । वयमेकजन्मतस्तत्सदृशमेवाऽन्यज्जन्म, एकस्माल्लोकात् तत्सदृशमेवाऽन्यं लोकं तथा बम्भ्रमिता यथा न ज्ञातवन्तो यत् कुतो वयमिहाऽऽगताः स्मः, न For Private Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ चिन्तिततवन्तो यत् कुत्र वयं प्रस्थिताः, केवलं तादात्विकसुखाभासरता वयं तत्तत्क्षणेष्वेव जीविताः । उदरपूरणात् कलहाद् नेतृत्वप्रापणादपि किञ्चिदधिकमपि जीवनेऽस्तीति ज्ञानमस्माकं कतिजन्मनामनन्तरं जातं तद् भवान् कथं जानीयात् खलु ? शतशो जन्मानि, जोनाथन् ?, नहि नहि, सहस्रशो जन्मानि तज्ज्ञातुं व्यतीतानि । पूर्णताभिधानाऽपि किञ्चिद् वस्तु जीवनेऽस्तीति भानं तु ततोऽपि जन्मशतानन्तरं जातम् । तथा जीवनस्य ध्येयं तु परिपूर्णता प्राप्तिरस्ति - इति ज्ञातुमन्येभ्यश्च बोधयितुमन्यान्यपि जन्मशतानि व्यतीतानि । अथ चेहाऽप्यस्मदर्थं स एव नियमोऽस्ति यदस्मिन् जीवने यद् वयं शिक्षेमहि तदाश्रित्यैवाऽस्माकमागामि जीवनं निश्चीयते । यदि किञ्चिदपि न शिक्षेमहि तदा भावि विश्वमपि एतत्तुल्यमेव भविष्यति - समाना एव मर्यादाः ! समानानि च बन्धनानि ।' 'किन्तु जोन!' स पक्षौ प्रसार्य पवनसम्मुखो भूत्वा चोक्तवान्,' 'भवान् त्वेकस्यामेव वेलायां तावत् शिक्षितवान् अभ्यस्तवांश्च यद् भवताऽत्र प्राप्तुं सहस्रशो जन्मानि व्ययितव्यानि नाऽभवन् ।' ततः पुनरपि तौ वायावुत्प्लुत्योड्यनाभ्यासरतावभवताम् । इदानीं तेनाऽऽकाशे एव विविधा दोलाः कर्तव्या अभवन् । ताश्च कठिनतमा आसन् यतस्तासामधस्तनेऽ(शे तेन स्वप्रशिक्षकेण सहैवैकाकारतया स्वपक्षावर्तं विपर्यास्याऽधोमुखतया चिन्तयितव्यमासीत् । 'पुनरपि प्रयतेवहि' इति वदन् सलीवन् वारं वारं तस्यैवाऽभ्यासमनुवर्तितवान् । प्रान्ते 'बाढम्' इत्युक्त्वाऽन्यत्र प्रयोगे तं नियोजितवान् । 36 Page #44 -------------------------------------------------------------------------- ________________ Page #45 -------------------------------------------------------------------------- ________________ अन्यदा रात्रौ, निश्यनुड्डयमानाः खगाः समुद्रतटे विचारमग्ना: स्थिता आसन् । तावता जोनाथन् स्वीयं सर्वमपि धैर्य सञ्चित्य सर्वेभ्यो वयोवृद्धस्य ज्येष्ठस्य च सागरपक्षिणः पार्वेऽगच्छत् । सोऽचिरादेव लोकमिमं त्यक्त्वाऽन्यस्मिल्लोके गन्ता इति वार्ता तद्विषये प्रचलिताऽऽसीत् । ' च्यांग् ! ...' स किञ्चिद् भीत इवाऽवदत् । 'आम् वत्स !' स्थविरस्तं स्निग्धदृष्ट्याऽवलोकयन् आकारितवान् । वयःपरिणामेनाऽपि तस्य सामर्थ्य वृद्धिमेव प्राप्तमासीत् न तु हासम् । उड्डयने ऊर्ध्वारोहणे च स सर्वानपि पक्षिणोऽतिशेते स्म, तथा यदन्येषां सुचिरमभ्यासेनाऽपि दुष्प्रापमासीत् तत्र तेन सुनैपुण्यं प्राप्तमासीत् । 'च्यांग् ! अदो जगत् स्वर्गं तु नास्ति खलु ?' जोनाथन् पृष्टवान् । कौमुद्यां मधुरं स्मितं कुर्वन् ज्येष्ठोऽवदत् - 'अहो ! भवान् पुनरपि शिक्षितुमारब्धः !' 'आम् सत्यम्, किन्तु इतोऽप्यग्रे किं भवति ? कुत्र वा गमिष्यामो वयम् ? स्वर्गं नाम किञ्चित् स्थलं तु नास्त्येव खलु !!' । 'नैव जोनाथन् !, तादृशं किमपि स्थलं नैव विद्यते । स्वर्ग स्थलकालयोः सीम्नि नास्त्येव । पूर्णत्वप्राप्तिरेव स्वर्गं भोः !' च्यांग उदतरत् । 'भवांस्तु महावेगेनोड्डयते न वा?' क्षणं तूष्णीभूय च्यांग् अपृच्छत् । किञ्चित् क्षुब्धोऽपि 'ज्येष्ठेन निध्यात' इति गौरवमनुभवन् जोनाथन् 'अहं ... अहं वेगं प्रीणामि' इत्युक्तवान् । 'भोः ! यस्मिन् क्षणे भवान् पूर्णवेगं प्राप्स्यसि तस्मिन्नेव क्षणे भवान् स्वर्गे भविष्यसि । किन्तु जोनाथन् ! पूर्णवेगो नाम न माइल्-सहस्रं माइल्-लक्षं वा प्रतिहोरं वेगः, न वा प्रकाशगत्याऽप्युड्डयनम् । यतः सङ्ख्या नाम सीमा। पूर्णत्वस्य तु सीमैव नास्ति । पूर्णवेगः - पूर्णगतिर्नाम इदानीमत्र चैव भवितव्यम्' च्यांग् तमबोधयत् । Page #46 -------------------------------------------------------------------------- ________________ अथ च सहसैव च्यांग् अदृश्यो जातः क्षणार्धेन च पञ्चाशत्पादान्तरे जलसमीपेऽदृश्यत । ततश्च सहस्रतमे क्षणांशे एव जोनाथन्-पार्वे समागतः । 'क्रीडामात्रमिदं भोः !' सोऽवदत् । जोनाथन् तु विस्मयमूढो जातः । स्वर्गगोचरान् स्वप्रश्नान् सर्वथा विस्मृत्य 'ज्येष्ठ ! कथमिदं कुरुते भवान् ? एतत् कीदृगनुभूयते? एवं च कति दूरं भवान् गन्तुं क्षम: ?' इत्यादिप्रश्नानामावलिमेव प्रस्तुतवान् । 'जोनाथन् ! भवान् यत्र कुत्राऽपि स्थले काले वा जिगमिषुस्तत्र सर्वत्र सर्वदा च गन्तुं समर्थः । अहं तु, यद्यत् स्थलं यश्च कालो मया विकल्पितस्तत्र सर्वत्र सर्वकालं चाऽहं गतोऽस्मि' च्यांग् अकथयत् समुद्रोपरि दृष्टिपातं कृत्वा चाऽनुवर्तितवान् – 'ननु विचित्रमिदम् । ये सागरपक्षिणः पूर्णत्वमुपेक्ष्य प्रवसन्त्येव केवलं ते कुत्राऽपि गन्तुं न प्रभवन्ति । ये च प्रवासमेकतः कृत्वा पूर्णत्वमेव प्राप्तुं यतन्ते ते तु क्षणमात्रेणैव यत्र तत्र सर्वत्राऽपि गन्तुं समर्थाः । स्मरतु सदैतत् यत् - स्वर्गं नाम न स्थलं नैव कालो वाऽपि । यतः स्थल-कालौ तु सर्वथा निरर्थकौ । स्वर्गं तु ...' 'किं भवान् मामपीदृशमुड्डयनं शिक्षयेद् वा?' मध्ये एव जोनाथन् पक्षी अन्यदपि अज्ञातमाक्रान्तुमुत्तेजितोऽभवत् । 'सुतरां, यदि भवान् शिशिक्षिषेत् !' च्यांग् अवदत् । 'अहं त्विच्छाम्येव, कदा प्रारभेवहि ?' 'अधुनैव !' एतच्छ्रुत्वा जोनाथन्-पक्षिणोऽक्षिणी विस्मयस्मेरे अभवताम् । 