________________
तौ सायंकाले समागतौ, स्वस्य चाऽतीव प्रिये आकाशे प्रशान्ततया विसर्पन जोनाथन् एकाक्येव ताभ्यामुपलब्धः । तस्य पक्षान्तिकमेव प्रकटितयोस्तयोः पक्षिणोः पक्षौ तारकप्रकाशवदुज्ज्वलौ आस्तां, ततश्च निर्गच्छत् तेजोऽपि रात्रेर्मदुले समीरे सौम्यं मैत्रीपूर्णं चाऽभासत । किन्तु सर्वेभ्योऽपि रुचिरंतु तयोरुड्डयनकौशलमासीत् । तौ निरन्तरं नैयत्येन च जोनाथन्-पक्षाग्रादगुलमात्रान्तरेणैवोड्डयेते स्म। निःशब्दमेव जोनाथन् तौ परीक्षितुमारभत । तस्य परीक्षामद्यपर्यन्तमपि कोऽपि सागरपक्षी उत्तरीतुं समर्थो नैवाऽऽसीत् । स सहसैव स्वपक्षौ आवाऽत्यन्तं मन्दगतिकोऽभवत् । तौ द्वावपि जाज्वल्यमानौ पक्षिणौ तेन सहैव गति मन्दीकृत्य मृदुलतया विसर्पितवन्तौ । यतस्तावपि मन्दं मृदु चोड्डयनं ज्ञातवन्तौ ननु ! . तदनन्तरमेव स स्वपक्षौ सङ्कोच्य शरीरं च लोठयित्वा नवत्यधिकशतमाइल्-वेगेनाऽवपतनमारभत । अतौ द्वावपि तेन सममेव विना स्खलनमवपतितौ । जोनाथन् तु तस्मिन्नेव वेगे दीर्घायां समरेखायां वर्तुलाकारां भ्रमि कुर्वन् उड्डीनः, तदैतौ द्वावपि स्मितस्मेराननौ विनाऽऽयासं तमनुकृतवन्तौ । ततः स समतले उड्डयने प्रतिनिवृत्त्य कञ्चित् कालं तूष्णीं स्थित्वा कथितवान् – 'भव्यम् ! अथ कौ भवन्तौ ?' 'भवतः सजातीयावेवाऽऽवाम् । भवतो बन्धू आवाम् ।' तौ दृढेनाऽपि सौम्यस्वरेणोक्तवन्तौ । 'आवां भवन्तमुच्चस्तरं नेतुं, भवतो गृहं प्रति नेतुमागतौ स्वः...'। 'गृहं मम किमपि नास्ति भोः !, जातिरपि नास्ति काचित् । बहिष्कृतोऽहं समाजादस्मि । किञ्च, इदानीमेव वयं महापर्वतीयपवनस्य शिखरोपरि उड्डयमानाः स्मः । कतिचित्पादशतेभ्योऽप्यूर्वं मम जराजर्जरितं देहमुन्नेतुं नाऽहं शक्तोऽस्मि ।'
Jain Education International
25 For Private & Personal Use Only
www.jainelibrary.org