________________
आशंसा
आकाशे विहगा डयन्ते स्म, डयन्ते, डयिष्यन्ते च। केचित् तत्र लक्ष्यं विनाकृत्यैव भ्राम्यन्ति । केचन उड्डयनेनैव श्राम्यन्ति। कतिचिद् भक्ष्यार्थमेव उड्डीय, भ्रान्त्वा च विश्राम्यन्ति। कश्चिद् एवंविधोऽपि स्याद्, यो निश्चितलक्ष्यार्थमेव डयते, यावल्लक्ष्यप्राप्ति च अविराममविश्रामं च उड्डयनं निर्वहति । किन्तु, एतादृशः कश्चिदेव ! अथ च - तस्याऽऽकाशमपि चिदाकाशं, न जडाकाशम् । चिदाकाशे उत्पतनं, पुनरध: पतनं, क्षणं हताशा, क्षणं निर्वेदः, क्षणं विरामः । पुनरपि ऊर्ध्वगामि-सुजनैः प्रोत्साहनं, ततश्च पुनरुड्डयनश्रमः । एतदेव चोड्डयननिर्वहणं नाम, यस्य वारंवारमावर्तनेन सुविशदीभूतमानसः आत्म-विहगः स्थिरीभवति चिदाकाशे, निर्बन्धं स्वैरविहरणं कर्तुं क्षमश्च भवति, अदृष्टाऽश्रुताऽननुभूतपूर्वं चिदानन्दमनुभवति च स स्वकीयचित्तभूमौ। तदनन्तरं तस्य लयो भवति ऊर्ध्वतायां, चिदाकाशमेव च भवति तस्य शाश्वतं वासभवनम्। ईदृशं वासभवनमवाप्तुकामस्य, तत्समवाप्तौ स्फोरितस्फारपौरुषस्य, प्रान्ते तत् समवाप्तवतश्च कस्यचित् चिदानन्दात्मनः समस्तीयं कथा । वयमपीदृश्याः कथाया नायकत्वमवाप्तुं समर्था भवेम ! ।
-बिजयशीलचन्द्ररिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org