'अहो ! धन्योऽहम् । कथ्यतां कृपया, किं कर्तव्यं मया ?' तरुणं जोनाथन्-पक्षिणं स्निग्धदृष्टयाऽवलोकयन् च्यांग् अतीव मृदुतयाऽवदत् - 'यत्र कुत्रचिदपि चिन्तनानुगुणवेगेनोड्डयितुं भवता “अहं सर्वथा तत्र प्राप्तोऽस्मि" इति जानतेव प्रारब्धव्यम् । अत्र युक्तिस्त्वेषा For Private Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Page #48 -------------------------------------------------------------------------- ________________ यत् प्रथमं भवता - निजास्तित्वं द्वाचत्वारिंशदङ्गुलमित-पक्षविस्तारयुते देहे बन्दि अस्ति तथा स्वक्षमता कस्मिंश्चिदुड्डयनावधौ परिमिता कस्याञ्चित् सङ्ख्यायां वाऽङ्कनीया वर्तते इति सर्वथा विस्मर्तव्यम् । तत एतज्ज्ञातव्यं यत् स्वीयमूलप्रकृतिस्त्वनुल्लिखितसङ्ख्यातुल्या स्थलकालयोश्च सीमानमुल्लङ्घ्य सर्वत्र सर्वदा च व्याप्ताऽस्ति । अथैतत् साधयितुं जोनाथन् निरन्तरतया तीव्रप्रयत्नानारभत । प्रत्यहं सूर्योदयादारभ्य मध्यरात्रं यावत् स दृढतया च्यांग्-कथितोपायसाधने निमग्नोऽभवत् । किन्तु प्रयत्नशतैरपि स स्वस्थानात् पक्षाग्रमात्रमपि सञ्चरितुं नाऽशकत् । च्यांग्-पक्षी तं पुनः पुनः प्रेरयति स्मोत्साहयति स्म च, 'भो जोनाथन् ! श्रद्धां सर्वथा विस्मरतु । नाऽत्र श्रद्धाऽपि कार्यसाधिका । यथा भवान् उड्डयनार्थं श्रद्धां नाऽपेक्षितवान् किन्तूड्डयनस्य सम्पूर्णावबोधमेवाऽपेक्षितवान् तथैवाऽत्राऽपि ज्ञानमेव कार्यसाधकम् । इदानीं पुनरपि प्रयतताम्...' अथ चैकदा समुद्रतटे नयने निमील्यैकाग्रं संस्थितो जोनाथन् सहसा विद्युतः प्रस्फुरणवत् समग्रमपि च्यांग्-कथनं समग्रतयाऽवबुद्धवान् । 'अहो ! ननु सत्यमेवैतत् ! अहमस्मि एकः परिपूर्णः सीमाहीन: सागरपक्षी !!' स तीव्रमानन्दाघातमनुभूतवान् । For Private 4 Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ 'उत्तमम् ! !' च्यांग् अवदत् । तस्य शब्दे च विजयो ध्वन्यते स्म । जोनाथन् नेत्रे उन्मीलितवान्, तावत् स्वं ज्येष्ठेन सहैकाकिनमेव कस्मिंश्चिद् सर्वथा भिन्न एव समुद्रतटे संस्थितं प्राप । तत्र वृक्षा जलधारां संस्पृश्य स्थिता आसन् गगने च सुवर्णवर्णों द्वौ सूर्यो परिक्रामतः स्म । 'आह् ! अन्ते साधितं तद् भवता ।' च्यांग् उक्तवान्, ‘परं तस्य दायसम्पादनार्थमितोऽप्यभ्यास आवश्यकः...' 'आवा कुत्र स्वः ?' दिङ्मूढो जोनाथन् अपृच्छत् । अपरिचितवातावरणेन सर्वथाऽप्रभावित: च्यांग मृदुलैः शब्दैरुदतरत् – 'आवामन्यस्मिन् ग्रहे स्वो यत्र नभो हरितवर्णमस्ति रवेः स्थाने च ताराद्वयमस्ति ।' आनन्दितो जोनाथन् उच्चैर्हर्षघोषं कृतवान्, पृथ्व्या आगमनानन्तरमैदम्प्राथम्येन स ध्वनिमिमं कृतवानासीत् 'अहो सिद्धमेतत् !!' 'सुतरामेतत् सिद्धं जोन !' , च्यांग् अवदत्, ‘एतत् सर्वदा सिध्यत्येव, यदा भवान् जानाति यत् “किमहं कुर्वन्नस्मि" । इदानीं तस्य दृढीकरणम्...' यदा तौ प्रतिनिवृत्तौ तदा गाढं तमः प्रसृतमासीत् । अन्यैः पक्षिभिस्तु भयमिश्रितादरेण जोनाथन् अवलोकितः, यतस्तैः सर्वैः चिरकालमेकत्र स्थितोऽपि स सहसाऽदृश्यीभवन् दृष्ट आसीत् । सर्वैः सम्मील्याऽभिनन्दितोऽभिवादितश्च स नम्रतयाऽवदत् - 'अहो ! भवन्तः सर्वेऽपि मत्तो ज्ञानवृद्धाः सन्ति । अहं तु नूतनो विद्यार्थी प्रारम्भकश्चाऽस्मि । मया हि भवद्भयः सकाशात् प्रभूतं शिक्षितव्यं वर्ततेऽद्याऽपि।' तावता समीपे स्थितः सलीवन् उक्तवान् - 'जोन ! भवद्विषयेऽहं सदाऽप्याश्चर्यमुग्धोऽस्मि । यतो मया दशसहस्रेषु वर्षेष्वपि भवादृशः पक्षी न दृष्टः कदाचिद्, यस्य नूतनान् अज्ञातांश्च प्रदेशानाक्रान्तुं For Private 42ersonal Use Only Page #50 -------------------------------------------------------------------------- ________________ भयलेशमपि न विद्यते।' सर्वेऽपि पक्षिणो मौनेन स्वसम्मति सूचितवन्तः, जोनाथन् तु लज्जया सङ्कुचितोऽभवत् । अथ च, च्यांग् तमवदत्, 'आवां कालं जेतुं प्रयोगान् कर्तुमारभेवहि यदि भवान् इच्छति । एतेन भवान् अतीतानागतौ कालावपि विहर्तुं शक्ष्यति । ततश्च भवान् सर्वेभ्योऽपि कठिनतमं, सर्वेभ्यो बलवत्तमं, सर्वतश्च रुचिकर कार्य प्रारब्धं सिद्धो भविष्यति । तथैवोर्ध्वतममुड्यनाय, निर्मलप्रेम्णो निर्व्याजकरुणायाश्चाऽन्तस्तत्त्वं ज्ञातुं योग्यो भविष्यति ।' एको मासो व्यतीतोऽथवा तादृशं किञ्चिद् जातं यन्मासतयाऽनुभूतम् । जोनाथन् अतीव वेगेन शिक्षितुमारब्धः । पूर्वमपि हि स सामान्यैरनुभवैरपि प्रभूततरं शीघ्रतरं च शिक्षितुं समर्थ आसीत् । इदानीं तु स ज्येष्ठस्य प्रियशिष्य आसीत्, अतः स उड्डयमानं पक्षयुतं च सङ्गणकयन्त्रमिवाऽविलम्बमस्खलितं च नवनवान् पाठान् विचारानुपायांश्च स्वसात् कृतवान् । एतावता च्यांग-पक्षिणो गमनवेला समागता । सर्वैः पक्षिभिः सह स्निग्धतया मृदुतया च संवदन् स सर्वानपि तान्, निरन्तरं ज्ञानार्जनार्थम्, अभ्यासार्थं च प्रयत्नान् अनुवर्तयितुं प्रेरितवान् । तथा जीवनस्य योऽज्ञातोऽदृश्यश्चाऽपि परिपूर्णः सिद्धान्तोऽस्ति तं यथार्थतया यथाधिकं चाऽवबोधनायोद्यमयितुमुत्साहितवान् । एवं वदतस्तस्य पक्षौ नितरां तेजोमयौ सञ्जायमानौ प्रान्ते तथा तेजस्विनौ जातौ यथा न कोऽपि पक्षी तमवलोकयितुं द्रष्टुं वाऽपि शक्तोऽभवत् । तस्याऽन्तिमाः शब्दा इमे आसन्, 'जोनाथन् ! प्रेमसाधनायां सर्वदा प्रवरीवृत्त्यतां भवान् !' यावत् पक्षिणस्तं द्रष्टुं प्रायतन्त तावत् सोऽन्तहित आसीत् । For Private 24Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Page #52 -------------------------------------------------------------------------- ________________ गच्छत्सु दिनेषु, यतः स्वयमागत आसीत् तस्याः पृथिव्या विषये जोनाथन् वारं वारं चिन्तितवान् । यथा, 'यदत्राऽद्य चाऽहं जानामि तस्य दशांशं शतांशं वाऽपि ज्ञानं यदि मया तत्र प्राप्तमभविष्यत् तदा मम तत्रत्यं जीवनं कियदर्थपूर्णमभविष्यत् ? साम्प्रतमपि तत्र कश्चित् सागरपक्षी भविष्यत्येव यः स्वस्य बन्धनानि सीमानश्चोल्लङ्घयितुं सङ्घर्षवान् स्यात् । यस्य मनसि चोड्डयनस्य सार्थक्यं केवलमुदरपूरणायैव न भवेत् । तथा कश्चित् तादृशोऽपि पक्षी स्यात् यः सत्यकथनापराधेन पक्षिसमुदायाद् बहिष्कृतोऽपि स्यात् ।' यथा यथा जोनाथन् अधिकाधिकं करुणाविषयकान् पाठानभ्यस्तवान् यथा च प्रेम्णः स्वरूपं प्रकृति चाऽधिकतयाऽवबोद्धं प्रायतत, तथा तथा तस्य पृथिवीप्रतिनिवर्तनाभिलाषाऽधिकतयोत्कटाऽभवत् । यद्यपि स्वीयमतीतं तेन तत्रैकाकितयैव यापितमासीत् तथाऽपि तस्य मूलप्रकृतिस्तु प्रशिक्षकस्यैवाऽऽसीत् । तथा, स्वयं भूरिपरिश्रमेण या सत्यानुभूतिः प्राप्ता तस्यांऽशमात्रमपि कस्मैचिज्जिज्ञासवे सत्यप्राप्तेश्चाऽवसरगवेषकाय सागरपक्षिणे दातव्यमिति तस्याऽन्यान् प्रति स्वीयप्रेम्णः प्रकटनस्य रीतिरासीत् । किन्तु, इदानीं चिन्तनानुगुणवेगेनोड्डयने निष्णातोऽन्येभ्यश्च तच्छिक्षणार्थं साहाय्यं कुर्वाणः सलीवन् अत्र विषये साशङ्क आसीत् । 'जोन ! यत्समाजाद् भवान् बहिष्कृतोऽस्ति तस्मिन् समाजेऽपि किं तादृशः कश्चित् पक्षी स्यात् यो भवद्वचनानां श्रवणे आदरवान् स्यात् ? अथवा, 'ये पक्षिण ऊर्ध्वतममुड्डयन्ते त एव दूरतमं पश्यन्ति' इतीदमाभाणकं भवता श्रुतमेव स्यात् । यतो भवानागतस्तत्र तु पक्षिणो भूमावेव स्थित्वा कर्कशविरावैः परस्परं कलहायमाना अवतिष्ठन्ते । स्वर्गात् तु ते सहस्रशो योजनानि दूरे वर्तन्ते । जोन ! ये पक्षिणो निजपक्षाग्रमपि द्रष्टुमक्षमास्तान् भवान् भूमितः स्वर्गं दिदर्शयिषति ? अत्रैव तिष्ठतु भवान्, ये चाऽत्राऽऽगता नूतनाः पक्षिणो भवतो बोधप्राप्तिमर्हन्ति तेषां साहाय्यं करोतु ।' क्षणमेकं तूष्णीभूय पुनरपि Page #53 -------------------------------------------------------------------------- ________________ सोऽवदत्, 'अपि च, भोः ! यदि च्यांग्पक्षी अपि स्वस्य पुरातनलोकेषु न्यवर्तिष्यत तदा भवतो गतिरद्य काऽभविष्यदित्यपि चिन्तयतु ।' 'ननु सत्यमयं वक्ति । यदि च्यांग नाऽभविष्यत् तदा.... । तथेदमपि सत्यमेव यद् ये ऊर्ध्वतममुड्डयन्ते ते दूरतमं पश्यन्ति ।' जोनाथन् तत्रैव स्थितः तेजस्विनः शीघ्रग्राहिणश्च नवागन्तुकान् पक्षिणः शिक्षयितुमारब्धः । किन्तु तस्य चेतसि सैव पुरातनी भावना वारं वारमुद्भवति स्म । सोऽचिन्तयद् यद् 'ननु तत्र पृथ्व्यां द्वित्रास्तादृशाः पक्षिणः स्युरेव ये उच्चशिक्षणाय समर्था भवेयुः । यदाऽहं समाजाद् बहिष्कृतस्तदिन एव यदि च्यांग्पक्षी माममिलिष्यत् तदाऽहं कियद् ज्ञानं प्राप्स्य म्....!!'। प्रान्ते सोऽकथयत्, 'सली ! मयाऽवश्यं गन्तव्यम् । भवतो विद्यार्थिनः सुष्ठु शिक्षमाणाः सन्ति । नवागन्तुकान् शिक्षयितुं भवतः साहाय्यं कर्तुं च ते समर्था एव ।' सलीवन् यद्यपि प्रतिवादं नाऽकरोत् तथापि दीर्घ निःश्वस्याऽवदत् - 'जोनाथन् ! भवतोऽनुपस्थितिर्मामतितरां व्यथयिष्यति ।' 'सली ! लज्जास्पदमेतत् !!' जोनाथन् तमुपालभत, 'मूर्खत्वं माऽऽचारीः !! वयं प्रत्यहं किमभ्यस्यामः? यद्यस्माकं मैत्री स्थल-कालयोरधीना भवेत् तदा स्थल-कालौ जयद्भिरस्माभिरस्माकं बन्धुत्वमेव विनाशितं स्यात् । यदा वयं स्थल-कालौ जयामस्तदा यदवशिष्यते तदस्ति 'अत्र' 'अधुना' च । तथा 'अत्र-अधुना' इत्येययोर्मध्ये तिष्ठन्तो वयमन्योन्यं सकृद् द्विर्वा द्रक्ष्याम एवेति श्रद्धा किं भवतो नास्ति वा?' दुःखेऽपि हसन् सलीवन् अवदत् - 'अहो तरङ्गिखग ! भूमौ स्थित्वा यदि कश्चिद् कस्यचिद् योजनसहस्रदूरं दर्शयितुं समर्थस्तदा स जोनाथन् लिविंग्स्टन् पक्षी एव ।' ततोऽधः पश्यन्नेव सः, 'शुभयात्रा भो जोन ! मम वयस्य ! ......। For Private 46ersonal Use Only Page #54 -------------------------------------------------------------------------- ________________ 'धन्यवादाः सली ! पुनर्मिलिष्यावः ....' । ततो जोनाथन् अन्यकालीने समुद्रतटे स्थितानां विशालसामुद्रपक्षिसार्थानां चित्रकल्पनं कृत्वा सुचिराभ्यासित्वाद् विना क्लेशमन्वभवत् यत् स स्वयं केवल पक्षास्थ्नोः समूहो न भूत्वा स्वातन्त्र्यस्योड्डयनस्य च परिपूर्णो निःसीमश्च विचारोऽस्ति यः केनाऽपि अवरोद्धं न क्षमः । For Priva478 Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Page #56 -------------------------------------------------------------------------- ________________ फ्लेचर् लिण्ड् यद्यप्येकस्तरुणः सागरपक्षी आसीत्, किन्तु समाजस्य नैष्ठुर्यमन्यायितां च स सुतरामनुभूतवान् आसीत् । 'किल कदाचिदपि केनाऽपि पक्षिणा सह तदीयसमाजेनेत्थं तु नैव व्यवहृतं स्यात् !' स चिन्तितवान् । तस्य चित्ते कोपविस्फोट इव सञ्जातः । 'ते यत्किमपि कथयन्तु नाम, अहं तन्नैव गणयामि ।' दूरवर्तिनो भृगून् प्रति उड्डीनस्य तस्य दृष्टिर्बाष्पजलेन मलिनिताऽन्तःकरणं चाऽऽक्रोशशतैर्ज्वलितमिव । 'इतस्ततः कूर्दनात् पक्षास्फालनाच्चाऽप्यधिकं बह्वस्ति शिक्षणीयमुड्डनीयं च । एह्... तत् तु मशकोऽपि करोति । ज्येष्ठसम्मुखं. परिहासरूपेणैव केवलं वर्तुलाकारेणोड्डीनं, तावताऽहं समाजादेव बहिष्कृतः !! किं तेऽन्धलाः सन्ति ? किं ते द्रष्टुमपि न शक्ता: ? किं ते चिन्तयितुमपि न प्रभवन्ति यद् यदा वयं पूर्णतयोंड्डूयनं शिक्षिष्यामहे तदा कीदृश आनन्दः कीदृशी कीर्तिश्च प्राप्स्यते ? नूनं ते जडा एव सन्ति । मद्विषये ते किं चिन्तयन्ति तदहं नैव परिलक्षये । किन्तु उड्डयनं नाम किम् ? - इत्येतदहं तेभ्योऽवश्यं दर्शयिष्यामि । तथा यदीयमेव तेषामपेक्षा तर्ह्यहं सर्वथाऽनैतिको भविष्यामि । यथा च तेषां पश्चात्तापः स्यात् तथाऽहं करिष्यामि.....' 49 Page #57 -------------------------------------------------------------------------- ________________ स ध्वनिस्तस्य मस्तकान्तरेवोत्थितः । यद्यप्यतीव मृदुलः स आसीत् तथाऽपि तेनाऽत्यन्तमाश्चर्यचकितोऽसौ स्खलनं प्राप्य वायावेव लुठितुमारब्धः। 'मा कार्षीराक्रोशं तेषु फ्लेचर पक्षिन् ! भवतो बहिष्करणेन यदि परं तेषामेव हानिः ! एकदा त इदं ज्ञास्यत्येव । एकदा च ते तद् द्रक्ष्यन्त्येव यदद्य भवान् पश्यति । क्षाम्यतु तान्, सत्यबोधनार्थं च तेषां साहाय्यं करोतु ।' तस्य दक्षिणपक्षादङ्गलमात्रदूर एव जगतोऽपि सर्वोत्कृष्टौज्ज्वल्ययुतः कश्चन सागरपक्षी विनाऽऽयासमेवाऽऽकाशे संसरन् आसीत् । एकमपि पिच्छं सर्वथाऽचालयन्नपि स फ्लेचर्पक्षिण उत्कृष्टं वेगमतिशेते स्म । तस्य तरुणपक्षिणश्चित्तं विकल्पशतैः संक्षुब्धमिव । 'किमेतत् सञ्जायमानमस्ति? किमुन्मत्तोऽहं जातः? मृतो वा? किमेतत् सर्वम् ?.....' प्रशान्तो मधुरश्चैको ध्वनिः प्रत्युत्तरमपेक्षमाण इव तस्य चेतनाया अन्तस्तले प्राविशत्- ‘फ्लेचर लिण्ड् सागरपक्षिन् ! किं भवान् उड्डयितुमिच्छति ?' 'आम् अहम् इच्छामि।' 'किं भवान् तावदुद्दयितुमिच्छति येन भवान् स्वसमाजं क्षमयेत्, उच्चशिक्षणं प्राप्नुयात्, पुनरपि च तेषां मध्ये गत्वा तान् सत्यमवबोद्धं साहाय्यं कुर्यात् ?' यद्यपि फ्लेचर पक्षी अत्यन्तं गर्विष्ठाऽन्तर्व्यथितश्चाऽऽसीत् तथापि ईदृशस्य भव्यस्य दक्षस्य च सत्त्वस्याऽग्रेऽलीकभाषणस्याऽवकाश एव नाऽऽसीत् तस्य । 'आम् अवश्यम् !!' स मृदुतयोदतरत् । 'तर्हि फ्लेच!', स तेजस्वी पक्षी स्निग्धस्वरेण तमकथयत्, 'आगच्छतु, आवां समान्तरोड्डयनेनाऽऽरभेवहि.....' For Private soersonal Use Only Page #58 -------------------------------------------------------------------------- ________________ Page #59 -------------------------------------------------------------------------- ________________ Page #60 -------------------------------------------------------------------------- ________________ तृतीयः खण्डः Page #61 -------------------------------------------------------------------------- ________________ सुदूरवर्तिभृगूणामुपरिष्टात् शनैः शनैः परिभ्राम्यन् जोनाथन् फ्लेचर्पक्षिणं निरीक्षमाण आसीत् । तरुणः फ्लेचर् पक्षी रूक्षोऽप्येक आदर्श उड्डयनविद्यार्थी आसीत् । पवने स बलवत्तरो लघुकः शीघ्रगामी आसीत् तथापि विशेषतस्तु तस्योड्डयनशिक्षणाय तीव्रोत्कण्ठाऽऽसीत् । एकस्मिन् तीव्र उत्प्लवनप्रयासे सार्धशतमाइल-वेगं प्राप्य, स्वीयशिक्षकस्य पार्वान्निर्गच्छन् सहसा सोऽन्यस्मिन् प्रयोगे स्वं विनियोजितवान् । स षोडशवर्तुलयुतं पतनमारभ्य सहैवोच्चस्वरेण गणनां कुर्वाणः प्रयोग-मनुवर्तितवान् । '....अष्टमं .....नवमं ..... दशमं .....पश्यतु जोनाथन् ! अहं वायोरपि शीघ्रतरमुड्डयनं कुर्वन्नस्मि..... एकादशं ..... किन्त्वहं भवत इव समीचीनान् तीक्ष्णविरामानपीच्छामि..... द्वादशं .....किन्त्वहो ! कर्तुं न पारयामि..... त्रयोदशं ........ केवल त्रीण्यवशिष्टानि.... चतुर्दशं.... आऽऽऽऽ !! .......' अत्युच्छ्ये प्रभुत्वभ्रंशेन सहसाऽपसरणाद् गतिभ्रष्टः प्रस्खलितश्च स पृष्ठतः पतित्वाऽकस्मादेव विपर्यस्तावर्तेनाऽधोमुखतया विनिपतितुमारब्धः । ततो महता प्रयत्नेन कथमपि तस्माद् विनिवृत्तो रक्षितश्च स श्वासकृच्छ्रमनुभवन् स्वीय प्रशिक्षकात् पादशत-मधस्तादुड्डयमानः स्थिरोऽभवत्। एवं प्रस्खलननेन स्वस्मै एवोग्रतया कुपितः स खिन्नो भूत्वा दुःखोद्गारान् प्रकटितवान्, 'भो जोनाथन् ! भवान् स्वसमयं वृथैव मत्कृते व्ययति । किन्त्वहमस्मि सर्वथा मूढो मूर्खश्च । मन्ये, प्रयत्नशतैरपि तद् नैव प्राप्नुयाम् !!' जोनाथन् अध उड्डयमानं तं दृष्ट्वोपालब्धवान् सशिरोधूननं, 'भो ! यावद् भवान् तद् मृदुतया नैव करिष्यति तावद्भवता तत्र साफल्यं नैव प्राप्स्यते । तथा फ्लेच ! चत्वारिंशन्माइल्-प्रतिहोरं वेगं तु भवानारम्भ एव विगमितवानासीत्, तत् कथं....। अस्तु, पुनरपि करोतु । किन्तु भवता For Private 54ersonal Use Only Page #62 -------------------------------------------------------------------------- ________________ तद् मृदुतयैव कर्तव्यं न कर्कशतया, दृढता भवतु किन्तु मृदुतोपेता, अवगतम् ?' ततः स फ्लेचर्पक्षिण उड्डयनस्तरेऽवतीर्य तं प्रेरितवान्, 'आगच्छतु भोः ! पुनरप्यारम्भत एवाऽऽवां सहैव तत्प्रयोगं साधयावः । अस्य प्रवेशोऽतीव मृदुः सरलश्चाऽस्ति । केवलमुत्पतने सावधानो भवतु ।' 55 Page #63 -------------------------------------------------------------------------- ________________ Page #64 -------------------------------------------------------------------------- ________________ मासत्रयस्याऽन्ते त्वन्येऽपि षट् पक्षिणो जोनाथन्पक्षिणो विद्यार्थितां प्रतिपन्नाः । सर्वेऽपि ते समाजाद् बहिष्कृता आसन्, तथापि केवलमुड्डयनानन्दप्राप्त्यर्थमेवोड्डयनस्य नूतनोऽयं विचारस्तेषां मनःसु सुबहु कुतूहलमजनयत् । यद्यप्येतेषामुच्चतरप्रयोगाणामभ्यासस्तेषां कृते सरल आसीत्, तथापि तेषां रहस्यं मूलं प्रयोजनं चाऽवगन्तुं ते इतोऽपि समर्था नाऽऽसन् । 'वस्तुतस्तु प्रत्येकं सागरपक्षिणि महासागरपक्षिण एव स्वरूपं निहितमस्ति, स्वातन्त्र्यस्य निःसीमं स्वरूपम् !' जोनाथन् रात्रिषु स्वविद्यार्थिनो बोधयति स्म; 'यथार्थं समीचीनं चोड्डयनमस्माकं सत्यस्वरूपस्य प्रकटीकरणाय सोपानमेवाऽस्ति । यत् किमपि अस्मान् बध्नीयादवरुन्ध्याद् वा तत्सर्वमेकतः कर्तव्यम् । तदर्थमेव चैते शीघ्रगतिकोडयनमन्दगतिकोड्डयनवायवीयव्यायामादिप्रयोगाणामभ्यासः ....' ......आदिनमुड्डयनाभ्यासैः श्रान्तास्तद्विद्यार्थिनस्तु सर्वमेतत् शृण्वन्तः एव निद्राधीना भवन्ति स्म । तेभ्य एते प्रयोगा सर्वथाऽरोचन्त यतस्तेषु वेग आसीत्, उत्तेजना आसीत्, तथा सर्वेऽप्येते प्रयोगाः प्रत्येकमुड्डयनेन सहोत्पद्यमानां वर्धमानां च नवनवां जिज्ञासां शिशिक्षिषां च सन्तोषयन्ति स्म । किन्तु विद्यार्थीपक्षिणामेषमेकतमोऽपि - यावत् फ्लेचर्लिण्ड्पक्षी अपि, विचारा अपि पवनस्य पक्षयोश्चोच्छ्यमुच्चत्वं च प्राप्तुं शक्ताः, इत्यत्र श्रद्धावान् नासीत् ।। 'वाम-दक्षिणपक्षाग्रयोर्मध्ये व्याप्तं यद् भवतां शरीरमस्ति', अन्यदा जोनाथन् तान् बोधयति स्म, 'तद् भवतां विचार एव केवलं - मूर्तस्वरूपेण दृश्यतया च परिणतोऽस्ति । यदि भवन्तो स्वविचारस्य बन्धनानि त्रोटयन्ति तदा भवतां शरीरबन्धनान्यपि स्वयमेव त्रुट्यन्ति.....'। यद्यपि जोनाथन् सर्वथा गभीरतयाऽकथयत् सर्वमिदं तथाऽपि विद्यार्थिभ्यस्तु तत् केवलं विस्मयकारिणी मनःकल्पिता च परीकथेव प्रतिभाति स्म, तथैतच्छ्वा तेऽधिकं स्वतुमिच्छन्ति स्म । For Private 57Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ एकमासानन्तरं जोनाथन् उक्तवान् यद्, 'बन्धवः ! इदानीं समाजे प्रतिनिवर्तनस्याऽवसरः प्राप्तोऽस्ति ।' । 'किन्तु वयं न सिद्धास्तत्र गन्तुम् !' हेन्री काल्विन् अकथयत्, 'तत्राऽस्माकं स्वागतं नास्ति, प्रवेशोऽपि नास्ति, यतो वयं बहिष्कृताः स्मः। यत्राऽस्माकं स्थानं मानं वा न स्यात् तत्र किमर्थं वाऽस्माभिर्गन्तव्यम् ?' 'वयं यथेप्सितुं विहर्तुं यथास्वं च भवितुं सर्वथा स्वतन्त्राः स्मः भोः !' इत्युक्त्वा जोनाथन् समुद्रतटादुड्डीय पूर्वदिशि च परावृत्य पक्षिसमाजस्य निवासस्थानं प्रति प्रस्थितः ।। एतेन तस्य विद्यार्थिनां मनःसु विक्षोभ इव सञ्जातः । यतो - य एकदा समाजाद् बहिष्कृतः स्यात् स कदाऽपि समाजे पुनरागन्तुं नैवाऽर्हति - इति समाजस्य नियम आसीत् । प्रायो दशसहस्रवर्षेभ्यो न केनाऽप्यस्य नियमस्य भङ्गः कृतः । नियमो वदति 'नाऽऽगन्तव्यम्', किन्तु जोनाथन् वदति स्म, 'आगच्छन्तु !', एतावता च जोनाथन् समुद्रोपरि माइल्-दूरं गतवानासीत् । यद्येते इतोऽप्यधिकं कालं यापयेयुस्तदा जोनाथन् एकाक्येव निष्ठुरं समाजं प्राप्नुयात् । 'ननु यदि वयं समाजस्य सभ्या एव न स्याम तर्हि किमर्थमस्माभिस्तस्य नियमाः पालनीयाः ?', फ्लेचर पक्षी स्वीयभानेनोक्तवान् । 'किञ्च यदि योद्धव्यं भवेत् तदा इतोऽपि वयं तत्रैव भृशमुपयोगिनो भवेम।' अथ च, सर्वेऽपि तेऽष्टौ पक्षिणस्तस्मिन् प्रभाते वज्राकारपङ्क्तौ परस्परं पक्षान् समाच्छादयन्तः प्रतीचीत उड्डीय समाजं प्रति प्रस्थिताः, जोनाथन्पक्षिणो नेतृत्वमनुसरन्तश्च ते १३५माइल्-वेगेन समाजो यत्र निवसति स्म तस्मिन् समुद्रतटे समागताः । जोनाथन्पक्षिणो दक्षिणपार्श्वे फ्लेचलिण्डपक्षी आसीत् वामतश्च तेजस्वी हेन्री काल्विन् आसीत् । सर्वेऽपि ते पवनाघातान् विषहमाणाः - एकः समान्तरः, एको विपर्यस्तः, एकः समान्तरः - इति क्रमेण, दक्षिणतः संसृताः । For Private personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Page #67 -------------------------------------------------------------------------- ________________ एतद् दृश्यं दृष्ट्वा सर्वोऽपि सामुद्रपक्षिणां समाजः स्तब्धो जातः । नित्यं वर्तमाना विरावाः कर्कशकूजनानि च स्थगितानि । अष्टौ सहस्रं नेत्राणि तद् द्रष्टुमनिमेषाणि सञ्जातानि । इत एकैकशोऽष्टावपि पक्षिणस्तीक्ष्णावर्तेनोर्ध्वमुखीभूय पूर्णपाशाकारेण च सर्वत उड्डीय शनैः शनैः समुद्रतटेऽवतीर्णाः स्थिताश्च । ततश्च दैनन्दिनकार्यक्रमोऽयमेव यथा स्यात् तथा सहजतया तटसिकतायां जोनाथन्पक्षी स्वीयमुड्डयनविषयकं समालोचनं प्रारब्धवान् । 'अद्य उड्डयनारम्भे...', स व्यङ्गमिश्रितस्मितं कुर्वन्नुक्तवान्, 'भवन्तः सर्वेऽपि किञ्चिद् विलम्बिता जाताः.....' 60 Page #68 -------------------------------------------------------------------------- ________________ Page #69 -------------------------------------------------------------------------- ________________ तडित्पात इवैते शब्दा: समाजे प्रसृताः । ' ... अहो ! एते तु बहिष्कृता: पक्षिणः ! प्रतिनिवृत्ता !! किन्तु... किन्तु कथमेतत् सम्भवेत् ?....' फ्लेचर्पक्षिणो युद्धविषयिकी सन्धारणा समाजस्याऽसामञ्जस्ये विलीनाऽभवत् । 'ननु भवन्तु नामैते बहिष्कृताः पक्षिणः, किन्तु पृथिव्याः कस्मिन् भागे ते ईदृशमुड्डयनं शिक्षितवन्त: ?' केचिद् युवपक्षिणो विस्मिततया पृष्टवन्तः । ज्येष्ठादेशप्रसरणे तु होरामित: कालो व्यतीतः, 'उपेक्षध्वं तान्, य: कश्चिदपि तैः सह वार्तालापं करिष्यति स स्वयमेव समाजाद् बहिष्कृतो भविष्यति । यश्च तान् दृष्टिपातेनाऽपि सम्भावयति स समाजस्य नियमं भनक्ति ।' तत्क्षणमेव धूसरवर्णपक्षयुतानि पृष्ठानि जोनाथपक्षिणः सम्मुखं संस्थितानि । किन्तु जोनाथन् सर्वेथैतद् अलक्षयन्निव तटवर्तिनि संसद्भूमावेवाऽभ्यासं प्रयोगांश्च प्रावर्तयत् । अद्य ऐदम्प्राथम्येन स स्वशिष्यान् तेषां क्षमतां पूर्णतयोज्जागरयितुं साग्रहमन्वरुणत् । आकाशे डयमानः स उद्घोषं कृतवान्, 'भो मार्टिन्पक्षिन् ! भवतोक्तमासीद् यद् “अहं मन्दगतिकमुड्डयनं जानामि ", किन्तु यावद् भवान् तन्न निदर्शयेत् तावद् भवतो वचोऽप्रमाणमेव । उड्डयतां तावत् !! ' कनिष्ठो मार्टिन्विलियम् पक्षी 'स्वप्रशिक्षकस्याऽऽदेशार्होऽहं जातः ' इत्याश्चर्याघातमनुभवन्नुड्डयनं प्रारभत, क्षणार्धेन तु स विलम्बितगतिकोड्डयने ऐन्द्रजालिकायितः । मन्दानिललहर्यामपि पक्षलेशमप्यनास्फाल्य पिच्छानि च परावर्त्याऽतीव सारल्येन स भूमेराकाशमाकाशाच्च भूमिं गतप्रत्यागतं कर्तुं समर्थः आसीत् । एवमेव चार्ल्सोर्लेन्ड् पक्ष्यपि महापर्वतीयपवनधारायां चतुर्विंशतिसहस्रपादोर्ध्वमुड्डीय तत्रत्यं च शीतलं प्रतनुं च समीरणमनुभूय वेगेन प्रतिनिवृत्तः, किन्तु विस्मयमुग्ध: प्रफुल्लितश्च । सहैव, 'अत: परमितोऽ प्यूर्ध्वं गमिष्यामीवाति सङ्कल्पमपि कृतवान् सः ।' I 62 Page #70 -------------------------------------------------------------------------- ________________ अनन्यसदृशमाकाशीयव्यायामान् प्रीणन् फ्लेचरपक्षी षोडशवर्तुलयुतमवपतनं सहजतयाऽसाधयदद्य । द्वितीयदिने च तेन सहैव चक्रत्रयाकारमवपतनं कृत्वा श्रेष्ठतामसाधयत् । प्रतिहोरं जोनाथन् विविधप्रयोगान् निदर्शयन्, सूचनानि कुर्वाणः, प्रेरकवचनानि कथयन्, मार्गदर्शनं च कुर्वन् प्रत्येकं स्वशिष्याणां पार्वे एवाऽवतिष्ठति स्म । तथा तैः सार्धमेव दिवा रात्रौ वा वर्षायां झञ्झानिलेषु चाऽपि वाऽऽनन्दार्थमेवोड्डयते स्म । समाजस्तु तदा सर्वकालमपि किंकर्तव्यमूढतया निरुपायतया च सर्वमपि पश्यन् तटे तिष्ठति स्म । 63 Page #71 -------------------------------------------------------------------------- ________________ Page #72 -------------------------------------------------------------------------- ________________ Page #73 -------------------------------------------------------------------------- ________________ रास्तु तैरवबास नैव प्रविन, किन्तु वासस्म। प्रत्यहमुड्डयनानन्तरं तटे विश्राम्यतो विद्यार्थिनो जोनाथन् बोधयति स्म । तेऽपि चाऽत्यन्तमवहिततया तं शृण्वन्ति स्म, किन्तु तस्य केचिद् विचित्रविचारा एतेषां मानसे नैव प्रविशन्ति स्म, यद्यपि, केचित् सुन्दरविचारास्तु तैरवबुध्यन्ते स्म चाऽपि । शनैः शनैः रात्रिषु विद्यार्थिनां वर्तुलाद् बहिरन्यदपि वर्तुलं सञ्जनितुमारब्धम् । परस्परमन्येषां दृष्टपथमागन्तुमनिच्छवो बहवो जिज्ञासवः सागरपक्षिणो जोनाथन्पक्षिणो वचांसि सूचनानि च श्रुत्वा तमसोऽपगमात् पूर्वमेव निवर्तन्ते स्म। मासानन्तरं तु ऐदम्प्राथम्येन समाजात् कश्चन पक्षी सीमानमुल्लङ्घ्य जोनाथन्पार्वे समागत उड्डयनशिक्षणार्थं च विज्ञप्तिं कृतवान् । एतावतैव सोऽपराधी जातः समाजाच्च बहिष्कृतः । एतेन जोनाथन्पक्षिण: टेरेन्स् लोवेल्नामाऽष्टमो विद्यार्थी प्राप्तः । अनन्तरितरात्रावेव, पदे पदे प्रस्खलन्, अकर्मण्यं च स्वीयं वामपक्षमाकृषन् कर्क् मेनार्ड्सपक्षी समुदायादागत्य जोनाथन्पादयोः धसिति पतितः, 'कृपया सहायं करोतु....', स दीनतयाऽवदत्, 'अहं मम जीवने उड्डयनाद् ऋते नाऽन्यत् किमपि कर्तुमिच्छामि, कृपया....' । 'आगच्छतु तर्हि, मया सहैव भूमेरुत्प्लवनं करोतु, आवामधुनैवोड्डयनमारभेवहि !' जोनाथन् अकथयत् । 'भवान् मम परिस्थितिं नैवाऽवबुध्यते । मम पक्षं पश्यतु, अहं तं चालयितुमप्यशक्तोऽस्मि ।' 66 Page #74 -------------------------------------------------------------------------- ________________ Page #75 -------------------------------------------------------------------------- ________________ मेनार्ड्सक्षिन् ! भवान् स्वीयं स्वरूपं - सत्यस्वरूपं प्राप्तुमत्रैव - इदानीमेव च सर्वथा स्वतन्त्रोऽस्ति । विश्वस्य काचिदपि शक्तिस्तद् बाधितुं न समर्था । अयं तु महासागरपक्षिणो नियमोऽस्ति.... निरपवादो नियमः !!' 'अहमुड्डयितुं समर्थोऽस्मि - इति भवान् वदति ?' 'अहं कथयामि यत् – भवान् मुक्तोऽस्ति ।' अतीव सहजतया शीघ्रतया च कमेनार्ड्सक्षिणा निरायासमेव स्वपक्षौ विस्तारितौ, अत्यन्तं सरलतया च तामिस्र पवने उत्पत्य स उड्डीनः । पञ्चशतपादोपरिष्टात् कृताभिस्तस्य हर्षगर्जनाभिः सर्वोऽपि पक्षिसमाजो निद्रातो जागृतः, 'अहमुड्डयितुं शक्नोमि, अरे! शृण्वन्तु सर्वे! अहमुड्डयने सर्वथा समर्थोऽस्मि !!' For Private 83ersonal Use Only Page #76 -------------------------------------------------------------------------- ________________ जाते तु सूर्योदये विद्यार्थिवर्तुलाद् बहिः प्रायः सहस्रं पक्षिणः संस्थिता आसन् । ते च मेनार्ड्सक्षिणमुत्सुकतया पश्यन्त आसन् । अन्ये तान् द्रक्ष्यन्ति इति चिन्तैवेदानीं तेषां नाऽऽसीत् । ते तु जोनाथन्वचांसि श्रुत्वा तान्यवबोद्धं प्रयत्नशीला आसन् । जोनाथन् तु अत्यन्तं सरलतया वदन्नासीत् - 'उड्डयनं नाम पक्षिणां निर्बाधोऽधिकारः, स्वातन्त्र्यं तु तस्य सहजा प्रकृतिरस्ति, यत्किमपि स्वातन्त्र्यं निरुन्ध्यात् तत् सर्वथा दूरीकर्तव्यं, भवतु नाम तत् कर्मकाण्डोऽन्धश्रद्धा वाऽन्यद् वा किमपि बन्धनम् !' । 'यदि तत् समाजस्य नियमः स्यात् तदाऽपि?', समूहतः कश्चित् पृष्टवान् । 'सत्यो नियमस्तु स एव यः स्वातन्त्र्यं प्रापयेत्', जोनाथन् उक्तवान्, 'अन्यस्तु नाऽस्त्येव ।' 'यथा भवान् उड्डयने समर्थस्तथा वयं कथं समर्था भवेम?' अपरोऽपृच्छत्, 'यतो भवांस्तु विशिष्टो भगवत्कृपाप्राप्तः दिव्यश्च, अन्येभ्यश्च सागरपक्षिभ्य उच्चतर अस्ति ।' 'मैवं चिन्तयन्तु, फ्लेचर्पक्षिणं पश्यन्तु, लोवेल पक्षिणं, चार्ल्सोलेण्ड्पक्षिणं !! किं तेऽपि विशिष्टाः कृपाप्राप्ता दिव्याश्च ? नैव, ते तु मादृशा भवादृशाश्चैव सन्ति । विशेषो यदि स्यात् तदा एक एव, यत्-ते स्वीयं सत्यस्वरूपमवबुध्य तदनुसारमभ्यासं कर्तुं प्रयत्नशीलाः सन्ति ।' एतन्निशम्य फ्लेचर्पक्षिण ऋते सर्वेऽपि तच्छिष्या अस्वस्थाः साताः । ते न जानन्ति स्म यत् ईदृशमपि किञ्चित् ते कुर्वाणाः सन्तीति । इतो जोनाथन्समीपमागच्छतां पक्षिणां सङ्ख्या प्रतिदिनमवर्धततराम् । केचित् स्वजिज्ञासां सन्तोषयितुमागच्छन्ति स्म, केचित् तं देववत् पूजयितुं केचिच्चाऽवमानयितुमपि। 69 Page #77 -------------------------------------------------------------------------- ________________ अथैकस्मिन् प्रभाते महावेगयुतोड्यनाभ्यासानन्तरं फ्लेचर् जोनाथन्पक्षिणमकथयत् – 'ते वदन्ति समाजे यद् भवान् साक्षात् महासागरपक्षिणः पुत्रोऽस्ति, अथ च भवान् अस्मत्त: सर्वेभ्योऽपि समयापेक्षया वर्षसहस्रमग्रेतनः इति ।' जोनाथन् दीर्घ निःश्वस्य चिन्तितवान्, 'अन्यथा चिन्तनस्य मूल्यमितोऽपि दातव्यं खलु !'; 'तेऽस्मान् देववत् पूजयन्ति वा राक्षसं वा मन्यन्ते', स फ्लेचर्पक्षिणमुक्तवान्, 'भवान् किं मन्यते ? किमावां समयापेक्षयाऽग्रेतना वा?'। दीर्घमौनानन्तरं फ्लेचर् अवदत्, 'नन्वीदृशमुड्डयनं शिक्षितुं यः कोऽपि इच्छेत् स सर्वदा सर्वथा च समर्थः, समयापेक्षा त्वत्र नास्त्येव । एतत् तु सत्यमेव यदावां परम्परातस्तु नितरामग्रेसरा एव । गतानुगतिकतया ये उड्डयन्ते तेभ्योऽपि वयं सर्वथाऽग्रेतना एव ।' 'एतत् तु शुभचिन्तनं भोः !' विपर्यस्तोड्डयनप्रयोगं कुर्वाणो जोनाथन् अवदत्, “समयतोऽग्रेतनत्वतस्तु सर्वथोत्तमम् ।' For Private 9 Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ सप्ताहानन्तरमेवैतद् घटितम् । फ्लेचर्पक्षी नूतनविद्यार्थिवर्ग शीघ्रगतिकोड्डयनस्यांऽशान् निदर्शयन्नासीत् । सद्य एव सप्तसहस्रपादोन्नतेरवपतनं कृत्वा तटस्य किञ्चिदुपरिष्टादेव दीर्घधूसरितरेखायां स उड्डीनः । तावता एकः पक्षिशावः स्वीये प्रथम एवोड्डयने मातर्मातरिति चीत्कुर्वन् साक्षात् तस्य मार्ग एव समापतत् । तं रक्षितुं क्षणस्य दशमेंऽशे एव फ्लेचर् सहसैव तीव्रतया च यावद् वामतः परावृत्तस्तावत् समधिकद्विशतमाइल्-वेगेन एकस्मिन् घनप्रस्तरमये भृगौ संघट्टितः । अयं च महापाषाणस्तस्य कृतेऽन्यस्मिन् विश्वे प्रवेशाय कठोरं बृहच्च प्रवेशद्वारमिवाऽभवत् । संघट्टनेन तस्य मनो भयाघातान्धकारैराक्रान्तमिव । कुत्रचिदज्ञाते आकाशे इतस्ततः प्लवमानः, स्मरण-विस्मरणतरङ्गेषु च दोलायमानः स भयभीत उद्विग्नः खिन्नश्च सञ्जातः, अतिशयं खिन्नः । तावता स एव ध्वनिस्तस्याऽन्तरुद्भूतो यो जोनाथन्पक्षिणः प्रथमसमागमे तेन श्रुत आसीत् । 'फ्लेचर्पक्षिन् ! अस्माभिरस्माकं मर्यादा बन्धनानि च क्रमशो धैर्येणैव च लङ्घनीयानि, एष एव महान् उपायोऽस्ति सर्वत्र । शिलावेधिउड्डयनमस्माकमभ्यासक्रमे इतोऽपि कञ्चित् कालमपेक्षते ।' 'जोनाथन्....!' ‘महासागरपक्षिणः पुत्रतयाऽप्यभिज्ञायतेऽसौ', स रूक्षतयाऽवदत् । 'भवान् अत्र किं करोति? स भृगुः !.. परन्तु किमहं ..... किमधुनाऽपि .... न मृतोऽहम् ?' 'अहो फ्लेच ! यदि भवानिदानी मया सह संलपेत् तर्हि कथं भवान् मृतः स्यात् ? भवता साहसिकतयाऽविचारिततया च चैतन्यस्यैकस्मात् स्तरादन्यत् स्तरं गन्तुं प्रयतितम् । अत इदं घटितम् । समाजवृद्धैस्तु भवतो महती विपत्तिरपेक्षिताऽऽसीत्, किन्तु भवन्तं जीवितं दृष्ट्वा ते आश्चर्याघाताभ्यां स्तब्धीभूताः सन्ति । भवतु तत्, किन्त्विदानीं भवतैव निर्णेतव्यं यत्, भवानस्मिन् स्तर एव - यत् पूर्वतनात् स्तरात् किञ्चिदु Page #79 -------------------------------------------------------------------------- ________________ च्चतरमस्ति - स्थित्वोच्चशिक्षणं गृह्णीयाद् वा पूर्वतने वा स्तरे गत्वा समाजेन सह कार्यं कुर्याद् वा।' । 'नूनमहं समाजे एव प्रतिनिवर्तितुमिच्छामि यत इदानीमेव मया नूतनो विद्यार्थिवर्गः शिक्षयितुमारब्धोऽस्ति ।' 'बाढं फ्लेचर् !, किन्त्वेतन्मा विस्मार्षीत् यद् विचारान्नाऽस्त्यधिकमिदं शरीरमिति.....' फ्लेचर शिरो विधूय पक्षौ विकोचितवान्... भृगोश्चाऽधोभागे परित एकत्रितस्य पक्षिसमाजस्य मध्येऽक्षिणी उन्मीलितवान् । यावत्स ईषच्चलितस्तावत् तु समस्तेऽपि समाजे महान् कोलाहलः संवृत्तः । 'अरे ! जीवत्येषः ? यो मृत आसीत् - स जीवति ?' 'नूनं महासागरपक्षिण: पुत्रेण पक्षाग्रं संस्पश्यैष उज्जीवित: !!' 'नैवम् । स तु निषेधतीदम् । स तु पिशाचोऽस्ति - पिशाचः ! अस्माकं विभाजनं कर्तुमागतोऽसौ !!' समुदाये चतुःसहस्रं पक्षिण आसन् । प्रथमत एव फ्लेचर्पक्षिणो दुर्घटनया ते भयभीता आसन् । तावता 'पिशाचः' इति शब्दः सामुद्रमहावातस्य धारेव तेषामन्तः सर्वत्र प्रासरत् । अतः कोपेन तेषामक्षिणी प्रज्वलिते, तीक्ष्णैश्चञ्चुभिस्तैः सहसाऽऽक्रमणं कृतम् । 'यद्यावामितोऽपसरेव तर्हि शोभनं स्यान्न वा फ्लेचर?' जोनाथन् पृष्टवान् । 'बाढं, मम नाऽस्त्येव विरोधः किल !' फ्लेचर उदतरत् । क्षणार्धेनैव तौ अर्धमाइल्-दूरं प्राप्तौ, समुदायस्य प्रस्फुरन्तश्चञ्चवस्तु शून्याकाश एवाऽऽस्फालिताः । 'एकस्मै पक्षिणे - स सर्वथा स्वतन्त्रोऽस्ति, एतच्च सोऽल्पकालाभ्यासेनैव साधयितुमलमिति - अङ्गीकारयितुमस्मिन् जगति किमिति कठिनतममस्ति? किमर्थमियती जडता?', जोनाथन् खिन्नतया पृष्टवान् । For Private Dersonal Use Only Page #80 -------------------------------------------------------------------------- ________________ दृश्यपरिवर्तनेनेतोऽप्याश्चर्यभ्रान्ततयाऽक्षिणी मटमटायन् फ्लेचर् पृष्टवान्'भवता किमेतद् विहितम् ? आवामत्र कथं प्राप्तौ ?' 'भवतैवोक्तमासीद् - अहं पक्षिसमूहाद् दूरं गन्तुमिच्छामि - खलु ?' 'आम् सत्यम्, किन्तु भवता किं ......' 'सर्वस्याऽप्येक एवोपायोऽस्ति फ्लेचर् !, अभ्यासः !' 73 Page #81 -------------------------------------------------------------------------- ________________ अनन्तरे प्रात:काले तु सर्वेऽपि पक्षिणः स्वीयामुन्मत्तावस्थां विस्मृतवन्त आसन्, किन्तु फ्लेचर् नैव विस्मृतवान्, 'जोनाथन् ! भवतोक्तमासीद् यत् - स्वीये समाजे तावत् स्नेहनीयं यथा तत्र प्रतिनिवर्त्य तेषामुच्चशिक्षणाय साहाय्यं कर्तव्यं, स्मर्यते नन्विदम् ?' 'अथ किम् ?' 'किन्तु तस्मिन् पक्षिसमूहे स्नेहो वा कथं भवेद् यः सद्य एव भवन्तं हन्तुमुद्यत आसीत् ? नाऽहमेतदवबुध्ये कथमपि !' 'अहो फ्लेच ! मा करोतु तत्र स्नेहम् ! सर्वथा मा स्त्रिह्यतु विद्वेषे दुष्टतायां च। अस्माभिस्तु प्रत्येकं तेषां सत्यस्वरूपस्य सत्तत्त्वस्य च दर्शनायाऽभ्यासः कर्तव्य:, ते चैतद् द्वयमपि स्वयमेव यथा जानीयुः पश्येयुस्तथा तेषां साहाय्यं करणीयम् । एतदैव मम प्रेमतया - सत्यस्नेहतयाऽभिप्रेतम् । यदा भवानेतत्करणे निपुणो भवेत् तदा त्वत्र भूयानानन्दोऽनुभूयते । ' ‘उदाहरणार्थम् – अहमेकमुग्रस्वभावं युवपक्षिणं जानामि । तस्य नाम - फ्लेचर् लिण्ड् सागरपक्षी अस्ति सद्य एव समाजाद बहिष्कृतः स आमरणं समाजेन सह योद्धुं दूरवर्तिभृगुषु च स्वयमेव स्वीयं रौरवं नरकं रचयितुं सिद्ध आसीत् । किन्त्वद्य स एव स्वीयं सुन्दरं स्वर्गं विरचयन् समग्रं समाजमपि तत्रैव प्रापणाय नेतृत्वं कुर्वन्नस्ति । ' फ्लेचर् जोनाथन्पक्षिणं प्रति परावृत्तः । तस्य चक्षुषोर्भयस्य रेखाऽऽसीत् 'नेतृत्वं ? मयि ? कोऽत्राऽऽशयो भवतः ? भवानेवाऽत्र प्रशिक्षकोऽस्ति । भवानितो गन्तुं नैवाऽर्हति ।' T - 'कथं न ? किं भवान् न जानाति यदत्रेवाऽन्यत्राऽपि अन्येऽपि बहवः पक्षिसमाजा बहवः फ्लेचर्पक्षिणोऽपि च स्युरेव येषां प्रशिक्षकस्याऽऽवश्यकता इतोऽप्यधिका स्यात् ? अयं समाजस्तु प्रगतिपथं प्राप्याऽद्य प्रकाशं प्रति प्रस्थितोऽस्ति...।' जोन् ! 'किन्तु अस्मि... भवांस्तु....' अहं तु केवलमेकः सामान्यः सागरपक्षी 74 Page #82 -------------------------------------------------------------------------- ________________ ....महासागरपक्षिण एक एव पुत्रो न वा ?' दीर्घ निःश्वस्य जोनाथन् उक्तवान् । ततः समुद्रं विलोकयन्, 'अतः परं भवते ममाऽऽवश्यकत्ता नास्ति । भवता तु स्वयमेव स्वं प्राप्तुं, निज सत्यस्वरूपं यथार्थतयाऽवबोद्धं, निःसीमं च फ्लेचर्पक्षिणं प्रकटयितुं प्रत्यहमधिकाधिकतया प्रयतनीयम् । स एव भवतो वास्तविको गुरुः । तस्यैवाऽवगमनमभ्यासश्चाऽऽवश्यकोऽस्ति भवते ।' क्षणानन्तरमेव जोनाथन्पक्षिणः शरीरं वायौ दोलायितं सकम्पं चाऽदृश्यं भवितुमारब्धम् । 'कृपया मद्विषायिकी: क्षुद्राः किंवदन्तीः प्रसारयितुं तेभ्योऽवसरं मा दात्, मां वा भगवत्तया मा पूजयेत्, अवगतं फ्लेच ! अहं त्वेक: सामान्यः सागरपक्षी अस्मि । उड्डयनं मे रोचते, यद्यपि.......' 'जोनाथन् !!!' 'वत्स फ्लेच ! स्वनेत्रयोरपि विश्वासं मा कार्षीत् । ते तु केवलं सीमायां बद्धमेव दर्शयितुं क्षमे । स्वीयबोधेनैव द्रष्टुं प्रयतताम्, यच्च यावच्च भवान् जानाति तन्मार्गयतु, भवान् उड्डयनस्य मार्ग स्वयमेव प्राप्स्यति ।' कम्पनं शमितम् । जोनाथन् शून्यावकाशे विलीन आसीत् । For Private Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Page #84 -------------------------------------------------------------------------- ________________ अथ कियच्चित्कालानन्तरं फ्लेचर्पक्षी स्वमेवाऽऽकाशे उन्नीतवान्, तत्र च प्रथमपाठशिक्षणायोत्सुकं नवीनतमं विद्यार्थीयूथं सम्मुखीकृतवान् । 'प्रारम्भे तु भवद्भिरेतत् स्थिरीकर्तव्यं निजचित्ते, स गभीरतयाऽवदत्, 'यत्प्रत्येकं सागरपक्षी स्वातन्त्र्यस्य निःसीमो विचारोऽस्ति महासागरपक्षिण एव प्रतिकृतिरस्ति सः, तथा वामपक्षाग्राद् दक्षिणपक्षाग्रं यावद् यद् भवतां शरीर तत्तु केवलं विचारा एव, नाऽन्यत् किञ्चित् ।' तरुणाः पक्षिणस्तं प्रश्नसूचकदृष्ट्या पश्यन्त आसन्, 'अहो ! अयं तु नास्ति कश्चिदुड्डयननियमः !' तैश्चिन्तितम् । दीर्घं निःश्वस्य फ्लेचर् अग्रेऽवदत् 'हम्..... बाढं तावत् ! ।' ततो विवेचिकया दृष्ट्या तान् पश्यन् कथितवान् - 'चलन्तु... प्रथमं क्षितिजसमान्तरोड्डयनेन प्रारभामहै।' इदं च वदतैव स तत्क्षणमेव स्पष्टतया बोधितवान् यत् तस्य मित्रं जोनाथन् स्वस्मात् प्रामाणिकतयाऽधिकदिव्यो नाऽऽसीत् । 'सीमानः खलु न सन्ति, जोनाथन् !?' स चिन्तितवान् । 'अस्तु तावत्, नास्ति दवीयसी सा वेला यदाऽहं वायोः प्रतनुकं स्तरं भेदयित्वा भवदीये समुद्रतटे प्रादुर्भूय भवते द्वित्रान् उड्डयनप्रयोगान् दर्शयिष्यामि । ' अथ च यद्यपि स स्वीयविद्यार्थिनां समक्षं गभीरतया कठोरतया च वर्तितुं प्रायतत, किन्तु सहसा स तान् सत्यस्वरूपेण द्रष्टवान्, क्षणमात्रमेव । ततश्च स तान् पूर्वतोऽप्यधिकतया गाढतरं च प्रीयते स्म । 'सीमानो न सन्ति खलु, जोनाथन् !?' इति विचिन्त्य स मन्दं हसितवान् । ज्ञानार्जनार्थं तस्य'स्पर्धाऽद्य प्रारब्धाऽऽसीत् । 77 Page #85 -------------------------------------------------------------------------- ________________ (अस्य पुस्तकस्य गूर्जरगिरा सारानुवादका श्रीमत्या मीरा-भट्टमहोदयया स्वानुवादारम्भे लिखितः प्रवेशकोऽप्यत्राऽनूद्यते ।) बहूनि वर्षाणि व्यतीतान्यस्य । कदाचिदहं रेल्यानद्वारा बिहारअसमराज्ययोः प्रवासं कुर्वत्यासम् । कुत्रचित् स्थानके रेल्कक्ष्यवातायनाद् मया पुस्तकविक्रेतुः पावें 'Jonathan Livingston Seagull' पुस्तकं दृष्टम् । अस्य पुस्तकस्य वैश्रुत्यं पूर्वमेवाऽहं श्रुतवत्यासमतस्तत्क्षणमेव तत् क्रीत्वा वारं वारं पठितवती सुहृदां च तदास्वादानं कारितवती । एतावता 'नवनीत' सामयिकस्य सम्पादिकया श्रीमतीकुन्दनिकामहोदययाऽस्य पुस्तकस्य सारसंक्षेपं कर्तुमनुरुद्धाऽहम् । अथ च सुजैौजरैः सादरं सप्रेम च गूर्जरपरिवेशप्राप्तं 'सागर-पंखी' ति पुस्तकं स्वीकृतम्। जोनाथन् एको लघुक: सामुद्रपक्षी अस्ति । किन्तु साधारणसागरपक्षिभ्यः स कथञ्चिद् विशिष्टोऽस्ति । यदा तस्य साजात्या भक्ष्यान्वेषणे निरता भवन्ति तदाऽयमौन्नत्यं प्राप्तुं प्रयतते । अभिलषत्ययं पक्षी व्योम्न्युच्चतम लक्ष्यं साधयितुं, पारावारमुल्लङ्घयितुं, दूरस्थान् क्षितिजान् संस्पृश्याऽऽकाशगामिनो गिरिकन्दरांश्चाऽऽरोढुम् !! इयं कथा त्वेकं रूपकमस्ति । वस्तुतस्त्वस्माकमात्मपक्ष्येव सागरपक्षी अस्ति । अस्मासु केचिज्जना जन्मत एव तादृगन्तःसत्त्वयुता भवन्ति येषां पक्षौ विकासार्थं सततं परिस्पन्देते । जीवनस्य सर्वविधमप्यौन्नत्यं सर्वाऽपि गभीरता, नि:सीमोऽपि च विस्तारस्तेषामत्यल्पः प्रतिभाति । उच्छ्रयो गाम्भीर्यं व्यापश्चेत्येतेषां त्रयाणां परिमाणानामप्यगोचरं तत्त्वं स्वसात् कर्तुं सर्वेणाऽप्यात्मवीर्येण मथनमित्येव तेषां जीवनस्य परमप्राणायते । जीवनयात्रा नाम किमप्येकमेव विरामस्थानमिति न । नित्यं निरन्तरं च नूतनलक्ष्याणि यदुद्घाटयेत् तदेव जीवनम् । एकस्मिन्नूने लक्ष्ये सागरपक्षी वयोवृद्धं गुरुतुल्यं ज्येष्ठं च्यांग्-पक्षिणं पृच्छति - ‘च्यांग् ! कृपया सत्यं वदतु, एतत् तु स्वर्गं नास्त्येव खलु !' स्वर्गं नामाऽन्तिमं लक्ष्यम् । For Private personal Use Only Page #86 -------------------------------------------------------------------------- ________________ तदा च्यांग् विनोदेन वदति, 'अहो ! अत्राऽपि त्वं शिक्षितुमारब्ध : !' । यात्रा तु यात्रैव, न लक्ष्यं परिपूर्णता वा - इतीदं तथ्यं यदा जोनाथन् अवबुध्यते तदा गुरुर्वदति, 'अधुना त्वं मर्मज्ञः सञ्जातोऽस्ति ।' अनन्तरं जोनाथन्समक्षं जीवनस्य रहस्योद्घाटनं कुर्वन् च्यांग् वदति, 'स्वर्ग स्थल-कालयोः सीमनि नैव वर्तते । जीवने परिपूर्णतायाः प्राप्तिरेव स्वर्गम् !! '। एतदेवाऽस्माकमुपनिषत्स्वपि कथितम् । स्थलातीते कालातीतेऽसीमानन्तशाश्वते च तत्त्वे स्थैर्यप्रापणमेतदेव । बहिः कुत्राऽप्यगत्वा स्वीये मूलस्वरूपे स्थिरीभवनमेव तत्त्वं ननु ! पूर्णगतिरपि अतिशयवेगेन भ्रमणं कुर्वतो भ्रमकस्य स्थिरा गतिः । जोनाथन्पक्षिणोऽवतारकृत्यमिदमत्यन्तं रुचिरतया कलात्मकतया चेह प्रकटितमस्ति । तस्य वचनेषु कदाचिद् इसुख्रिस्तस्य कदाचिच्च भगवतो बुद्धस्य ध्वनिरनुभूयते। यदा कदाऽप्यवतारेणाऽपि स्वकार्य समापनीयमेव । जोनाथन् अपि महाप्रयाणाय सिद्धो भवति, किन्तु स्वान्वयेऽन्यं 'जोनाथन्-पक्षिणं' स्थापयित्वा स गच्छति । गच्छंश्च स स्वोत्तराधिकारिणं फ्लेचर्पक्षिणं जीवनस्याऽन्यदपि महासत्यं कथयति, 'कृपया फ्लेचर् ! गमनानन्तरं मा मां भगवत्तया पूजये: । प्रत्येकं पक्षिषु निःसीम आत्मा समस्त्येव । तस्याऽधिकाधिकतयाऽवबोधनमेवाऽऽवश्यकम् ।' कथयित्वा च जनसामान्येष्वपि या अप्रकटिताः सम्भावना विद्यन्ते ताः प्रत्यङ्गुलिनिर्देशं कृत्वा, फ्लेचर्पक्षिकृते शक्यतानां विशालं जगदनावृत्य च जोनाथन् अन्तिम प्रयाणं करोति । एषोऽस्ति एकस्याऽऽत्मपक्षिणः पक्षयोः प्रस्पन्दः, औन्नत्यमानन्त्यं चोल्लङ्घनाय सततं प्रयत्नशीलता, स्वस्मिन्नेव च स्थिरीभूय विश्वानुभवनस्य कला। 79 Page #87 -------------------------------------------------------------------------- ________________ Page #88 -------------------------------------------------------------------------- ________________ Page #89 -------------------------------------------------------------------------- ________________ Page #90 -------------------------------------------------------------------------- ________________